ततः प्ररुदितो राजा रक्षसां हतबान्धवः"किं करिष्यामि राज्येन, सीतया किं करिष्यते
अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्।ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः।
अतिकायाद् विना पाश्यं को वा छेत्स्यति वारुणम्,रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति।
श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः,कः प्रेष्यति पित् न् काले, कृत्वा कित्थष्यते न कः।
उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्भयः,भोक्ष्यते यज्ञभागांश् च शूरमानं च वक्ष्यति।
रविस् तप्स्यति निःशङ्कं, वास्यत्यनियतं मरुत्,निर्वर्त्स्यत्यृतुसंघातः, स्वेच्छयेन्दुरुदेष्यति।
तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा।
अन्मीलिष्यति चक्षुर् मे वृथा, यद् विनयागतम्आज्ञालाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्।
धिङ् मां, त्रिशिरसा ना ऽहं सन्दर्शिष्ये ऽद्य यत् पुनः,घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमागते।
शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्,युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे।
आह्वास्यते विशङ्को मां योत्स्यमानः शतक्रतुः,प्रकल्प्स्यति च तस्या ऽर्थो निकुम्बे दुर् हणे हते
कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम्।
मरिष्यामि, विजेष्ये वा, हताश् चेत् तनया मम,हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः
स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्"दशग्रीवस्य दुर्नीतेर् विनष्टं रक्षसां कुलम्।"
केन सम्भावितं तातकुम्भकर्णस्य राघवःरणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति।
पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते।नभस्वान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते।
इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः।
कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यतेसंभावितानि नैतानि कदाचित् केनचिज् जने।
कुम्भकर्णे हते लङ्का मारोक्ष्यन्ति प्लवङ्गमाः,दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममाश्रमान्।
चर्त्स्यन्ति बालवृद्धांश् च, नर्त्स्यन्ति च मुदा युताःतेन राक्षसमुख्येन विना तान् को निरोत्स्यति।
अमर्षो मे परः, सीतां राघवः कामयिष्यते,च्युतराज्यात् सुखं तस्मात् किं किला ऽसाववाप्स्यति।
मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम्
ना ऽनुरोत्स्ये जगल्लक्ष्मीं, घटिष्ये जीवितुं न वान रंस्ये विषयैः शून्ये भवने बान्धवैरहम्।
मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे,आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना।
याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,ताः किं मन्युक्षताभोगा न विपत्सु विपत्तयः।
"विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,असन्धित्सोस् तवे"त्येतद् विभीषणसुभाषितम्।
"अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,संयोत्स्यामह," इत्येतत् प्रहस्तेन च भाषितम्।
मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्योधयिष्यति संग्रामे दिव्याऽस्त्ररथदुर्जयम्।
सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्वहीनवत्,अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरिशोणितम्।
आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,अनुभाविष्यते शोको मैथिल्या ऽद्य पतिक्षयात्।
मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,ग्लास्यन्त्यपतिपुत्राश् च वने वानरयोषितः।
सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,न विक्रोक्ष्यन्ति राक्षस्यो, नरांश् चा ऽत्स्यन्ति हर्षिताः।
प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखीआगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः
तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः"
तमेववादिनं मूढमिन्द्र्जित् समुपागतः"युयुत्सिष्ये ऽहमित्येवं वदन् रिपुभयंकरः।
ना ऽभिज्ञा ते महाराज !, जेष्यावः शक्रपालितम्दृप्तदेवगुणाकीर्ण मावां सह सुरालयम्,
ना ऽभिज्ञा ते, सयक्षेन्द्रं भङ्क्ष्यावो यद् यमं बलात्,रत्नानि चाहरिष्यावः, प्राप्स्यावश् च पुरीमिमाम्।
एष पेक्ष्याम्यरीन् भूयो, न शोचिष्यसि रावण !जगद् द्रक्ष्यसि नीराममवगाहिष्यसे दिशः।
सहभृत्यः सुरावासे भयं भूयो विधास्यसिप्रणंस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्।
भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः,ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूरमानिभिः।
ज्ञायिष्यन्ते मया चा ऽद्य वीरंमन्या द्विषद्गणाः,गूहिष्यामि क्षितिं कृत्तै रद्य गात्रैर् वनाकसाम्।
आरोक्ष्यामि युगान्तवारिदघटा संघट्टधीरध्वनिं निर्यास्यन् रथमच्छ्रितध्वजधनुः खड्गप्रभाभासुरम्।श्रोष्यस्यद्य विकीर्णवृक्णविमुख व्यापन्नशत्रौ रणे तृप्तांश् छोणितशोणभीषणमुखान् क्रव्याऽशिनः क्रोशतः।"