We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

द्रुभङ्गध्वनिसंविग्नाः कुवद्पक्षिकुलाकुलाःअकार्षुः क्षणदाचर्यो रावणस्य निवेदनम्।
"यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः।"
ततो ऽशीतिसहस्राणि किङ्कराणां समादिशत्इन्द्रजित्सूर् विनाशाय मारुतेः क्रोधमूर्च्छितः।
शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयःव्यश्नुवाना दिशः प्रापुर् वनं दृष्टिविषोपमाः
दध्वान मेघवद् भीममादाय परिघं कपिःनेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः।
कपिना ऽम्भोधिधीरेण समगंसत राक्षसाःवर्षासूद्धततोयौघाः समुद्रेणेव सिन्धवः।
लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः।
अक्षारिषुः शराम्भांसि तस्मिन् रक्षःपयोधराः,न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपिमहीधरः
अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिःतथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्।
व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्भियः
अरासिषुश् च्युतोत्साहा भिन्नदेहाः प्रियाऽसवःकपेरत्रासिषुर् नादान् मृगाः सिंहध्वनेरिव

इति सिचिवृद्ध्यधिकारः

मायानामीश्वरास् ते ऽपि शस्त्रहस्ता रथैः कपिम्प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्जघानाधूय परिघं विजिघृक्षून् समागतान्।
संजुघुक्षव आयूंषि ततः प्रतिरुरूषवःरावणाऽन्तिकमाजग्मुर् हतशेषा निशाचराः
"एकेन बहवः शूराः साविष्काराः प्रमत्तवत्वैमुख्यं चकृमे" त्युच्चैरूचुर् दशमुखाऽन्तिके।
मांसोपभोगसंशूनानुद्विग्नांस् तानवेत्य सःउद्वृत्तानयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत्
प्रमेदिताः सपुत्रास् ते सुस्वान्ता बाढविक्रमाःअम्लिष्टनादा निरगुः फाण्टचित्राऽस्त्रपाणयः
तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाज्ञयाकष्टं विनर्दतः क्रूरान् शस्त्रघुष्टकरान् कपिः
अव्यर्णो गिरिकूटाभानभ्यर्णानार्दिदद् द्रुतम्वृत्तशस्त्रान् महाऽरम्भ्यान्दान्तांस् त्रिदशैरपि
दमिताऽरिः प्रशान्तौजा नादापूरितदिङ्मुखःजघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्।
तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिःअभूदभ्यमितत्रासमास्वान्ताऽशेषदिग् जगत्।
भयसंहृष्टरोमाणस् ततस् ते ऽपचितद्विषःक्षणेन क्षीणविक्रान्ताः कपिना ऽनेषत क्षयम्
हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनःअशोकवनिकामेव निगृहीताऽरिशासनः।
आवरीतुमिवाकाशं वरितुं वीनिवोत्थितम्वनं प्रभञ्जनसुतो ना ऽदयिष्ट विनाशयन्।
वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्पशाखिनः,प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः।
संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दषाननः
ऊचे"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रुसम्मुखम्
द्रुतं संस्वरिषीष्ठास् त्वं निर्भयः प्रधनोत्तमे"स मायानामगात् सोता कपेर् विधवितुं द्युतिम्
विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिःअक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्।
निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखात्मजात्आदाय परिघं तस्थौ वनान् निष्कुषितद्रुमः
एष्टारमेषिता संख्ये सोढारं सहिता भृशम्रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्रसंहतीः
शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिःअर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्।
भूयस् तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुःअहंस् ततः स मूर्च्छावान् संशिश्रीषुरभूद् ध्वजम्
आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसारुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्।
संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैःकपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे।
वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,तं प्रोर्णुनूषुरुपलैः सवृक्षैराबभौ कपिः,
स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे।
मायाभिः सुचिरं क्लिष्ट्वा राक्षसो ऽक्लिशितक्रियम्संप्राप्य वानरं भूमौ पपात परिघाहतः।
पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयोनिधौबभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम्
उच्चैरञ्चितलाङ्गूलः शिरो ऽञ्चित्वेव संवहन्दधद् विलुभितं वातैः केशरं वह्निपिङ्गलम्
जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्।
दमित्वाऽप्यरिसंघातानश्रान्त्वा कपिकेशरीवनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः।
पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्मत्तद्विरदवद् रेमे वने लङ्कानिवासिनाम्।
"यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षःपतेः स्वयम्,तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः।
"हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति।"
आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्"वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति।
त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि।
स त्वं हनिष्यन् दुर्बुद्धिं कपिं व्रज ममाज्ञया,मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्।
मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः।"
अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,अवाप्य चाशिषस् तस्मादायासीत् प्रीतिमुत्तमाम्
गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिःइन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्।
संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषःजगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः
लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्ययेवने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः
रोदिति स्मेव चायाति तस्मिन् पक्षिगणः शुचामुक्तकण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवागमे
आश्वसीदिव चायाति तद् वेगपवनाहतम्विचित्रस्तबकोद्भासि वनं लुलितपल्लवम्
"न प्राणिषि दुराचार !, मायानामीशिषे न च।नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः

इतीडधिकारः

ससैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः
वानरः कुलशैलाभः प्रसह्यायुधशीकरम्रक्षस्पाशान् यशस्काम्यंस् तमस्कल्पानदुद्रुवत्।
धनुष्पाशभृतः संख्ये ज्योतिष्कल्पोरुकेशरःदुधाव निर् नमस्कारान् राक्षसेन्द्रपुरस्कृतान्।
स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिःरराज समरे शत्रून् घ्नन् दुष्कृतबहिष्कृतः।
चतुष्काष्ठं क्षिपन् वृक्षान् तिरस्कुर्वन्नरीन् रणेतिरस्कृतदिगाभोगो ददृशो बहुधा भ्रमन्।
द्विष्कुर्वतां चतुष्कुर्वन्नभिघातं नरैर् द्विषाम्बहिष्करिष्यन् संग्रामाद् रिपून् ज्वलनपिङ्गलः
ज्योतिष्कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्यवत्,तमरायुष्करं प्राप शक्रशत्रुर् धनुष्करः।
अस्यन्नरुष्करान् बाणान् ज्योतिष्करसमद्युतिःयशस्करोयशस्कामं कपिं बाणैर्ताडयत्।
चकारा ऽधस्पदं ना ऽसौ चरन् वियति मारुतिःमर्माविद्भिस् तमस्काण्डैर् विध्यमानोऽप्यनेकधा

इति सत्वाधिकारः

पुरुहूतद्विषो धूर्षु युक्तान् यानस्य वाजिनःआयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्।
सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदाआहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।
प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव।
बलान्यभिषिषिक्षन्तं तरुभिः कपिवारिदम्विजिगीषुः पुनश् चक्रे व्यूहं दुर्जयमिन्द्रजित्।
अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवात्मनःसंप्रहारसमुद्भूतै रक्तैः कोष्णैररुश्च्युतैः।
संग्रामे तानधिष्ठास्यन् निषद्य पुरतोरणम्अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नरविष्वणान्
विषह्य राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन्,यन् न व्यषहतेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत्।
विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः।
मेघनादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्।
विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैःविष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्मगौरवात्।
कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्वानरं नेतुमित्युच्चैरिन्द्रजित् प्रावदत् स्वकान्।
"गतमङ्गुलिषङ्गं त्वां भीरुष्ठानादिहागतम्खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः।
"अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमादिषु द्विजान्यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्।
"नासां मातृष्वसेय्याश् च रावणस्य लुलाव यः,मातुः स्वसुश् च तनयान् खरादीन् विजघान यः
प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे,तस्य क्षत्रियदुःषूतेरयं प्रणिधिरागतः।
दृष्ट्वा सुषुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयःचारकर्मणि निष्णातः प्रविष्टः प्रमदावनम्।
सुप्रतिष्णातसूत्राणा कपिष्ठलसमत्विषाम्स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्
सुषाम्नीं सर्वतेजस्सु तन्वीं ज्योतिष्टमां शुभाम्निष्टपन्तीमिवात्मानं ज्योतिःसात्कुर्वतीं वनम्
मधुसाद्भूतकिञ्जल्कपिञ्जरभ्रमराकुलाम्उल्लसत्कुसुमां पुण्यां हेमरत्नलतामिव
विलोचनाऽम्बु मुञ्चन्तींकुर्वाणां परिसेसिचाम्हृदयस्येव शोकाऽग्निसंतप्तस्योत्तमव्रताम्
दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतःपरितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः
अप्रतिस्तब्धविक्रान्तमनिस्तब्धो महाहवे,विसोढवन्तमस्त्राणि व्यतस्तम्भद् घनध्वनिः"
ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि सव्यथाःअन्यैरप्यायतं नेहुर् वरत्राशृङ्खलादिभिः
विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्दिव्यबन्धो विषहते ना ऽपरं बन्धनं यतः

इति षत्वाधिकारः

मुष्णन्तमिव तेजांसि विस्तीर्णोरस्स्थलं पुरःउपसेदुर् दशग्रीवं गृहीत्वा राक्षसाः कपिम्।
बहुधा भिन्नमर्माणो भीमाः खरणसादयःअग्रेवणं वर्तमाने प्रतीच्यां चन्द्रमण्डले
"निर्वणं कृतमुद्यानमनेनाम्रवणादिभिःदेवदारुवनामिश्रै" रित्यूचुर् वानरद्विषः।
उपास्थिषत संप्रीताः पूर्वाह्णे रोषवाहणम्राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्।
सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्परस्त्रीवाहिनं प्रायुः साविष्कारं सुरापिणः।
संघर्षयोगिणः पदौ प्रणेमुस् त्रिदशद्विषःप्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्मतीः।
"प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निवततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः।
"प्रणिशाम्य दशाग्रीव !, प्रणियातुमलं रुषम्,प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि।"
प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्"प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदावनम्।
प्राघानिषत रक्षांसि येनाप्तानि वने मम,न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्।
वेश्माऽन्तर्हणनं कोपान् मम शत्रोः करिष्यतःमा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्।
प्रहीणजीवितं कुर्युर् ये न शत्रुमुपस्थितम्न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
कः कृत्वा रावणामर्षप्रकोपणमवद्यधीःशक्तो जगति शाक्रो ऽपि कर्तुमायुःप्रगोपणम्।
वनाऽन्तप्रेङ्खणः पापः फलानां परिणिंसकःप्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम्
हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिमद्रुहः,ना ऽतिप्रवेपनं वायोर् मया गोपायिते वने।
दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतःप्रनष्टविनयेना ऽग्र्यः स्वादुः पुष्पासवो वने"
रोषभीममुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमःप्रोचे सानुनयं वाक्यं रावणं स्वाऽर्थसिद्धये

इति णत्वाऽधिकारः

"दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतःलोकत्रयपतेः क्रोधः कथं तृणलघुस् तव।
अग्न्याहितजनप्रह्वे विजिगीषापराङ्मुखे।कस्माद् वा नीतिनिष्णस्य संरम्भस् तव तापसे।
न सर्वरात्रकल्यान्यः स्त्रियो वा रत्नभूमयःयं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्।
संगच्छ रामसुग्रीवौ भुवनस्य समृद्धयेरत्नपूर्णाविवा ऽम्भोधी हिमवान् पूर्वपश्चिमौ।
सुहृदौ रामसुग्रीवौ, किंकराः कपियूथपाः,परदाराऽर्पणेनैवलभ्यन्ते, मुञ्च मैथिलीम्।
धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्कामं विश्वासवासेन सीतां दत्त्वाप्नुहि त्रयम्।
विराधताडकावालिकबन्धखरदूषणैःन च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः
खरादिनिधनं चा ऽपि मा मंस्था वैरकारणम्,आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया"।
ततः क्रोधाऽनिलापात कम्प्रास्याऽम्भोजसंहतिःमहाह्रद इव क्षुभ्यन् कपिमाह स्म रावणः।
"हतराक्षसयोधस्य विरुग्णोद्यानशाखिनःदूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशं तव।
पङ्गुबालस्त्रियो निघ्नन् कबन्ध खरताडकाःतपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी।
अभिमानफलं जानन् महत्त्वं कथमुक्तवान्रत्नादिलाभशून्यत्वान् निष्फलं रामविग्रहम्
परस्त्रीभोगहरणं धर्म एव नराऽशिनाम्,मुखमस्तीत्यभाषिष्ठाः, का ? मेसाशङ्कता त्वयि।
ब्रूहि दूरविभिन्नानामृद्धिशीलक्रियाऽन्वयैः।हनूमन् ! कीदृशं ? सख्यं नरवानररक्षसाम्।
एको द्वाभ्यां विराधस् तु जिताभ्यामविवक्षितःहतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः
मन्नियोगाच् च मारीचः पलायनपरायणःयुयुत्सारहितो रामं ममारा ऽपहरन् वने।
निजघाना ऽन्यसंसक्तं सत्यं रामो लतामृगम्त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि।
पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधःक्षमिष्यते दशास्येन, क्वत्येयं तव दुर्मतिः।"
कपिर् जगाद"दूतो ऽहमुपायं तव दर्शनेद्रुमराक्षसविध्वंसमकार्षं बुद्धिपूर्वकम्।
आत्रिकूटमकार्षुर् ये त्वत्का निर्जङ्गमं जगत्,दशग्रीव ! कथं ब्रूषे ? तानवध्याम् महीपतेः।
अभिमानफलं प्रोक्तं यत् त्वया रामविग्रहे,विनेशुस् तेन शतशः कुलान्यसुररक्षसाम्।
यत् स्वधर्ममधर्मं त्वं दुर्बलं प्रत्यपद्यथाःरिपौ रामे च निःशङ्को, नैतत् क्षेमंकरं चिरम्
अन्वयादिविभिन्नानां यथा सख्यमनीप्सितम्नैषीर्, विरोधमप्येवं सार्धं पुरुषवानरैः।
विराधं तपसां विघ्नं जघान विजितो यदिवरो धनुर्भृतां रामः, स कथं न विवक्षितः ?
प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाणगोचरम्त्वयैवोक्तं महामायो मारीचो रामहस्तिनः।
अन्यासक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनःमूर्च्छावान् नमतः संध्यां ध्रुवं तद् बाहुपीडितः।
असद्बन्धुविधोपज्ञं विमुञ्च बलिविग्रहम्,सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिः।"
स्फुटपरुषमसह्यमित्थमुच्चैः सदसि मरुत्तनयेन भाष्यमाणःपरिजनमभितो विलोक्य दाहं दशवदनः प्रदिदेश वानरस्य।