This text does not support clickable word meanings.

वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां चनिर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श।
तरङ्गसङ्गाच् चपलैः पलाशैर् ज्वालाश्रियं साऽतिशयां दधन्तिसधूमदीप्ताऽग्निरुचीनि रेजुस् ताम्रोत्पलान्याकुलषट्पदानि।
बिम्बागतैस् तीरवनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिःकूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः।
निशातुषारैर् नयनाऽम्बुकल्पैः पत्राऽन्तपर्यागलदच्छबिन्दुःउपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर् दिनादौ।
वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश् च निलीनभृङ्गैःपरस्परां विस्मयवन्ति लक्ष्मी मालोकयाञ्चक्रुरिवादरेण।
प्रभातवाताहतिकम्पिताकृतिः कुमुद्वतीरेणुपिशङ्गविग्रहम्निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्यसङ्गमम्।
दत्ताऽवधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुःआकर्णयन्नुत्सुकहंसनादान् लक्ष्ये समाधिं न दधे मृगावित्।
गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाभमभ्रम्सरिन्मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्।
गर्जन् हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान् निशम्यक्रमं बबन्ध क्रमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान्।
अदृक्षता ऽम्भांसि नवोत्पलानि, रुतानि चा ऽश्रोषत षट्पदानाम्,आघ्रायि वान् गन्धवहः सुगन्धस् तेनाऽरविन्दव्यतिषङ्गवांश् च।
लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च,कुतूहलाच्, चारुशिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त।
तिग्मांशुरश्मिच्छुरितान्यदूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्गभस्तिधाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि।
दिग्व्यापिनीर् लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीःऋज्वायताः शस्यविशेषपङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः।
वियोगदुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिःआहार्यशोभारहितैरमायै रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान्
स्त्रीभूषणं चेष्टितमप्रगल्भं चारूण्यवक्राण्यपि वीक्षितानिऋजूंश्च विश्वासकृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य।
विवृत्तपार्श्वं रुचिराऽङ्गहारं समुद्वहच्चारुनितम्बरम्यम्आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यमनन्दयत् तम्।
विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्यमेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्।
सिताऽरविन्दप्रचयेषु च लीनाः संसक्तपेणेषु च सैकतेषुकुन्दाऽवदाताः कलहंसमालाः प्रतीयीरे श्रोत्रसुखैर् निनादैः।
न तज् जलं, यन् न सुचारुपङ्कजं, न पङ्कजं तद्, यदलीनषट्पदम्,न षट्पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन् मनः।
तं यायजूकाः सह भिक्षुमुख्यैस् तपःकृशाः शान्त्युदकुम्भहस्ताः,यायावराः पुष्पफलेन चा ऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्।
विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षतात्माअध्यापिपद् गाधिसुतो यथावन् निघातयिष्यन् युधि यातुधानान्।
आयोधने स्थायुकमस्त्रजात ममोघमभ्यर्णमहाहवायददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः
तं विप्रदर्शं कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके,जिघांसुवेदं धृतभासुराऽस्त्रम् तां ताडकाख्यां निजघान रामः।
अथालुलोके हुतधूमकेतु शिखाऽञ्जनस्निग्धसमृद्धशाखम्तपोवनं प्राध्ययनाऽभिभूत समुच्चरच्चारुपतक्त्रिशिञ्जम्।
क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षिगणैः समन्तात्,नन्नम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः।
अपूपुजन् विष्टरपाद्यमाल्यै रातिथ्यनिष्णा वनवासिमुख्याः,प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनादि क्षितिपालपुत्रौ।
दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्,हवींषि संप्रत्यपि रक्षतं, तौ तपोधनैरित्थमभाषिषाताम्।
तान् प्रत्यवादीदथ राघ्वोऽपि, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,तपोमरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु।
प्रतुष्टुवुः कर्म ततः प्रक्wxल्क़्क़्प्तैस् ते यज्ञियैर् द्रव्यगणैर् यथावत्,दक्षिण्यदिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्।
आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैर् गिरिकूटदघ्नैःततः क्षपाऽटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चानशेऽब्दैः।
अधिज्यचापः स्थिरबाहुमुष्टि रुदञ्चिताऽक्षोऽञ्चितदक्षिणोरुःतान् लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी।
गाधेयदिष्टं विरसं रसन्तं रामो ऽपि मायाचणमस्त्रचुञ्चुःस्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्।
आत्मंभरिस् त्वंपिशितैर् नराणां फलेग्रहीन् हंसि वनस्पतीनाम्,शौवस्तिकत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्।
अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेतनराऽधिवासम्,धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेदवृत्ते।
धर्मोऽस्ति सत्यं तव राक्षसाऽय मन्यो व्यतिस्ते तु ममाऽपि धर्मः,ब्रह्मद्विषस् ते प्रणिहन्मि येन, राजन्यवृत्तिर् धृतकार्मुकेषुः।
इत्थंप्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ,तृणाय मत्वा रघुनन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्।
जग्मुः प्रसादं द्विजमानसानि, द्यौर् वर्षुका पुष्पचयं बभूव,निर्व्याजमिज्या ववृते। वचश् च भूयो बभाषे मुनिना कुमारः
महीय्यमाना भवता ऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेणदिवोऽपि वज्रायुधभूषणाया ह्रिणीयते वीरवती न भूमिः।
बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्यकुलं विजिग्यो,कल्पाऽन्तदुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर् न तस्य।
इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिलयज्ञभूमिम्रामं मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्।
एतौ स्म मित्रावरुणौ किमेतौ, किमश्विनौ सोमरसं पिपासू,जनं समस्तं जनकाश्रमस्थं रूपेण तावौजिहतां नृसिंहौ।
अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्यपुरं पिनाकी",जिज्ञासमानो बलमस्य बाह्वोर्। हसन्नभाङ्क्ष्वीद् रघुनन्दनस् तत्।
ततो नदीष्णान् पथिकान् गिरिज्ञा नाह्वायकान् भूमिपतेरयोध्याम्दित्सुः सुतां योधहरैस् तुरङ्गैर् व्यसर्जयन् मैथिलमर्त्यमुख्यः।
क्षिप्रं ततो ऽध्वन्यतुरङ्गयायी यविष्ठवद् वृद्धतमो ऽपि राजाआख्यायकेभ्यः श्रुतसूनुवृत्ति रग्लानयानो मिथिलामगच्छत्।
वृन्दिष्ठमार्चीद् वसुधाधिपानां तं प्रेष्ठमेतं गुरुवद् गरिष्ठम्सदृङ्महान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिं यशसा वरिष्ठम्।
त्रिवर्गपारीणमसौ भवन्त मध्यासयन्नासनमेकमिन्द्रःविवेकदृश्वत्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे।
हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभाशशाङ्कंकान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली।
लब्धा ततो विश्वजनीनवृत्तिस् तामात्मनीनामुदवोढ रामःसद्रत्नमुक्ताफलभर्मशोभां संबंहयन्तीम् रघुवर्ग्यलक्ष्मीम्।
सुप्रातमासादितसंमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम्अश्वीयराजन्यकहास्तिकाढ्य मगात् सराजं बलमध्वनीनम्।
विशङ्कटो वक्षसि बाणपाणिः संपन्नतालद्वयसः पुरस्तात्भीष्मो धनुष्मानुपजान्वरत्नि रैति स्म रामः पथि जामदग्न्यः।
उच्चैरसौ राघवमाह्वतेदं धनुः सबाणं कुरु, साऽतियासीः।पराक्रमज्ञः प्रियसन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे।
अनेकशो निर्जितराजकस् त्वं, पित् नतार्प्सीर् नृपरक्ततोयैः,संक्षिप्य संरम्भमसदूविपक्षं, कास्था ऽर्भके ऽस्मिंस्तव राम ! रामे।
अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारःधनुर् व्यकार्क्षीद् गुरुबाणगर्भं, लोकानलावीद् विजितांश्च तस्य।
जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्यशनैर्शङ्कम्वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेकमुखानि मार्गान्।
अथ पुरुजवयोगान् नेदयद् दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम्क्लमरहितमचेतन् नीरजीकारितक्ष्मां, बलमुपहितशोभां तूर्णमायादयोध्याम्।