१७ भट्टिकाव्यम् This text does not support clickable word meanings. आशासत ततः शान्तिमस्नुरग्नीनहावयन्,विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च। ▼ Permalink Bookmark अपूजयन् कुलज्येष्ठानुपागूहन्त बालकान्।स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा। ▼ Permalink Bookmark आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुरामिषम्,प्रापिबन् मधुमाध्वीकं भक्ष्यांश् चादन् यथेप्सितान् ▼ Permalink Bookmark न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः,अध्यासत सुयागानि, द्विषद्भ्यश् चा ऽशपंस् तथा। ▼ Permalink Bookmark अपूजयंश् चतुर्वक्त्रं, विप्रानार्चंस् तथा ऽस्तुवन्,समालिपत शक्राऽरिर् यानं चा ऽभ्यलषद् वरम्। ▼ Permalink Bookmark आमुञ्चद् वर्म रत्नाढ्यमबध्नात् खड्गमुज्ज्ल्वलम्,अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः ▼ Permalink Bookmark आघ्नन् भेरीर् महास्वानाः, कम्बूंश् चा ऽप्यधमन् शुभान्,अताडयन् मृदङ्गांश् च, पेराश् चा ऽपूरयन् कलाः। ▼ Permalink Bookmark अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्,अनदन् सिंहनादांश् च, प्राद्रेकत हयद्विपम्। ▼ Permalink Bookmark अनिमित्तान्यथा ऽपश्यन्नस्फुटद् रविमण्डलम्,औक्षन् शोणितमम्भोदा, वायवोऽवान्सुदुःसहाः। ▼ Permalink Bookmark आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः,रक्तं न्यष्ठीवदक्लाम्य दखिद्यद् वाजिकुञ्जरम्। ▼ Permalink Bookmark न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषःअच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा ▼ Permalink Bookmark न्यकृन्तंश् चक्रधाराभिरतुदन् शक्तिभिर् दृढम्,भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्। ▼ Permalink Bookmark आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भूधरैर् भृशम्,अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि। ▼ Permalink Bookmark प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तलकूर्परैः,प्राहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च। ▼ Permalink Bookmark अतृणेट् शक्रजिच् छत्रूनभ्राम्यच् च समन्ततः,अध्वनच् च महाघोरं, न च कंचन नाऽदुनोत्। ▼ Permalink Bookmark नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम्नेषूनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः। ▼ Permalink Bookmark अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः,आक्रन्दमन्यतोऽकुर्वंस् तेना ऽहन्यन्त चाऽन्यतः। ▼ Permalink Bookmark प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च। ▼ Permalink Bookmark सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्वरक्षसाम्निधनायाजुहूषत् तं व्य्ष्टभ्नाद् रघुनन्दनः। ▼ Permalink Bookmark ततो मायामयीं सीतां घ्नन् खड्गेन वियद्गतःअदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्सुतः। ▼ Permalink Bookmark "मा ऽपराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात्सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्" ▼ Permalink Bookmark "पीडाकरममित्राणां कर्तव्यमिति शक्रजित्अब्रवीत्, खड्गकृष्टश् च तस्या मूर्धानमच्छिनत्। ▼ Permalink Bookmark "यत्कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च,सा हते"ति वदन् राममुपातिष्ठन् मरुत्सुतः। ▼ Permalink Bookmark ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा। ▼ Permalink Bookmark तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्। ▼ Permalink Bookmark मा स्म तिष्ठत, तत्रस्थो वध्यो ऽस्मावहुताऽनलः,अस्त्रे ब्रह्मशिरस्युग्रे स्यन्दने चा ऽनुपार्जिते। ▼ Permalink Bookmark ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते"प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः। ▼ Permalink Bookmark तां प्रत्यैच्छन् सुसंप्रितास् ततस् ते सविभीषणाः,निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः ▼ Permalink Bookmark दिक्पालैः कदनं तत्र सेने प्राकुरुतां महत्,ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्यलक्ष्मणौ, ▼ Permalink Bookmark तत्रेन्द्रजितमैक्षेतां कृतधिष्ण्यं समाहितम्।सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्। ▼ Permalink Bookmark अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च।तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्। ▼ Permalink Bookmark अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः"त्वमत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः, ▼ Permalink Bookmark इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,नाऽपश्यः पाणिमार्द्रं त्वं, बन्धुत्वं नाऽप्यपैक्षथाः। ▼ Permalink Bookmark अधर्मान् ना ऽत्रसः पाप ! लोकवादान् न चा ऽबिभेः,धर्मदुषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम्। ▼ Permalink Bookmark निराकृत्य यथा बन्धून् लघुत्वं यात्यसंशयम्।"पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् ▼ Permalink Bookmark "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्सत्यं समभवं वंशे पापानां रक्षसामहम्। ▼ Permalink Bookmark न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव।क्षयावहेषु दोषेषु वार्यमाणो मया ऽरमत् ▼ Permalink Bookmark दशग्रीवं ऽहमेतस्मादत्यजं, न तु विद्विषन्।परस्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्। ▼ Permalink Bookmark व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,आशङ्कत सुहृद्बन्धूनवृद्धान् बह्वमन्यत। ▼ Permalink Bookmark दोषैररमतैभिस् ते पिता ऽत्यज्यत यैर् मया।ततोरुष्यदनर्दच् च, द्विविंशतिभिरेव च ▼ Permalink Bookmark शरैरताडयद् बन्धुं, पञ्चविंशतिभिर् नृपम्रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्। ▼ Permalink Bookmark सागरथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा,सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः। ▼ Permalink Bookmark तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः।वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्। ▼ Permalink Bookmark ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्, ▼ Permalink Bookmark तस्मान् निरपतद् भूरि शिलाशूलेष्टिमुद्गरम्।माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्। ▼ Permalink Bookmark ततो रौद्रसमायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,तेनागम्यत घोरेण, शिरश् चा ऽह्रियत द्विषः ▼ Permalink Bookmark अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपियूथपाः,पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः। ▼ Permalink Bookmark अरोदीद् राक्षसाऽनीकमरोदन् नृभुजां पतिः,मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चातुरः। ▼ Permalink Bookmark "अयुक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,न्यरुन्धंश् चा ऽस्य पन्थानं बन्धुता शुचमारुणत्। ▼ Permalink Bookmark आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायतरावणस्य ततः सैन्यं समस्तमयुयुत्सयत्। ▼ Permalink Bookmark अग्नीनवरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम्,द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्भियः। ▼ Permalink Bookmark परितः पर्यवाद् वायुराज्यगन्धिर् मनोरमः,अश्रूयत स पुण्याहः स्वस्तिघोषः समुच्चरन्। ▼ Permalink Bookmark योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्नथाशिषः। ▼ Permalink Bookmark अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्। ▼ Permalink Bookmark समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्गसंहतीः,गजादीनि समारोहन्, प्रातिष्ठन्ताथ सत्वराः ▼ Permalink Bookmark अपूरयन् नभः शब्दो बलसंवर्तसंभवःअपूर्यन्त च दिग्भागास् तुमुलैस् तूर्यनिस्वनैः। ▼ Permalink Bookmark आसीद् द्वारेषु संघट्टो रथाऽश्वद्विपरक्षसाम्समहाननिमित्तैश् च समभूयत भीषणैः ▼ Permalink Bookmark कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महाद्रुमान्प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महाशिलाः। ▼ Permalink Bookmark ततः समभवद् युद्धं प्राहरन् कपिराक्षसाः,अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च। ▼ Permalink Bookmark प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश,परात्मीयविवेकं च प्रामुष्णात् कपिरक्षसाम्। ▼ Permalink Bookmark ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः।अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः ▼ Permalink Bookmark अघुरंस् ते महाघोरमश्च्योतन्नथ शोणितम्,समपद्यत रक्तेन समन्तात् तेन कर्दमः। ▼ Permalink Bookmark गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः,वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः। ▼ Permalink Bookmark ततो ऽचित्रीयता ऽस्त्रौघैर् धनुश् चा ऽधूनयन् महत्रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे। ▼ Permalink Bookmark छिन्नानैक्षन्त भिन्नांश् च समन्ताद् रामसायुकैः।क्रुष्टं हाहेति चा ऽशृण्वन् न च रामं न्यरूपयन्। ▼ Permalink Bookmark अभिनच् छत्रुसंघातानक्षुणद् वाजिकुञ्जरम्,अपिनट् च रथाऽनीकं, न चा ऽज्ञायत संचरन्। ▼ Permalink Bookmark दश दन्तिसहस्राणि रथिनां च महात्मनाम्चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् ▼ Permalink Bookmark लक्षे च द्वे पदातीनां राघवेण धनुर्भृताअनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्। ▼ Permalink Bookmark यमलोकमिवाऽग्रथ्नाद्, रुद्राक्रीडमिवा ऽकरोत्,शैलैरिवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः। ▼ Permalink Bookmark अस्तुवन् देवगन्धर्वा, व्यस्मयन्त प्लवङ्गमाःकपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्। ▼ Permalink Bookmark राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्।अमुह्यद् बालवृद्धं च, समरौदितरो जनः। ▼ Permalink Bookmark सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः,फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा ऽब्रुवन्। ▼ Permalink Bookmark ततो ऽधावन् महाघोरं रथमास्थाय रावणः,अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः। ▼ Permalink Bookmark मेघाः सविद्युतो ऽवर्षंश् चेलक्नोपं च शोणितम्,अवान् भीमा नभस्वन्तः, प्रारुवन्नशिवाः शिवाः ▼ Permalink Bookmark आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगेअधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः ▼ Permalink Bookmark व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः,ततो व्यरसदग्लायदध्य्शेत महीतलम्। ▼ Permalink Bookmark आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्,अशीयत नृमांसाऽदां बलं सुग्रीवबाधितम्। ▼ Permalink Bookmark विरूपाक्षस् ततो क्रीडत् संग्रामे मत्तहस्तिना,मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः। ▼ Permalink Bookmark अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्।संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्। ▼ Permalink Bookmark ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्,अगोपायच् च रक्षांसि दिशश् चा ऽरीनभाजयत्। ▼ Permalink Bookmark आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,धनुरभ्रमयद् भीममभीषयत विद्विषः। ▼ Permalink Bookmark आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्,राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषुवृष्टिभिः। ▼ Permalink Bookmark अपौहद् बाणवर्षं तद् भल्लै रामो निराकुलः,प्रत्यस्कुनोद् दषग्रीवं शरैराशीविषोपमैः। ▼ Permalink Bookmark मण्डलान्याटतां चित्रमच्छित्तां शस्त्रसंहतीः,जगद् विस्मापयेतां तौ, न च वीरावसीदताम्। ▼ Permalink Bookmark व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,अभित्तां तूर्णमन्योन्यं शिक्षाश् चा ऽतनुतां मुहुः। ▼ Permalink Bookmark समाधत्तासुरं शस्त्रं राक्षसः क्रूरविक्रमः,तदक्षरन् महासर्पान् व्याघ्रसिंहांश् च भीषणान्। ▼ Permalink Bookmark न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततःअदीव्यद् रौद्रमत्युग्रं, मुसलाद्यगलत् ततः ▼ Permalink Bookmark गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनःसर्वमर्मसु काकुत्स्थ मौम्भत् तीक्ष्णैः शिलीमुखैः ▼ Permalink Bookmark ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्,अमथ्नात् सारथिं चाशु, भूरिभिश् चा ऽतुदच्छरैः। ▼ Permalink Bookmark अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्,नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्। ▼ Permalink Bookmark तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः,अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ▼ Permalink Bookmark अष्टघण्टां महाशक्तिमुदयच्छन् महत्तराम्,रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत्। ▼ Permalink Bookmark राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतःततस् तूर्णं दशग्रीवो रणक्ष्मा पर्यशेषयत्। ▼ Permalink Bookmark सस्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्रजः,असिञ्चदोषधीस् ता याः समानीता हनूमता। ▼ Permalink Bookmark उदजीवत् सुमित्राभूर् भ्राताश्लिष्यत तमायतम्,सन्यङ् मूर्धन्युपाशिङ्घ दपृच्छच् च निरामयम् ▼ Permalink Bookmark ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्,अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन ऽरावणः। ▼ Permalink Bookmark "भूमिष्ठस्या ऽसमं युद्धं रथस्थेने"ति मातलिःआहरद् रथमत्युग्रं सशस्त्रं मघवाज्ञया। ▼ Permalink Bookmark सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततःनिरास्यत दशास्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः। ▼ Permalink Bookmark ततः शतमहस्रेण रामः प्रौर्णोन् निशाचरम्बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्। ▼ Permalink Bookmark अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षितिमण्डलम्,रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं महीपतिः। ▼ Permalink Bookmark ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ▼ Permalink Bookmark अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः,अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्। ▼ Permalink Bookmark राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्,निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम् ▼ Permalink Bookmark उभावकृन्ततां केतूनाव्यथेतामुभौ न तौअदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम् ▼ Permalink Bookmark उभौ मायां व्यतायेतां, वीरौ ना ऽश्राम्यतामुभौमण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ ▼ Permalink Bookmark न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौस्यन्दनौ समपृच्येतामुभयोर् दीप्तवाजिनौ। ▼ Permalink Bookmark ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे,रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः। ▼ Permalink Bookmark समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः। ▼ Permalink Bookmark ततो मातलिना शस्त्रमस्मर्यत महीपतेःवधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्। ▼ Permalink Bookmark नभस्वान् यस्य वाजेषु, फले तिग्मांशुपावकौगुरुत्वं मेरुसङ्काशं, देहः सूक्ष्मो वियन्मयः। ▼ Permalink Bookmark राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम्स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्। ▼ Permalink Bookmark आबध्नन् कपिवदनानि संप्रसादं, प्राशंसत् सुरसमितिर् नृपं जिता ऽरिम्,अन्येषां विगतपरिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्नबन्धुः ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha