This text does not support clickable word meanings.

आशासत ततः शान्तिमस्नुरग्नीनहावयन्,विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च।
अपूजयन् कुलज्येष्ठानुपागूहन्त बालकान्।स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा।
आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुरामिषम्,प्रापिबन् मधुमाध्वीकं भक्ष्यांश् चादन् यथेप्सितान्
न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः,अध्यासत सुयागानि, द्विषद्भ्यश् चा ऽशपंस् तथा।
अपूजयंश् चतुर्वक्त्रं, विप्रानार्चंस् तथा ऽस्तुवन्,समालिपत शक्राऽरिर् यानं चा ऽभ्यलषद् वरम्।
आमुञ्चद् वर्म रत्नाढ्यमबध्नात् खड्गमुज्ज्ल्वलम्,अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः
आघ्नन् भेरीर् महास्वानाः, कम्बूंश् चा ऽप्यधमन् शुभान्,अताडयन् मृदङ्गांश् च, पेराश् चा ऽपूरयन् कलाः।
अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्,अनदन् सिंहनादांश् च, प्राद्रेकत हयद्विपम्।
अनिमित्तान्यथा ऽपश्यन्नस्फुटद् रविमण्डलम्,औक्षन् शोणितमम्भोदा, वायवोऽवान्सुदुःसहाः।
आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः,रक्तं न्यष्ठीवदक्लाम्य दखिद्यद् वाजिकुञ्जरम्।
न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषःअच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा
न्यकृन्तंश् चक्रधाराभिरतुदन् शक्तिभिर् दृढम्,भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्।
आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भूधरैर् भृशम्,अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि।
प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तलकूर्परैः,प्राहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च।
अतृणेट् शक्रजिच् छत्रूनभ्राम्यच् च समन्ततः,अध्वनच् च महाघोरं, न च कंचन नाऽदुनोत्।
नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम्नेषूनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः।
अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः,आक्रन्दमन्यतोऽकुर्वंस् तेना ऽहन्यन्त चाऽन्यतः।
प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च।
सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्वरक्षसाम्निधनायाजुहूषत् तं व्य्ष्टभ्नाद् रघुनन्दनः।
ततो मायामयीं सीतां घ्नन् खड्गेन वियद्गतःअदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्सुतः।
"मा ऽपराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात्सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्"
"पीडाकरममित्राणां कर्तव्यमिति शक्रजित्अब्रवीत्, खड्गकृष्टश् च तस्या मूर्धानमच्छिनत्।
"यत्कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च,सा हते"ति वदन् राममुपातिष्ठन् मरुत्सुतः।
ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा।
तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्।
मा स्म तिष्ठत, तत्रस्थो वध्यो ऽस्मावहुताऽनलः,अस्त्रे ब्रह्मशिरस्युग्रे स्यन्दने चा ऽनुपार्जिते।
ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते"प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः।
तां प्रत्यैच्छन् सुसंप्रितास् ततस् ते सविभीषणाः,निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः
दिक्पालैः कदनं तत्र सेने प्राकुरुतां महत्,ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्यलक्ष्मणौ,
तत्रेन्द्रजितमैक्षेतां कृतधिष्ण्यं समाहितम्।सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्।
अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च।तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्।
अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः"त्वमत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,
इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,नाऽपश्यः पाणिमार्द्रं त्वं, बन्धुत्वं नाऽप्यपैक्षथाः।
अधर्मान् ना ऽत्रसः पाप ! लोकवादान् न चा ऽबिभेः,धर्मदुषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम्।
निराकृत्य यथा बन्धून् लघुत्वं यात्यसंशयम्।"पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्
"मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्सत्यं समभवं वंशे पापानां रक्षसामहम्।
न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव।क्षयावहेषु दोषेषु वार्यमाणो मया ऽरमत्
दशग्रीवं ऽहमेतस्मादत्यजं, न तु विद्विषन्।परस्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्।
व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,आशङ्कत सुहृद्बन्धूनवृद्धान् बह्वमन्यत।
दोषैररमतैभिस् ते पिता ऽत्यज्यत यैर् मया।ततोरुष्यदनर्दच् च, द्विविंशतिभिरेव च
शरैरताडयद् बन्धुं, पञ्चविंशतिभिर् नृपम्रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्।
सागरथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा,सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः।
तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः।वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्।
ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,
तस्मान् निरपतद् भूरि शिलाशूलेष्टिमुद्गरम्।माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्।
ततो रौद्रसमायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,तेनागम्यत घोरेण, शिरश् चा ऽह्रियत द्विषः
अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपियूथपाः,पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः।
अरोदीद् राक्षसाऽनीकमरोदन् नृभुजां पतिः,मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चातुरः।
"अयुक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,न्यरुन्धंश् चा ऽस्य पन्थानं बन्धुता शुचमारुणत्।
आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायतरावणस्य ततः सैन्यं समस्तमयुयुत्सयत्।
अग्नीनवरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम्,द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्भियः।
परितः पर्यवाद् वायुराज्यगन्धिर् मनोरमः,अश्रूयत स पुण्याहः स्वस्तिघोषः समुच्चरन्।
योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्नथाशिषः।
अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्।
समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्गसंहतीः,गजादीनि समारोहन्, प्रातिष्ठन्ताथ सत्वराः
अपूरयन् नभः शब्दो बलसंवर्तसंभवःअपूर्यन्त च दिग्भागास् तुमुलैस् तूर्यनिस्वनैः।
आसीद् द्वारेषु संघट्टो रथाऽश्वद्विपरक्षसाम्समहाननिमित्तैश् च समभूयत भीषणैः
कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महाद्रुमान्प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महाशिलाः।
ततः समभवद् युद्धं प्राहरन् कपिराक्षसाः,अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च।
प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश,परात्मीयविवेकं च प्रामुष्णात् कपिरक्षसाम्।
ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः।अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः
अघुरंस् ते महाघोरमश्च्योतन्नथ शोणितम्,समपद्यत रक्तेन समन्तात् तेन कर्दमः।
गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः,वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः।
ततो ऽचित्रीयता ऽस्त्रौघैर् धनुश् चा ऽधूनयन् महत्रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे।
छिन्नानैक्षन्त भिन्नांश् च समन्ताद् रामसायुकैः।क्रुष्टं हाहेति चा ऽशृण्वन् न च रामं न्यरूपयन्।
अभिनच् छत्रुसंघातानक्षुणद् वाजिकुञ्जरम्,अपिनट् च रथाऽनीकं, न चा ऽज्ञायत संचरन्।
दश दन्तिसहस्राणि रथिनां च महात्मनाम्चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्
लक्षे च द्वे पदातीनां राघवेण धनुर्भृताअनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्।
यमलोकमिवाऽग्रथ्नाद्, रुद्राक्रीडमिवा ऽकरोत्,शैलैरिवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः।
अस्तुवन् देवगन्धर्वा, व्यस्मयन्त प्लवङ्गमाःकपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्।
राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्।अमुह्यद् बालवृद्धं च, समरौदितरो जनः।
सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः,फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा ऽब्रुवन्।
ततो ऽधावन् महाघोरं रथमास्थाय रावणः,अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः।
मेघाः सविद्युतो ऽवर्षंश् चेलक्नोपं च शोणितम्,अवान् भीमा नभस्वन्तः, प्रारुवन्नशिवाः शिवाः
आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगेअधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः
व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः,ततो व्यरसदग्लायदध्य्शेत महीतलम्।
आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्,अशीयत नृमांसाऽदां बलं सुग्रीवबाधितम्।
विरूपाक्षस् ततो क्रीडत् संग्रामे मत्तहस्तिना,मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः।
अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्।संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्।
ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्,अगोपायच् च रक्षांसि दिशश् चा ऽरीनभाजयत्।
आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,धनुरभ्रमयद् भीममभीषयत विद्विषः।
आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्,राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषुवृष्टिभिः।
अपौहद् बाणवर्षं तद् भल्लै रामो निराकुलः,प्रत्यस्कुनोद् दषग्रीवं शरैराशीविषोपमैः।
मण्डलान्याटतां चित्रमच्छित्तां शस्त्रसंहतीः,जगद् विस्मापयेतां तौ, न च वीरावसीदताम्।
व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,अभित्तां तूर्णमन्योन्यं शिक्षाश् चा ऽतनुतां मुहुः।
समाधत्तासुरं शस्त्रं राक्षसः क्रूरविक्रमः,तदक्षरन् महासर्पान् व्याघ्रसिंहांश् च भीषणान्।
न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततःअदीव्यद् रौद्रमत्युग्रं, मुसलाद्यगलत् ततः
गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनःसर्वमर्मसु काकुत्स्थ मौम्भत् तीक्ष्णैः शिलीमुखैः
ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्,अमथ्नात् सारथिं चाशु, भूरिभिश् चा ऽतुदच्छरैः।
अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्,नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्।
तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः,अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः
अष्टघण्टां महाशक्तिमुदयच्छन् महत्तराम्,रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत्।
राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतःततस् तूर्णं दशग्रीवो रणक्ष्मा पर्यशेषयत्।
सस्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्रजः,असिञ्चदोषधीस् ता याः समानीता हनूमता।
उदजीवत् सुमित्राभूर् भ्राताश्लिष्यत तमायतम्,सन्यङ् मूर्धन्युपाशिङ्घ दपृच्छच् च निरामयम्
ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्,अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन ऽरावणः।
"भूमिष्ठस्या ऽसमं युद्धं रथस्थेने"ति मातलिःआहरद् रथमत्युग्रं सशस्त्रं मघवाज्ञया।
सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततःनिरास्यत दशास्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः।
ततः शतमहस्रेण रामः प्रौर्णोन् निशाचरम्बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्।
अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षितिमण्डलम्,रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं महीपतिः।
ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः
अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः,अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्।
राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्,निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्
उभावकृन्ततां केतूनाव्यथेतामुभौ न तौअदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्
उभौ मायां व्यतायेतां, वीरौ ना ऽश्राम्यतामुभौमण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ
न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौस्यन्दनौ समपृच्येतामुभयोर् दीप्तवाजिनौ।
ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे,रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः।
समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः।
ततो मातलिना शस्त्रमस्मर्यत महीपतेःवधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्।
नभस्वान् यस्य वाजेषु, फले तिग्मांशुपावकौगुरुत्वं मेरुसङ्काशं, देहः सूक्ष्मो वियन्मयः।
राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम्स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्।
आबध्नन् कपिवदनानि संप्रसादं, प्राशंसत् सुरसमितिर् नृपं जिता ऽरिम्,अन्येषां विगतपरिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्नबन्धुः