समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान्"काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्
ना भविष्यदियं शुद्धा यद्यपास्यमहं ततःन चैनां, पक्षपातो मे धर्मादन्यत्र राघव !
अपि तत्ररिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः,क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्।
सङ्कल्पं ना ऽकरिष्यच् च तत्रेयं शुद्धमानसा,सत्याऽमर्षमवाप्स्यस् त्वं रामः सीतानिबन्धनम्।
त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम्,अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्।
यावज्जिवमशोचिष्यो, ना ऽहास्यश् चेदिदं तमः,भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्।
समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,लोकपाला इहायास्यंस् ततो ना ऽमी कलिद्रुहः।
आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव,त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्।
यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोषवर्जितातदसूयारतौ लोके तस्या वाच्यास्पदं मृषा।
अमंत्स्य भवान् यद्वद् तथैव च पिता तवनागमिष्यद् विमानस्थः साक्षाद् दशरथो नृपः।
ना ऽकल्प्स्यत् सन्निधिं स्थानुः शूली वृषभवाहनःअन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता।
आनन्दयिष्यदागम्य कथं त्वामरविन्दसत्राजेन्द्र ! विश्वसूर् धाता चारित्र्ये सीतया क्षते।
प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः"ना, शोत्स्यन् मैथिली लोके, नाचरिष्यदिदं यदि।
नाऽमोक्ष्याम वयं शङ्का मिहाधास्यन् न चेद् भवान्,किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत।
प्रावर्तिष्यन्त चेष्टाश् चेद्याथातथ्यवत् तव,अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः
प्राणमन्तम् ततो राममुक्तवानिति शङ्करः"किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्।
को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुरद्विषाम्,को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत
दैत्यक्षये महाराज ! यच्च यत्रा ऽघटिष्यथाःसमाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमीहितम्।
तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्सहस्रचक्षुषं रामो निनंसुः परिदृष्टवान्।
प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततःसंजाताः फलिनानम्ररोचिष्णुद्रुमसद्रवः।
भ्रमर कुलाकुलोल्बणसुगन्धिपुष्पतरुस् तरुणमधूकसम्भवपिशङ्गिततुङ्गशिखःशिखरशिला ऽन्तरालपरिक्wxल्क़्क़्प्तजला ऽवसरः सरसफलश्रियं स विततान सुवेलगिरिः।
संवाद्भिः सकुसुमरेणुभिः समीरै रानम्रैर् बहुफलधारिभिर् वना ऽन्तैःश्च्योतद्भिर् मधुपटलैश् च वानराणाम् आप्यानो रिपुवधसम्भवः प्रमोदः
आयान्त्यः स्वफलभरेण भङ्गुरत्वं भृङ्गालीनिचयचिता लतास् तरूणाम्सामोदाः क्षितितलसंस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः।