७ भट्टिकाव्यम् This text does not support clickable word meanings. ततः कर्ता वनाकम्पं ववौ वर्षाप्रभञ्जनः,नभः पूरयितारश् च समुन्नेमुः पयोधराः। ▼ Permalink Bookmark तर्पणं प्रजनिष्णूनां षस्यानाममलं पयःरोचिष्णवः सविस्फूर्जा मुमुचुर् भिन्नवद् घनाः ▼ Permalink Bookmark निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितःअलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः ▼ Permalink Bookmark तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णुवत्वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत् ▼ Permalink Bookmark "भ्रमी कदम्बसंभिन्नः पवनः शमिनामपिक्लमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः। ▼ Permalink Bookmark संज्वारिणेव मनसा ध्वान्तमायासिना मयाद्रोहि खद्योतसंपर्कि नयनाऽमोषि दुःसहम्। ▼ Permalink Bookmark कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः। ▼ Permalink Bookmark संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः। ▼ Permalink Bookmark एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्। ▼ Permalink Bookmark कूर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम्त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः। ▼ Permalink Bookmark विकत्थी याचते प्रत्तमविश्रम्भी मुहुर् जलम्पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्। ▼ Permalink Bookmark प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः।"प्रमाथिनो वियुक्तानां हिंसकाः पापदर्दुराः। ▼ Permalink Bookmark निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः ▼ Permalink Bookmark अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैःउत्कण्ठावर्धनैः शुभ्रं रवणैरम्बरं ततम्। ▼ Permalink Bookmark विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्"पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान्। ▼ Permalink Bookmark कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्। ▼ Permalink Bookmark ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिःदीपितारं दिनारम्भे निरस्तध्वान्तसंचयम्। ▼ Permalink Bookmark अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहेगामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्। ▼ Permalink Bookmark जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वयागत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः ▼ Permalink Bookmark शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमीन्यायं परिभवी ब्रूहि पापमव्यथिनं कपिम्। ▼ Permalink Bookmark स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।" ▼ Permalink Bookmark सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुःविदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्। ▼ Permalink Bookmark तं जागरूकः कार्येषु दन्दशूकरिपुं कपिःअकम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम् ▼ Permalink Bookmark कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनःइच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्। ▼ Permalink Bookmark "अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सहअभीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः। ▼ Permalink Bookmark विद्यन्नाशं रवेर् भासं विभ्राजं शशलाञ्छनम्रामप्रत्तेषु भोगेषु नाहमज्ञासिषं रतः ▼ Permalink Bookmark एष शोकच्छिदो वीरान् प्रभो ! सम्प्रति वानरान्धराशैलसमुद्राणामन्तगान् प्रहिणोम्यहम्। ▼ Permalink Bookmark अथ निरधिकारकृत् ▼ Permalink Bookmark राघवस्य ततः कार्यं कारुर् वानरपुङ्गवःसर्ववानरसेनानामाश्वागमनमादिशत्। ▼ Permalink Bookmark "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताःकारका मित्रकार्याणि सीतालाभाय", सो ऽब्रवीत्।" ▼ Permalink Bookmark ततः कपीनां संघाता हर्षाद् राघवभूतयेपूरयन्तः समाजग्मुर् भयदाया दिशो दश। ▼ Permalink Bookmark सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्करिष्यन्त इवाऽकस्माद् भुवनं निर्दशाननम्। ▼ Permalink Bookmark कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सःकाकुत्स्थपादपच्छायां सीतस्पर्शामुपागमत्। ▼ Permalink Bookmark कार्यं सारनिभं दृष्ट्वा वानराणां समागमम्अवैन् नाशं दशास्यस्य निर्वृत्तमिव राघवः। ▼ Permalink Bookmark ततः कपिसमाहारमेऽकनिश्चायमागतम्उपाध्यायऽइवायामं सुग्रीवोऽध्यापिपद् दिशाम् ▼ Permalink Bookmark सजलाऽम्भोदसंरावं हनुमन्तं सहाऽङ्गदम्जाम्बवं नीलसहितं चारुसन्द्रावमब्रवीत् ▼ Permalink Bookmark "यात यूयं यमश्रायं दिशं नायेन दिक्षणाम्विक्षावस् तोयविश्रावं तर्जयन्तो महोदधेः ▼ Permalink Bookmark उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधाभृताम्वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः ▼ Permalink Bookmark सदोद्गारसुगन्धीनां फलानामलमाशिताःउत्कारेषु च धान्यानामनभीष्टपरिग्रहाः ▼ Permalink Bookmark संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरेशिञ्जितं मधुलेहानां पुष्पप्रस्तारशायिनाम् ▼ Permalink Bookmark आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेःस्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्। ▼ Permalink Bookmark न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः ▼ Permalink Bookmark सीता रक्षोनिकायेषु स्तोककायैश् छलेन चमृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः ▼ Permalink Bookmark सांराविणं न कर्तव्यं, यावन् नायाति दर्शनम्,संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः। ▼ Permalink Bookmark प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैःज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवागमम्। ▼ Permalink Bookmark वेदिवत् सपरिग्राहा यज्ञयैः संस्कृता द्विजैःदृश्या मासतमागह्नः प्रागनिन्दितवेशभृत् ▼ Permalink Bookmark नीवारफलमूलाऽशानृषीनप्यतिशेरतेयस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत। ▼ Permalink Bookmark उच्छ्रायवान् घनारावो वानरं जलदाऽरवम्दूराप्लावं हनूमन्तं रामः प्रोचे गजाप्लवः ▼ Permalink Bookmark "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,प्रर्थयध्वं तथा सीतां, यात सुग्रीवशासनम् ▼ Permalink Bookmark वणिक् प्रग्राहवान् यद्वत् काले चरति सिद्धये,देशाऽपेक्षास् तथा यूयं यातादायाऽङ्गुलीयकम्।" ▼ Permalink Bookmark अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्तलम्वाजिनः स्यन्दने भानोर् विमुक्तप्रग्रहा इव। ▼ Permalink Bookmark उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथादिशं प्रास्थापयद् राजा वानराणां कृतत्वरः ▼ Permalink Bookmark प्राचीं तावद्भिरव्यग्रः कपिभिर् विनतो ययौअप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः। ▼ Permalink Bookmark ययुर् विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिवप्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ▼ Permalink Bookmark परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसुविन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे। ▼ Permalink Bookmark भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम् ▼ Permalink Bookmark आदरेण गमं चक्रुर् विषमेस्वप्यसङ्घसाःव्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः सव्यधान् हरीन्। ▼ Permalink Bookmark संचेरुः सहसाः केचिद,स्वनाः केचिदाटिषुःसंयामवन्तो यतिवन्, निगदानपरे ऽमुचन्। ▼ Permalink Bookmark अथ क्लमादनिःक्वाणा नराः क्षीणपणा इवअमदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः। ▼ Permalink Bookmark ततः ससंमदास् तत्र निरैक्षन्त पतत्रिणःगुहाद्वारेण निर्यातः समजेन पशूनिव। ▼ Permalink Bookmark वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः। ▼ Permalink Bookmark कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणःद्वारं तमोघनप्रख्यं गुहायाः प्राविशन् द्रुतम्। ▼ Permalink Bookmark तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौधसद्मनः।लौहोद्घनघनस्कन्धा ललिताऽपघनां स्त्रियम् ▼ Permalink Bookmark सा स्तम्बघ्नपदन्यासान् विघनेन्दुसमद्युतिःपरिघोरुभुजानाह हसन्ती स्वागतं कपीन्। ▼ Permalink Bookmark पिप्राया ऽद्रिगुहोपघ्नानुद्घान् संघसमागतान्फलैर् नानारसैश् चित्रैः स्वादुशीतैश्च वारिभिः ▼ Permalink Bookmark निघाऽनिघतरुच्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैःतृप्तास् तां भ्राजथुमतीं पप्रच्छुः"कस्य पूरियम्।" ▼ Permalink Bookmark "रक्ष्णं करोषि कस्मात् त्वं, यत्नेनाख्यायतां शुभे !स्वप्ने निधिवदाभाति तव संदर्शनं हि नः। ▼ Permalink Bookmark ततो जलधिगम्भीरान् वानरान् प्रत्यवाच सा"इयं दानवराजस्य पूः सृष्टिर् विश्वकर्मणः ▼ Permalink Bookmark जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जलद्विषा,दुहिता मेरुसावर्णेरहं नाम्ना स्वयंप्रभा। ▼ Permalink Bookmark जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनःकरोमि वा बहिर्यूतीन्, पिधध्वं पाणिभिर्दृशः" ▼ Permalink Bookmark प्रज्यायती निरुद्धाऽक्षान् विद्येवाऽनुष्ठितक्रियान्निरचिक्रमदिच्छातो वानरांश् चङ्क्रमावतः। ▼ Permalink Bookmark निष्क्रम्य शिक्षया तस्यास् त्रपावन्तो रसातलात्ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे। ▼ Permalink Bookmark चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः"अकृत्वा नृपतेः कार्यं पूजां लप्स्यामहे कथम्। ▼ Permalink Bookmark प्रायोपासनया शान्तिं मन्वानो वालिसंभवःयुक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम् ▼ Permalink Bookmark प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्"धिक् शालभञ्जिकाप्रख्यान् विशयान् कल्पनारुचीन्, ▼ Permalink Bookmark यां कारिं राजपुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्। ▼ Permalink Bookmark उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्"अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम् ▼ Permalink Bookmark अभावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्वजीवनिः,"इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगासनानि ते। ▼ Permalink Bookmark अक्लेश्यमसिना ऽग्न्यन्तं कबन्धवधमभ्यधुः,धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वमनाथवत्। ▼ Permalink Bookmark ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्अशनीयमिवाशंसुर् महानायादशोभनः ▼ Permalink Bookmark देहव्रश्चनतुण्डाऽग्रं तं विलोक्या ऽशुभाकरम्पापगोचरमात्मानमशोचन् वानरा मुहुः ▼ Permalink Bookmark "जटायुः पुण्यकृत् पक्षी दण्डकारण्यसञ्चरःकृत्वा राघवकार्यं यः स्वरारूढो ऽग्निसंस्कृतः ▼ Permalink Bookmark नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,अचेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं ▼ Permalink Bookmark हृदयोदङ्कसंस्थानं कृतान्तानायसन्निभम्शरीराखनतुण्डाऽग्रं प्राप्याऽमुं शर्म दुर्लभम्। ▼ Permalink Bookmark ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभक्रिया,अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया।" ▼ Permalink Bookmark संप्राप्य वानरान् पक्षी जगाद मधुरं वचः"के यूयं दुरुपस्थाने मनसा ऽप्यद्रिमूर्धनि। ▼ Permalink Bookmark अथ प्रकीर्णकाः ▼ Permalink Bookmark आत्मनः परिदेवध्वे कुर्वन्तो रामसंकथाम्,समानोदर्यमस्माकं जटायुं च स्थुथादरात्। ▼ Permalink Bookmark शङ्काधवित्रवचनं प्रत्यूचुर् वानराः खगम्"वयं शत्रुलवित्रेषोर् दूता रामस्य भूपतेः। ▼ Permalink Bookmark केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्। ▼ Permalink Bookmark त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्अकृताऽर्था विशीदन्तः परलोकमुपास्महे। ▼ Permalink Bookmark म्रियामहे, न गच्छामः कौशल्यायनिवल्लभाम्उपलम्भ्यामपश्यन्तः कौमारीं पततां वर !" ▼ Permalink Bookmark जगाद वानरान् पक्षी"नाध्यगीढ्वं ध्रुवं स्मृतिम्यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ। ▼ Permalink Bookmark नाऽयमुद्विजितुं कालः स्वामिकार्याद् भवादृशाम्हृतभार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्। ▼ Permalink Bookmark यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्। ▼ Permalink Bookmark लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्निर्जित्य शक्रमानीता ददृशुर् यां सुरस्त्रियः ▼ Permalink Bookmark बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्कुषित्वा जगतां सारं सैका शङ्के कृता भुवि। ▼ Permalink Bookmark अमृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैःउदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता। ▼ Permalink Bookmark मुषित्वा धनदं पापो यां गृहीत्वावसद् द्विषन्,तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्। ▼ Permalink Bookmark विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवःउक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः। ▼ Permalink Bookmark ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,किं मुमुषिषुवद् यात द्विषो ना ऽपचिकीर्षया। ▼ Permalink Bookmark बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं ▼ Permalink Bookmark समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,नोपायध्वं भयं, सीतां नोपायंस्त दशाननः। ▼ Permalink Bookmark ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्सर्वे किलकिलायन्तो, धैर्यं चाधिषता ऽधिकम्। ▼ Permalink Bookmark निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्मणिरत्नाऽधिशयितं प्रत्युदैक्षन्त तोयधिम् ▼ Permalink Bookmark अमर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिःश्रिया समग्रं द्युतितं मदेनेव प्रलोठितम् ▼ Permalink Bookmark पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचःगुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः ▼ Permalink Bookmark वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनितृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः ▼ Permalink Bookmark द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्मेरोर् जेतुमिवाभोगमुच्चैर् दिद्योतिषुं मुहुः। ▼ Permalink Bookmark विलोक्य सलिलोच्चयानधिसमुद्रमभ्रंलिहान् भ्रमन्मकर भीषणं समधिगम्य चा ऽधः पयःगमागमसहं द्रुतं कपिवृषाः परिप्रैषयन् गजेन्द्रगुरुविक्रमं तरुमृगोत्तमं मारुतिम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha