२ भट्टिकाव्यम् This text does not support clickable word meanings. वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां चनिर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श। ▼ Permalink Bookmark तरङ्गसङ्गाच् चपलैः पलाशैर् ज्वालाश्रियं साऽतिशयां दधन्तिसधूमदीप्ताऽग्निरुचीनि रेजुस् ताम्रोत्पलान्याकुलषट्पदानि। ▼ Permalink Bookmark बिम्बागतैस् तीरवनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिःकूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः। ▼ Permalink Bookmark निशातुषारैर् नयनाऽम्बुकल्पैः पत्राऽन्तपर्यागलदच्छबिन्दुःउपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर् दिनादौ। ▼ Permalink Bookmark वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश् च निलीनभृङ्गैःपरस्परां विस्मयवन्ति लक्ष्मी मालोकयाञ्चक्रुरिवादरेण। ▼ Permalink Bookmark प्रभातवाताहतिकम्पिताकृतिः कुमुद्वतीरेणुपिशङ्गविग्रहम्निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्यसङ्गमम्। ▼ Permalink Bookmark दत्ताऽवधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुःआकर्णयन्नुत्सुकहंसनादान् लक्ष्ये समाधिं न दधे मृगावित्। ▼ Permalink Bookmark गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाभमभ्रम्सरिन्मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्। ▼ Permalink Bookmark गर्जन् हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान् निशम्यक्रमं बबन्ध क्रमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान्। ▼ Permalink Bookmark अदृक्षता ऽम्भांसि नवोत्पलानि, रुतानि चा ऽश्रोषत षट्पदानाम्,आघ्रायि वान् गन्धवहः सुगन्धस् तेनाऽरविन्दव्यतिषङ्गवांश् च। ▼ Permalink Bookmark लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च,कुतूहलाच्, चारुशिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त। ▼ Permalink Bookmark तिग्मांशुरश्मिच्छुरितान्यदूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्गभस्तिधाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि। ▼ Permalink Bookmark दिग्व्यापिनीर् लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीःऋज्वायताः शस्यविशेषपङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः। ▼ Permalink Bookmark वियोगदुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिःआहार्यशोभारहितैरमायै रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान् ▼ Permalink Bookmark स्त्रीभूषणं चेष्टितमप्रगल्भं चारूण्यवक्राण्यपि वीक्षितानिऋजूंश्च विश्वासकृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य। ▼ Permalink Bookmark विवृत्तपार्श्वं रुचिराऽङ्गहारं समुद्वहच्चारुनितम्बरम्यम्आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यमनन्दयत् तम्। ▼ Permalink Bookmark विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्यमेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्। ▼ Permalink Bookmark सिताऽरविन्दप्रचयेषु च लीनाः संसक्तपेणेषु च सैकतेषुकुन्दाऽवदाताः कलहंसमालाः प्रतीयीरे श्रोत्रसुखैर् निनादैः। ▼ Permalink Bookmark न तज् जलं, यन् न सुचारुपङ्कजं, न पङ्कजं तद्, यदलीनषट्पदम्,न षट्पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन् मनः। ▼ Permalink Bookmark तं यायजूकाः सह भिक्षुमुख्यैस् तपःकृशाः शान्त्युदकुम्भहस्ताः,यायावराः पुष्पफलेन चा ऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्। ▼ Permalink Bookmark विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षतात्माअध्यापिपद् गाधिसुतो यथावन् निघातयिष्यन् युधि यातुधानान्। ▼ Permalink Bookmark आयोधने स्थायुकमस्त्रजात ममोघमभ्यर्णमहाहवायददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः ▼ Permalink Bookmark तं विप्रदर्शं कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके,जिघांसुवेदं धृतभासुराऽस्त्रम् तां ताडकाख्यां निजघान रामः। ▼ Permalink Bookmark अथालुलोके हुतधूमकेतु शिखाऽञ्जनस्निग्धसमृद्धशाखम्तपोवनं प्राध्ययनाऽभिभूत समुच्चरच्चारुपतक्त्रिशिञ्जम्। ▼ Permalink Bookmark क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षिगणैः समन्तात्,नन्नम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः। ▼ Permalink Bookmark अपूपुजन् विष्टरपाद्यमाल्यै रातिथ्यनिष्णा वनवासिमुख्याः,प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनादि क्षितिपालपुत्रौ। ▼ Permalink Bookmark दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्,हवींषि संप्रत्यपि रक्षतं, तौ तपोधनैरित्थमभाषिषाताम्। ▼ Permalink Bookmark तान् प्रत्यवादीदथ राघ्वोऽपि, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,तपोमरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु। ▼ Permalink Bookmark प्रतुष्टुवुः कर्म ततः प्रक्wxल्क़्क़्प्तैस् ते यज्ञियैर् द्रव्यगणैर् यथावत्,दक्षिण्यदिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्। ▼ Permalink Bookmark आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैर् गिरिकूटदघ्नैःततः क्षपाऽटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चानशेऽब्दैः। ▼ Permalink Bookmark अधिज्यचापः स्थिरबाहुमुष्टि रुदञ्चिताऽक्षोऽञ्चितदक्षिणोरुःतान् लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी। ▼ Permalink Bookmark गाधेयदिष्टं विरसं रसन्तं रामो ऽपि मायाचणमस्त्रचुञ्चुःस्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्। ▼ Permalink Bookmark आत्मंभरिस् त्वंपिशितैर् नराणां फलेग्रहीन् हंसि वनस्पतीनाम्,शौवस्तिकत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्। ▼ Permalink Bookmark अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेतनराऽधिवासम्,धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेदवृत्ते। ▼ Permalink Bookmark धर्मोऽस्ति सत्यं तव राक्षसाऽय मन्यो व्यतिस्ते तु ममाऽपि धर्मः,ब्रह्मद्विषस् ते प्रणिहन्मि येन, राजन्यवृत्तिर् धृतकार्मुकेषुः। ▼ Permalink Bookmark इत्थंप्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ,तृणाय मत्वा रघुनन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्। ▼ Permalink Bookmark जग्मुः प्रसादं द्विजमानसानि, द्यौर् वर्षुका पुष्पचयं बभूव,निर्व्याजमिज्या ववृते। वचश् च भूयो बभाषे मुनिना कुमारः ▼ Permalink Bookmark महीय्यमाना भवता ऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेणदिवोऽपि वज्रायुधभूषणाया ह्रिणीयते वीरवती न भूमिः। ▼ Permalink Bookmark बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्यकुलं विजिग्यो,कल्पाऽन्तदुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर् न तस्य। ▼ Permalink Bookmark इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिलयज्ञभूमिम्रामं मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्। ▼ Permalink Bookmark एतौ स्म मित्रावरुणौ किमेतौ, किमश्विनौ सोमरसं पिपासू,जनं समस्तं जनकाश्रमस्थं रूपेण तावौजिहतां नृसिंहौ। ▼ Permalink Bookmark अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्यपुरं पिनाकी",जिज्ञासमानो बलमस्य बाह्वोर्। हसन्नभाङ्क्ष्वीद् रघुनन्दनस् तत्। ▼ Permalink Bookmark ततो नदीष्णान् पथिकान् गिरिज्ञा नाह्वायकान् भूमिपतेरयोध्याम्दित्सुः सुतां योधहरैस् तुरङ्गैर् व्यसर्जयन् मैथिलमर्त्यमुख्यः। ▼ Permalink Bookmark क्षिप्रं ततो ऽध्वन्यतुरङ्गयायी यविष्ठवद् वृद्धतमो ऽपि राजाआख्यायकेभ्यः श्रुतसूनुवृत्ति रग्लानयानो मिथिलामगच्छत्। ▼ Permalink Bookmark वृन्दिष्ठमार्चीद् वसुधाधिपानां तं प्रेष्ठमेतं गुरुवद् गरिष्ठम्सदृङ्महान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिं यशसा वरिष्ठम्। ▼ Permalink Bookmark त्रिवर्गपारीणमसौ भवन्त मध्यासयन्नासनमेकमिन्द्रःविवेकदृश्वत्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे। ▼ Permalink Bookmark हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभाशशाङ्कंकान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली। ▼ Permalink Bookmark लब्धा ततो विश्वजनीनवृत्तिस् तामात्मनीनामुदवोढ रामःसद्रत्नमुक्ताफलभर्मशोभां संबंहयन्तीम् रघुवर्ग्यलक्ष्मीम्। ▼ Permalink Bookmark सुप्रातमासादितसंमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम्अश्वीयराजन्यकहास्तिकाढ्य मगात् सराजं बलमध्वनीनम्। ▼ Permalink Bookmark विशङ्कटो वक्षसि बाणपाणिः संपन्नतालद्वयसः पुरस्तात्भीष्मो धनुष्मानुपजान्वरत्नि रैति स्म रामः पथि जामदग्न्यः। ▼ Permalink Bookmark उच्चैरसौ राघवमाह्वतेदं धनुः सबाणं कुरु, साऽतियासीः।पराक्रमज्ञः प्रियसन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे। ▼ Permalink Bookmark अनेकशो निर्जितराजकस् त्वं, पित् नतार्प्सीर् नृपरक्ततोयैः,संक्षिप्य संरम्भमसदूविपक्षं, कास्था ऽर्भके ऽस्मिंस्तव राम ! रामे। ▼ Permalink Bookmark अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारःधनुर् व्यकार्क्षीद् गुरुबाणगर्भं, लोकानलावीद् विजितांश्च तस्य। ▼ Permalink Bookmark जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्यशनैर्शङ्कम्वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेकमुखानि मार्गान्। ▼ Permalink Bookmark अथ पुरुजवयोगान् नेदयद् दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम्क्लमरहितमचेतन् नीरजीकारितक्ष्मां, बलमुपहितशोभां तूर्णमायादयोध्याम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha