९ भट्टिकाव्यम् This text does not support clickable word meanings. द्रुभङ्गध्वनिसंविग्नाः कुवद्पक्षिकुलाकुलाःअकार्षुः क्षणदाचर्यो रावणस्य निवेदनम्। ▼ Permalink Bookmark "यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः।" ▼ Permalink Bookmark ततो ऽशीतिसहस्राणि किङ्कराणां समादिशत्इन्द्रजित्सूर् विनाशाय मारुतेः क्रोधमूर्च्छितः। ▼ Permalink Bookmark शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयःव्यश्नुवाना दिशः प्रापुर् वनं दृष्टिविषोपमाः ▼ Permalink Bookmark दध्वान मेघवद् भीममादाय परिघं कपिःनेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः। ▼ Permalink Bookmark कपिना ऽम्भोधिधीरेण समगंसत राक्षसाःवर्षासूद्धततोयौघाः समुद्रेणेव सिन्धवः। ▼ Permalink Bookmark लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः। ▼ Permalink Bookmark अक्षारिषुः शराम्भांसि तस्मिन् रक्षःपयोधराः,न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपिमहीधरः ▼ Permalink Bookmark अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिःतथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्। ▼ Permalink Bookmark व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्भियः ▼ Permalink Bookmark अरासिषुश् च्युतोत्साहा भिन्नदेहाः प्रियाऽसवःकपेरत्रासिषुर् नादान् मृगाः सिंहध्वनेरिव ▼ Permalink Bookmark इति सिचिवृद्ध्यधिकारः ▼ Permalink Bookmark मायानामीश्वरास् ते ऽपि शस्त्रहस्ता रथैः कपिम्प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ▼ Permalink Bookmark तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्जघानाधूय परिघं विजिघृक्षून् समागतान्। ▼ Permalink Bookmark संजुघुक्षव आयूंषि ततः प्रतिरुरूषवःरावणाऽन्तिकमाजग्मुर् हतशेषा निशाचराः ▼ Permalink Bookmark "एकेन बहवः शूराः साविष्काराः प्रमत्तवत्वैमुख्यं चकृमे" त्युच्चैरूचुर् दशमुखाऽन्तिके। ▼ Permalink Bookmark मांसोपभोगसंशूनानुद्विग्नांस् तानवेत्य सःउद्वृत्तानयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत् ▼ Permalink Bookmark प्रमेदिताः सपुत्रास् ते सुस्वान्ता बाढविक्रमाःअम्लिष्टनादा निरगुः फाण्टचित्राऽस्त्रपाणयः ▼ Permalink Bookmark तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाज्ञयाकष्टं विनर्दतः क्रूरान् शस्त्रघुष्टकरान् कपिः ▼ Permalink Bookmark अव्यर्णो गिरिकूटाभानभ्यर्णानार्दिदद् द्रुतम्वृत्तशस्त्रान् महाऽरम्भ्यान्दान्तांस् त्रिदशैरपि ▼ Permalink Bookmark दमिताऽरिः प्रशान्तौजा नादापूरितदिङ्मुखःजघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्। ▼ Permalink Bookmark तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिःअभूदभ्यमितत्रासमास्वान्ताऽशेषदिग् जगत्। ▼ Permalink Bookmark भयसंहृष्टरोमाणस् ततस् ते ऽपचितद्विषःक्षणेन क्षीणविक्रान्ताः कपिना ऽनेषत क्षयम् ▼ Permalink Bookmark हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनःअशोकवनिकामेव निगृहीताऽरिशासनः। ▼ Permalink Bookmark आवरीतुमिवाकाशं वरितुं वीनिवोत्थितम्वनं प्रभञ्जनसुतो ना ऽदयिष्ट विनाशयन्। ▼ Permalink Bookmark वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्पशाखिनः,प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः। ▼ Permalink Bookmark संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दषाननः ▼ Permalink Bookmark ऊचे"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रुसम्मुखम् ▼ Permalink Bookmark द्रुतं संस्वरिषीष्ठास् त्वं निर्भयः प्रधनोत्तमे"स मायानामगात् सोता कपेर् विधवितुं द्युतिम् ▼ Permalink Bookmark विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिःअक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्। ▼ Permalink Bookmark निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखात्मजात्आदाय परिघं तस्थौ वनान् निष्कुषितद्रुमः ▼ Permalink Bookmark एष्टारमेषिता संख्ये सोढारं सहिता भृशम्रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्रसंहतीः ▼ Permalink Bookmark शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिःअर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्। ▼ Permalink Bookmark भूयस् तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुःअहंस् ततः स मूर्च्छावान् संशिश्रीषुरभूद् ध्वजम् ▼ Permalink Bookmark आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसारुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्। ▼ Permalink Bookmark संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैःकपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे। ▼ Permalink Bookmark वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,तं प्रोर्णुनूषुरुपलैः सवृक्षैराबभौ कपिः, ▼ Permalink Bookmark स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे। ▼ Permalink Bookmark मायाभिः सुचिरं क्लिष्ट्वा राक्षसो ऽक्लिशितक्रियम्संप्राप्य वानरं भूमौ पपात परिघाहतः। ▼ Permalink Bookmark पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयोनिधौबभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम् ▼ Permalink Bookmark उच्चैरञ्चितलाङ्गूलः शिरो ऽञ्चित्वेव संवहन्दधद् विलुभितं वातैः केशरं वह्निपिङ्गलम् ▼ Permalink Bookmark जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्। ▼ Permalink Bookmark दमित्वाऽप्यरिसंघातानश्रान्त्वा कपिकेशरीवनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः। ▼ Permalink Bookmark पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्मत्तद्विरदवद् रेमे वने लङ्कानिवासिनाम्। ▼ Permalink Bookmark "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षःपतेः स्वयम्,तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः। ▼ Permalink Bookmark "हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति।" ▼ Permalink Bookmark आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्"वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन् ▼ Permalink Bookmark ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति। ▼ Permalink Bookmark त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि। ▼ Permalink Bookmark स त्वं हनिष्यन् दुर्बुद्धिं कपिं व्रज ममाज्ञया,मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्। ▼ Permalink Bookmark मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः।" ▼ Permalink Bookmark अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,अवाप्य चाशिषस् तस्मादायासीत् प्रीतिमुत्तमाम् ▼ Permalink Bookmark गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिःइन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्। ▼ Permalink Bookmark संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषःजगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः ▼ Permalink Bookmark लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्ययेवने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः ▼ Permalink Bookmark रोदिति स्मेव चायाति तस्मिन् पक्षिगणः शुचामुक्तकण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवागमे ▼ Permalink Bookmark आश्वसीदिव चायाति तद् वेगपवनाहतम्विचित्रस्तबकोद्भासि वनं लुलितपल्लवम् ▼ Permalink Bookmark "न प्राणिषि दुराचार !, मायानामीशिषे न च।नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः ▼ Permalink Bookmark इतीडधिकारः ▼ Permalink Bookmark ससैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः ▼ Permalink Bookmark वानरः कुलशैलाभः प्रसह्यायुधशीकरम्रक्षस्पाशान् यशस्काम्यंस् तमस्कल्पानदुद्रुवत्। ▼ Permalink Bookmark धनुष्पाशभृतः संख्ये ज्योतिष्कल्पोरुकेशरःदुधाव निर् नमस्कारान् राक्षसेन्द्रपुरस्कृतान्। ▼ Permalink Bookmark स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिःरराज समरे शत्रून् घ्नन् दुष्कृतबहिष्कृतः। ▼ Permalink Bookmark चतुष्काष्ठं क्षिपन् वृक्षान् तिरस्कुर्वन्नरीन् रणेतिरस्कृतदिगाभोगो ददृशो बहुधा भ्रमन्। ▼ Permalink Bookmark द्विष्कुर्वतां चतुष्कुर्वन्नभिघातं नरैर् द्विषाम्बहिष्करिष्यन् संग्रामाद् रिपून् ज्वलनपिङ्गलः ▼ Permalink Bookmark ज्योतिष्कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्यवत्,तमरायुष्करं प्राप शक्रशत्रुर् धनुष्करः। ▼ Permalink Bookmark अस्यन्नरुष्करान् बाणान् ज्योतिष्करसमद्युतिःयशस्करोयशस्कामं कपिं बाणैर्ताडयत्। ▼ Permalink Bookmark चकारा ऽधस्पदं ना ऽसौ चरन् वियति मारुतिःमर्माविद्भिस् तमस्काण्डैर् विध्यमानोऽप्यनेकधा ▼ Permalink Bookmark इति सत्वाधिकारः ▼ Permalink Bookmark पुरुहूतद्विषो धूर्षु युक्तान् यानस्य वाजिनःआयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्। ▼ Permalink Bookmark सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदाआहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः। ▼ Permalink Bookmark प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव। ▼ Permalink Bookmark बलान्यभिषिषिक्षन्तं तरुभिः कपिवारिदम्विजिगीषुः पुनश् चक्रे व्यूहं दुर्जयमिन्द्रजित्। ▼ Permalink Bookmark अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवात्मनःसंप्रहारसमुद्भूतै रक्तैः कोष्णैररुश्च्युतैः। ▼ Permalink Bookmark संग्रामे तानधिष्ठास्यन् निषद्य पुरतोरणम्अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नरविष्वणान् ▼ Permalink Bookmark विषह्य राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन्,यन् न व्यषहतेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत्। ▼ Permalink Bookmark विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः। ▼ Permalink Bookmark मेघनादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्। ▼ Permalink Bookmark विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैःविष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्मगौरवात्। ▼ Permalink Bookmark कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्वानरं नेतुमित्युच्चैरिन्द्रजित् प्रावदत् स्वकान्। ▼ Permalink Bookmark "गतमङ्गुलिषङ्गं त्वां भीरुष्ठानादिहागतम्खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः। ▼ Permalink Bookmark "अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमादिषु द्विजान्यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्। ▼ Permalink Bookmark "नासां मातृष्वसेय्याश् च रावणस्य लुलाव यः,मातुः स्वसुश् च तनयान् खरादीन् विजघान यः ▼ Permalink Bookmark प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे,तस्य क्षत्रियदुःषूतेरयं प्रणिधिरागतः। ▼ Permalink Bookmark दृष्ट्वा सुषुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयःचारकर्मणि निष्णातः प्रविष्टः प्रमदावनम्। ▼ Permalink Bookmark सुप्रतिष्णातसूत्राणा कपिष्ठलसमत्विषाम्स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ▼ Permalink Bookmark सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम् ▼ Permalink Bookmark सुषाम्नीं सर्वतेजस्सु तन्वीं ज्योतिष्टमां शुभाम्निष्टपन्तीमिवात्मानं ज्योतिःसात्कुर्वतीं वनम् ▼ Permalink Bookmark मधुसाद्भूतकिञ्जल्कपिञ्जरभ्रमराकुलाम्उल्लसत्कुसुमां पुण्यां हेमरत्नलतामिव ▼ Permalink Bookmark विलोचनाऽम्बु मुञ्चन्तींकुर्वाणां परिसेसिचाम्हृदयस्येव शोकाऽग्निसंतप्तस्योत्तमव्रताम् ▼ Permalink Bookmark दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतःपरितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः ▼ Permalink Bookmark अप्रतिस्तब्धविक्रान्तमनिस्तब्धो महाहवे,विसोढवन्तमस्त्राणि व्यतस्तम्भद् घनध्वनिः" ▼ Permalink Bookmark ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि सव्यथाःअन्यैरप्यायतं नेहुर् वरत्राशृङ्खलादिभिः ▼ Permalink Bookmark विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्दिव्यबन्धो विषहते ना ऽपरं बन्धनं यतः ▼ Permalink Bookmark इति षत्वाधिकारः ▼ Permalink Bookmark मुष्णन्तमिव तेजांसि विस्तीर्णोरस्स्थलं पुरःउपसेदुर् दशग्रीवं गृहीत्वा राक्षसाः कपिम्। ▼ Permalink Bookmark बहुधा भिन्नमर्माणो भीमाः खरणसादयःअग्रेवणं वर्तमाने प्रतीच्यां चन्द्रमण्डले ▼ Permalink Bookmark "निर्वणं कृतमुद्यानमनेनाम्रवणादिभिःदेवदारुवनामिश्रै" रित्यूचुर् वानरद्विषः। ▼ Permalink Bookmark उपास्थिषत संप्रीताः पूर्वाह्णे रोषवाहणम्राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्। ▼ Permalink Bookmark सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्परस्त्रीवाहिनं प्रायुः साविष्कारं सुरापिणः। ▼ Permalink Bookmark संघर्षयोगिणः पदौ प्रणेमुस् त्रिदशद्विषःप्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्मतीः। ▼ Permalink Bookmark "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः ▼ Permalink Bookmark प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निवततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः। ▼ Permalink Bookmark "प्रणिशाम्य दशाग्रीव !, प्रणियातुमलं रुषम्,प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि।" ▼ Permalink Bookmark प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्"प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदावनम्। ▼ Permalink Bookmark प्राघानिषत रक्षांसि येनाप्तानि वने मम,न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्। ▼ Permalink Bookmark वेश्माऽन्तर्हणनं कोपान् मम शत्रोः करिष्यतःमा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्। ▼ Permalink Bookmark प्रहीणजीवितं कुर्युर् ये न शत्रुमुपस्थितम्न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम् ▼ Permalink Bookmark कः कृत्वा रावणामर्षप्रकोपणमवद्यधीःशक्तो जगति शाक्रो ऽपि कर्तुमायुःप्रगोपणम्। ▼ Permalink Bookmark वनाऽन्तप्रेङ्खणः पापः फलानां परिणिंसकःप्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम् ▼ Permalink Bookmark हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिमद्रुहः,ना ऽतिप्रवेपनं वायोर् मया गोपायिते वने। ▼ Permalink Bookmark दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतःप्रनष्टविनयेना ऽग्र्यः स्वादुः पुष्पासवो वने" ▼ Permalink Bookmark रोषभीममुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमःप्रोचे सानुनयं वाक्यं रावणं स्वाऽर्थसिद्धये ▼ Permalink Bookmark इति णत्वाऽधिकारः ▼ Permalink Bookmark "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतःलोकत्रयपतेः क्रोधः कथं तृणलघुस् तव। ▼ Permalink Bookmark अग्न्याहितजनप्रह्वे विजिगीषापराङ्मुखे।कस्माद् वा नीतिनिष्णस्य संरम्भस् तव तापसे। ▼ Permalink Bookmark न सर्वरात्रकल्यान्यः स्त्रियो वा रत्नभूमयःयं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्। ▼ Permalink Bookmark संगच्छ रामसुग्रीवौ भुवनस्य समृद्धयेरत्नपूर्णाविवा ऽम्भोधी हिमवान् पूर्वपश्चिमौ। ▼ Permalink Bookmark सुहृदौ रामसुग्रीवौ, किंकराः कपियूथपाः,परदाराऽर्पणेनैवलभ्यन्ते, मुञ्च मैथिलीम्। ▼ Permalink Bookmark धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्कामं विश्वासवासेन सीतां दत्त्वाप्नुहि त्रयम्। ▼ Permalink Bookmark विराधताडकावालिकबन्धखरदूषणैःन च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः ▼ Permalink Bookmark खरादिनिधनं चा ऽपि मा मंस्था वैरकारणम्,आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया"। ▼ Permalink Bookmark ततः क्रोधाऽनिलापात कम्प्रास्याऽम्भोजसंहतिःमहाह्रद इव क्षुभ्यन् कपिमाह स्म रावणः। ▼ Permalink Bookmark "हतराक्षसयोधस्य विरुग्णोद्यानशाखिनःदूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशं तव। ▼ Permalink Bookmark पङ्गुबालस्त्रियो निघ्नन् कबन्ध खरताडकाःतपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी। ▼ Permalink Bookmark अभिमानफलं जानन् महत्त्वं कथमुक्तवान्रत्नादिलाभशून्यत्वान् निष्फलं रामविग्रहम् ▼ Permalink Bookmark परस्त्रीभोगहरणं धर्म एव नराऽशिनाम्,मुखमस्तीत्यभाषिष्ठाः, का ? मेसाशङ्कता त्वयि। ▼ Permalink Bookmark ब्रूहि दूरविभिन्नानामृद्धिशीलक्रियाऽन्वयैः।हनूमन् ! कीदृशं ? सख्यं नरवानररक्षसाम्। ▼ Permalink Bookmark एको द्वाभ्यां विराधस् तु जिताभ्यामविवक्षितःहतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः ▼ Permalink Bookmark मन्नियोगाच् च मारीचः पलायनपरायणःयुयुत्सारहितो रामं ममारा ऽपहरन् वने। ▼ Permalink Bookmark निजघाना ऽन्यसंसक्तं सत्यं रामो लतामृगम्त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि। ▼ Permalink Bookmark पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधःक्षमिष्यते दशास्येन, क्वत्येयं तव दुर्मतिः।" ▼ Permalink Bookmark कपिर् जगाद"दूतो ऽहमुपायं तव दर्शनेद्रुमराक्षसविध्वंसमकार्षं बुद्धिपूर्वकम्। ▼ Permalink Bookmark आत्रिकूटमकार्षुर् ये त्वत्का निर्जङ्गमं जगत्,दशग्रीव ! कथं ब्रूषे ? तानवध्याम् महीपतेः। ▼ Permalink Bookmark अभिमानफलं प्रोक्तं यत् त्वया रामविग्रहे,विनेशुस् तेन शतशः कुलान्यसुररक्षसाम्। ▼ Permalink Bookmark यत् स्वधर्ममधर्मं त्वं दुर्बलं प्रत्यपद्यथाःरिपौ रामे च निःशङ्को, नैतत् क्षेमंकरं चिरम् ▼ Permalink Bookmark अन्वयादिविभिन्नानां यथा सख्यमनीप्सितम्नैषीर्, विरोधमप्येवं सार्धं पुरुषवानरैः। ▼ Permalink Bookmark विराधं तपसां विघ्नं जघान विजितो यदिवरो धनुर्भृतां रामः, स कथं न विवक्षितः ? ▼ Permalink Bookmark प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाणगोचरम्त्वयैवोक्तं महामायो मारीचो रामहस्तिनः। ▼ Permalink Bookmark अन्यासक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनःमूर्च्छावान् नमतः संध्यां ध्रुवं तद् बाहुपीडितः। ▼ Permalink Bookmark असद्बन्धुविधोपज्ञं विमुञ्च बलिविग्रहम्,सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिः।" ▼ Permalink Bookmark स्फुटपरुषमसह्यमित्थमुच्चैः सदसि मरुत्तनयेन भाष्यमाणःपरिजनमभितो विलोक्य दाहं दशवदनः प्रदिदेश वानरस्य। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha