We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

ततः कर्ता वनाकम्पं ववौ वर्षाप्रभञ्जनः,नभः पूरयितारश् च समुन्नेमुः पयोधराः।
तर्पणं प्रजनिष्णूनां षस्यानाममलं पयःरोचिष्णवः सविस्फूर्जा मुमुचुर् भिन्नवद् घनाः
निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितःअलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः
तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णुवत्वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्
"भ्रमी कदम्बसंभिन्नः पवनः शमिनामपिक्लमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः।
संज्वारिणेव मनसा ध्वान्तमायासिना मयाद्रोहि खद्योतसंपर्कि नयनाऽमोषि दुःसहम्।
कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः।
संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः।
एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्।
कूर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम्त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः।
विकत्थी याचते प्रत्तमविश्रम्भी मुहुर् जलम्पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्।
प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः।"प्रमाथिनो वियुक्तानां हिंसकाः पापदर्दुराः।
निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः
अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैःउत्कण्ठावर्धनैः शुभ्रं रवणैरम्बरं ततम्।
विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्"पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान्।
कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्।
ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिःदीपितारं दिनारम्भे निरस्तध्वान्तसंचयम्।
अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहेगामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्।
जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वयागत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः
शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमीन्यायं परिभवी ब्रूहि पापमव्यथिनं कपिम्।
स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।"
सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुःविदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।
तं जागरूकः कार्येषु दन्दशूकरिपुं कपिःअकम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम्
कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनःइच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्।
"अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सहअभीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः।
विद्यन्नाशं रवेर् भासं विभ्राजं शशलाञ्छनम्रामप्रत्तेषु भोगेषु नाहमज्ञासिषं रतः
एष शोकच्छिदो वीरान् प्रभो ! सम्प्रति वानरान्धराशैलसमुद्राणामन्तगान् प्रहिणोम्यहम्।

अथ निरधिकारकृत्

राघवस्य ततः कार्यं कारुर् वानरपुङ्गवःसर्ववानरसेनानामाश्वागमनमादिशत्।
"वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताःकारका मित्रकार्याणि सीतालाभाय", सो ऽब्रवीत्।"
ततः कपीनां संघाता हर्षाद् राघवभूतयेपूरयन्तः समाजग्मुर् भयदाया दिशो दश।
सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्करिष्यन्त इवाऽकस्माद् भुवनं निर्दशाननम्।
कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सःकाकुत्स्थपादपच्छायां सीतस्पर्शामुपागमत्।
कार्यं सारनिभं दृष्ट्वा वानराणां समागमम्अवैन् नाशं दशास्यस्य निर्वृत्तमिव राघवः।
ततः कपिसमाहारमेऽकनिश्चायमागतम्उपाध्यायऽइवायामं सुग्रीवोऽध्यापिपद् दिशाम्
सजलाऽम्भोदसंरावं हनुमन्तं सहाऽङ्गदम्जाम्बवं नीलसहितं चारुसन्द्रावमब्रवीत्
"यात यूयं यमश्रायं दिशं नायेन दिक्षणाम्विक्षावस् तोयविश्रावं तर्जयन्तो महोदधेः
उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधाभृताम्वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः
सदोद्गारसुगन्धीनां फलानामलमाशिताःउत्कारेषु च धान्यानामनभीष्टपरिग्रहाः
संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरेशिञ्जितं मधुलेहानां पुष्पप्रस्तारशायिनाम्
आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेःस्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्।
न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः
सीता रक्षोनिकायेषु स्तोककायैश् छलेन चमृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः
सांराविणं न कर्तव्यं, यावन् नायाति दर्शनम्,संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः।
प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैःज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवागमम्।
वेदिवत् सपरिग्राहा यज्ञयैः संस्कृता द्विजैःदृश्या मासतमागह्नः प्रागनिन्दितवेशभृत्
नीवारफलमूलाऽशानृषीनप्यतिशेरतेयस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत।
उच्छ्रायवान् घनारावो वानरं जलदाऽरवम्दूराप्लावं हनूमन्तं रामः प्रोचे गजाप्लवः
"अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,प्रर्थयध्वं तथा सीतां, यात सुग्रीवशासनम्
वणिक् प्रग्राहवान् यद्वत् काले चरति सिद्धये,देशाऽपेक्षास् तथा यूयं यातादायाऽङ्गुलीयकम्।"
अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्तलम्वाजिनः स्यन्दने भानोर् विमुक्तप्रग्रहा इव।
उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथादिशं प्रास्थापयद् राजा वानराणां कृतत्वरः
प्राचीं तावद्भिरव्यग्रः कपिभिर् विनतो ययौअप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः।
ययुर् विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिवप्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः
परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसुविन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे।
भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम्
आदरेण गमं चक्रुर् विषमेस्वप्यसङ्घसाःव्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः सव्यधान् हरीन्।
संचेरुः सहसाः केचिद,स्वनाः केचिदाटिषुःसंयामवन्तो यतिवन्, निगदानपरे ऽमुचन्।
अथ क्लमादनिःक्वाणा नराः क्षीणपणा इवअमदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः।
ततः ससंमदास् तत्र निरैक्षन्त पतत्रिणःगुहाद्वारेण निर्यातः समजेन पशूनिव।
वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः।
कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणःद्वारं तमोघनप्रख्यं गुहायाः प्राविशन् द्रुतम्।
तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौधसद्मनः।लौहोद्घनघनस्कन्धा ललिताऽपघनां स्त्रियम्
सा स्तम्बघ्नपदन्यासान् विघनेन्दुसमद्युतिःपरिघोरुभुजानाह हसन्ती स्वागतं कपीन्।
पिप्राया ऽद्रिगुहोपघ्नानुद्घान् संघसमागतान्फलैर् नानारसैश् चित्रैः स्वादुशीतैश्च वारिभिः
निघाऽनिघतरुच्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैःतृप्तास् तां भ्राजथुमतीं पप्रच्छुः"कस्य पूरियम्।"
"रक्ष्णं करोषि कस्मात् त्वं, यत्नेनाख्यायतां शुभे !स्वप्ने निधिवदाभाति तव संदर्शनं हि नः।
ततो जलधिगम्भीरान् वानरान् प्रत्यवाच सा"इयं दानवराजस्य पूः सृष्टिर् विश्वकर्मणः
जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जलद्विषा,दुहिता मेरुसावर्णेरहं नाम्ना स्वयंप्रभा।
जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनःकरोमि वा बहिर्यूतीन्, पिधध्वं पाणिभिर्दृशः"
प्रज्यायती निरुद्धाऽक्षान् विद्येवाऽनुष्ठितक्रियान्निरचिक्रमदिच्छातो वानरांश् चङ्क्रमावतः।
निष्क्रम्य शिक्षया तस्यास् त्रपावन्तो रसातलात्ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे।
चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः"अकृत्वा नृपतेः कार्यं पूजां लप्स्यामहे कथम्।
प्रायोपासनया शान्तिं मन्वानो वालिसंभवःयुक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम्
प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्"धिक् शालभञ्जिकाप्रख्यान् विशयान् कल्पनारुचीन्,
यां कारिं राजपुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्।
उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्"अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्
अभावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्वजीवनिः,"इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगासनानि ते।
अक्लेश्यमसिना ऽग्न्यन्तं कबन्धवधमभ्यधुः,धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वमनाथवत्।
ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्अशनीयमिवाशंसुर् महानायादशोभनः
देहव्रश्चनतुण्डाऽग्रं तं विलोक्या ऽशुभाकरम्पापगोचरमात्मानमशोचन् वानरा मुहुः
"जटायुः पुण्यकृत् पक्षी दण्डकारण्यसञ्चरःकृत्वा राघवकार्यं यः स्वरारूढो ऽग्निसंस्कृतः
नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,अचेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं
हृदयोदङ्कसंस्थानं कृतान्तानायसन्निभम्शरीराखनतुण्डाऽग्रं प्राप्याऽमुं शर्म दुर्लभम्।
ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभक्रिया,अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया।"
संप्राप्य वानरान् पक्षी जगाद मधुरं वचः"के यूयं दुरुपस्थाने मनसा ऽप्यद्रिमूर्धनि।

अथ प्रकीर्णकाः

आत्मनः परिदेवध्वे कुर्वन्तो रामसंकथाम्,समानोदर्यमस्माकं जटायुं च स्थुथादरात्।
शङ्काधवित्रवचनं प्रत्यूचुर् वानराः खगम्"वयं शत्रुलवित्रेषोर् दूता रामस्य भूपतेः।
केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्।
त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्अकृताऽर्था विशीदन्तः परलोकमुपास्महे।
म्रियामहे, न गच्छामः कौशल्यायनिवल्लभाम्उपलम्भ्यामपश्यन्तः कौमारीं पततां वर !"
जगाद वानरान् पक्षी"नाध्यगीढ्वं ध्रुवं स्मृतिम्यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ।
नाऽयमुद्विजितुं कालः स्वामिकार्याद् भवादृशाम्हृतभार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्।
यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्।
लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्निर्जित्य शक्रमानीता ददृशुर् यां सुरस्त्रियः
बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्कुषित्वा जगतां सारं सैका शङ्के कृता भुवि।
अमृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैःउदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता।
मुषित्वा धनदं पापो यां गृहीत्वावसद् द्विषन्,तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्।
विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवःउक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः।
ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,किं मुमुषिषुवद् यात द्विषो ना ऽपचिकीर्षया।
बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं
समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,नोपायध्वं भयं, सीतां नोपायंस्त दशाननः।
ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्सर्वे किलकिलायन्तो, धैर्यं चाधिषता ऽधिकम्।
निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्मणिरत्नाऽधिशयितं प्रत्युदैक्षन्त तोयधिम्
अमर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिःश्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्
पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचःगुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः
वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनितृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः
द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्मेरोर् जेतुमिवाभोगमुच्चैर् दिद्योतिषुं मुहुः।
विलोक्य सलिलोच्चयानधिसमुद्रमभ्रंलिहान् भ्रमन्मकर भीषणं समधिगम्य चा ऽधः पयःगमागमसहं द्रुतं कपिवृषाः परिप्रैषयन् गजेन्द्रगुरुविक्रमं तरुमृगोत्तमं मारुतिम्।