२१ भट्टिकाव्यम् This text does not support clickable word meanings. समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान्"काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम् ▼ Permalink Bookmark ना भविष्यदियं शुद्धा यद्यपास्यमहं ततःन चैनां, पक्षपातो मे धर्मादन्यत्र राघव ! ▼ Permalink Bookmark अपि तत्ररिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः,क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्। ▼ Permalink Bookmark सङ्कल्पं ना ऽकरिष्यच् च तत्रेयं शुद्धमानसा,सत्याऽमर्षमवाप्स्यस् त्वं रामः सीतानिबन्धनम्। ▼ Permalink Bookmark त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम्,अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्। ▼ Permalink Bookmark यावज्जिवमशोचिष्यो, ना ऽहास्यश् चेदिदं तमः,भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्। ▼ Permalink Bookmark समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,लोकपाला इहायास्यंस् ततो ना ऽमी कलिद्रुहः। ▼ Permalink Bookmark आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव,त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्। ▼ Permalink Bookmark यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोषवर्जितातदसूयारतौ लोके तस्या वाच्यास्पदं मृषा। ▼ Permalink Bookmark अमंत्स्य भवान् यद्वद् तथैव च पिता तवनागमिष्यद् विमानस्थः साक्षाद् दशरथो नृपः। ▼ Permalink Bookmark ना ऽकल्प्स्यत् सन्निधिं स्थानुः शूली वृषभवाहनःअन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता। ▼ Permalink Bookmark आनन्दयिष्यदागम्य कथं त्वामरविन्दसत्राजेन्द्र ! विश्वसूर् धाता चारित्र्ये सीतया क्षते। ▼ Permalink Bookmark प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः"ना, शोत्स्यन् मैथिली लोके, नाचरिष्यदिदं यदि। ▼ Permalink Bookmark नाऽमोक्ष्याम वयं शङ्का मिहाधास्यन् न चेद् भवान्,किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत। ▼ Permalink Bookmark प्रावर्तिष्यन्त चेष्टाश् चेद्याथातथ्यवत् तव,अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः ▼ Permalink Bookmark प्राणमन्तम् ततो राममुक्तवानिति शङ्करः"किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्। ▼ Permalink Bookmark को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुरद्विषाम्,को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत ▼ Permalink Bookmark दैत्यक्षये महाराज ! यच्च यत्रा ऽघटिष्यथाःसमाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमीहितम्। ▼ Permalink Bookmark तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्सहस्रचक्षुषं रामो निनंसुः परिदृष्टवान्। ▼ Permalink Bookmark प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततःसंजाताः फलिनानम्ररोचिष्णुद्रुमसद्रवः। ▼ Permalink Bookmark भ्रमर कुलाकुलोल्बणसुगन्धिपुष्पतरुस् तरुणमधूकसम्भवपिशङ्गिततुङ्गशिखःशिखरशिला ऽन्तरालपरिक्wxल्क़्क़्प्तजला ऽवसरः सरसफलश्रियं स विततान सुवेलगिरिः। ▼ Permalink Bookmark संवाद्भिः सकुसुमरेणुभिः समीरै रानम्रैर् बहुफलधारिभिर् वना ऽन्तैःश्च्योतद्भिर् मधुपटलैश् च वानराणाम् आप्यानो रिपुवधसम्भवः प्रमोदः ▼ Permalink Bookmark आयान्त्यः स्वफलभरेण भङ्गुरत्वं भृङ्गालीनिचयचिता लतास् तरूणाम्सामोदाः क्षितितलसंस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha