५ भट्टिकाव्यम् This text does not support clickable word meanings. निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ। ▼ Permalink Bookmark तौ खड्गमुसलप्रासचक्रबाणगदाकरौअकार्ष्टामायुधच्छायं रजःसन्तमसे रणे। ▼ Permalink Bookmark अथ तीक्ष्णायसैर् बानैरधिमर्म रघूत्तमौव्याधं व्याधममूढौ तौ यमसाच्चक्रतुर् द्विषौ। ▼ Permalink Bookmark हतबन्धुर् जगामा ऽसौ ततः शूर्पणखा वनात्पारेसमुद्रं लङ्कायां वसन्तं रावणां पतिम्। ▼ Permalink Bookmark संप्राप्य राक्षससभं चक्रन्द क्रोधविह्वला,नामग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके। ▼ Permalink Bookmark "दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ,नृभ्यां संख्येऽकृशातां तौ सभृत्यौ भूमिवर्ध्नौ। ▼ Permalink Bookmark विग्रहस् तव शक्रेण बृहस्पतिपुरोधसासार्धं कुमारसेनान्या, शून्यश् चाऽसीति को नयः ▼ Permalink Bookmark यद्यहं नाथ ! ना ऽयास्यं विनासा हतबान्धवा,ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चारदुर्बलः। ▼ Permalink Bookmark करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्। ▼ Permalink Bookmark वृतस् त्वं पात्रेसमितैः खट्वारूढः प्रमादवान्पानशौण्डः श्रियं नेता ना ऽत्यन्तीनत्वमुन्मनाः ▼ Permalink Bookmark अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना, ▼ Permalink Bookmark आमिक्षीयं दधिक्षीरं पुरोडाश्यं तथौषधम्हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः ▼ Permalink Bookmark युवजानिर् धनुश्पाणिर् भूमिष्ठः खविचारिणःरामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ▼ Permalink Bookmark मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताःअश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः ▼ Permalink Bookmark कुरु बुद्धिं कुशाऽग्रियामनुकामीनतां त्यज,लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय। ▼ Permalink Bookmark सहायवन्त उद्युक्ता बहवो निपुणाश् च याम्श्रियमाशासते, लोलां तां हस्तेकृत्य मा श्वसीः ▼ Permalink Bookmark लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते। ▼ Permalink Bookmark योषिद्वृन्दारिका तस्य दयिता हंसगामिनीदूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला। ▼ Permalink Bookmark नास्यं पश्यति यस् तस्या, निंस्ते दन्तच्छदं न वा,संशृणोति न चोक्तानि, मिथ्यासौ निहितेन्द्रियः। ▼ Permalink Bookmark सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्। ▼ Permalink Bookmark न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेःत्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव। ▼ Permalink Bookmark नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा।" ▼ Permalink Bookmark प्रत्यूचे राक्षसेन्द्रस् ताम् "आश्वसिहि, बिभेषि किम्,त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्। ▼ Permalink Bookmark मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिःआज्ञालाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः ▼ Permalink Bookmark विरुग्णोदग्रघाराऽग्नः कुलिशो मम वक्षसिअभिन्नं शतधात्मानं मन्यते बलिनं बली। ▼ Permalink Bookmark कृत्वा लङ्काद्रुमालानमहमैरावतं गजम्बन्धने ऽनुपयोगित्वान् नतं तृणवदत्यजम्। ▼ Permalink Bookmark आहोपुरुषिकां पश्य मम, सद्रत्नकान्तिभिःध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा। ▼ Permalink Bookmark हृतरत्नश् च्युतोद्योगो रक्षोभ्यः करदो दिविपूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्। ▼ Permalink Bookmark अतुल्यमहसा सार्धं रामेण मम विग्रहःत्रपाकरस्, तथाप्येष यतिष्ये तद्विनिग्रहे।" ▼ Permalink Bookmark उत्पत्य खं दशग्रीवो मनोयायी शिताऽस्त्रभृत्समुद्रसविधावासं मारीचं प्रति चक्रमे। ▼ Permalink Bookmark सम्पत्य तत्सनीडेसौ तं वृत्तान्तमषिष्रवत्,त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाननः। ▼ Permalink Bookmark "अन्तर्धत्स्व रघुव्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,यो रण्ने दुरुपस्थानो हस्तरोधं दधद् धनुः, ▼ Permalink Bookmark भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत्,जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्। ▼ Permalink Bookmark यमास्यदृश्वरी तस्य ताडका वेत्ति विक्रमम्।शूरंमन्यो रणाच् चाऽहं निरस्तः सिंहनर्दिना। ▼ Permalink Bookmark न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्, ▼ Permalink Bookmark अध्यङ् शस्त्रभृतां रामो, न्यञ्चस् तं प्राप्य मद्विधाः,स कन्याशुल्कमभनङ् मिथिलायां मखे धनुः ▼ Permalink Bookmark संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ,यज्वानश् च ससुत्वानो, यानगोपीन् मखेषु सः। ▼ Permalink Bookmark सुखजातः सुरापीतो नृजग्धो माल्यधारयःअधिलङ्कं स्त्रियो दीव्य, मारब्धा बलिविग्रहम्।" ▼ Permalink Bookmark तंभीतंकारमाक्रुश्य रावणः प्रत्यभाषत"यातयामं विजितवान् स रामं यदि, किं ततः ▼ Permalink Bookmark अघानि ताडका तेन लज्जाभयविभूषणा,स्त्रीजने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्रमानसम्। ▼ Permalink Bookmark यद् गेहेनर्दिनमसौ शरैर् भीरुमभाययत्कुब्रह्मयज्ञके रामो भवन्तं, पौरुषं न तत्। ▼ Permalink Bookmark चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुःकिं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके। ▼ Permalink Bookmark वनतापसके वीरौ विपक्षे गलितादरौकिं चित्रं यदि साऽवज्ञौ मम्रतुः खरदूषणौ। ▼ Permalink Bookmark त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि,गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा। ▼ Permalink Bookmark शीर्षच्छेद्यमतोऽहं त्वा करोमि क्षितिवर्धनम्,कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ। ▼ Permalink Bookmark तमुद्यतनिषाताऽसिं प्रत्युवाच जिजीविषुःमारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते। ▼ Permalink Bookmark हरामि रामसौमित्री मृगो भूत्वा मृगद्युवौ,उद्योगमभ्यमित्रीणो यथेष्टं त्वं च संतनु।" ▼ Permalink Bookmark ततश् चित्रीयमाणो ऽसौ हेमरत्नमयो मृगःयथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्। ▼ Permalink Bookmark तेना ऽदुद्यूषयद् रामं मृगेण मृगलोचनामैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्। ▼ Permalink Bookmark योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततःमृगस्याऽनुपदी रामो जगाम गजविक्रमः ▼ Permalink Bookmark स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्वीक्षमाणो मृगं रामश् चित्रवृत्तिं विसिष्मिये। ▼ Permalink Bookmark चिरं क्लिशित्वा मर्माविद् रामो विलुभितप्लवम्शब्दायमानमव्यात्सीत् भयदं क्षणदाचरम्। ▼ Permalink Bookmark श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनीमत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैजिहत्। ▼ Permalink Bookmark "एष प्रावृषिजाऽम्भोद नादी भ्राता विरौति ते,ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्।" ▼ Permalink Bookmark "रामसंघुषितं नैतन्, मृगस्यैव विवञ्चिषोःरामस्वनितसङ्काशः स्वान्", इत्यवदत् स ताम्। ▼ Permalink Bookmark "आप्यानस्कन्धकण्ठांऽसं रुषितं सहितुं रणेप्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः ▼ Permalink Bookmark देहं बिभ्नक्षुरस्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्ज्याघृष्टकठिनाऽङ्गुष्ठं राममायान् मुमूर्षया। ▼ Permalink Bookmark शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः" ▼ Permalink Bookmark "यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया। ▼ Permalink Bookmark मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमःनिरगात् "शत्रुहस्तं त्वं यास्यसी"ति शपन् वशी। ▼ Permalink Bookmark गते तस्मिन्, जलशुचिः शुद्धदन् रावणः शिखीजञ्जपूको ऽक्षमालावान् धारयो मृदलाबुनः ▼ Permalink Bookmark कमण्डलुकपालेन शिरसा च मृजावतासंवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्डवान् ▼ Permalink Bookmark अधीयन्नात्मविद् विद्यां धारयन् मस्करिव्रतम्वदन् बह्वङ्गुलिस्फोटं भ्रूक्षेपं च विलोकयन् ▼ Permalink Bookmark संदिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्चंक्रमावान् समागत्य सीतामूचे"सुखाभव।" ▼ Permalink Bookmark सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता। ▼ Permalink Bookmark का त्वमेकाकिनी भीरु ! निरन्वयजने वने,क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वामपालां कथं न वा। ▼ Permalink Bookmark हृदयंगममूर्तिस् त्वं सुभगंभावुकं वनम्कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना। ▼ Permalink Bookmark सुकृतं प्रियकारी त्वं कं हरस्युपतिष्ठसे,पुण्यकृच् चाटुकारस् ते किङ्करः सुरतेषु कः। ▼ Permalink Bookmark परिपर्युदधे रूपमाद्युलोकाच् च दुर्लभम्।भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम्। ▼ Permalink Bookmark आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनीसत्परिमललक्ष्मीका ना ऽपुंस्काऽसीति मे मतिः। ▼ Permalink Bookmark मिथ्यैव श्रीः श्रियंमन्या, श्रीमन्मन्यो मृषा हरिः,साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ▼ Permalink Bookmark नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,खेलायन्ननिशं नापि सजूःकृत्य रतिं वसेत्, ▼ Permalink Bookmark वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,कान्तिं नाऽभिमनायेत को वा स्थाणुसमो ऽपि ते। ▼ Permalink Bookmark दुःखायते जनः सर्वाह्, स एवैकः सुखायते,यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके। ▼ Permalink Bookmark कः। पण्डितायमानस् त्वा मादायामिषसन्निभाम्त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्।" ▼ Permalink Bookmark ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकात्मजाउवाच दशमूर्धानं सादरा गद्गदं वचः ▼ Permalink Bookmark "महाकुलीन ऐक्ष्वाके वंशे दाशरथिर् ममपितुः प्रियंकरो भर्ता क्षेमंकारस् तपस्विनाम्। ▼ Permalink Bookmark निहन्ता वैरकाराणां सतां बहुकरः सदापारश्वधिकरामस्य शक्तेरन्तकरो रणे ▼ Permalink Bookmark अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदापितुर् नियोगाद् राजत्वं हित्वा योऽभ्यागमद् वनम् ▼ Permalink Bookmark पितत्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वनेयस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते। ▼ Permalink Bookmark दीव्यमानं शितान् बाणानस्यमानं महागदाःनिघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि। ▼ Permalink Bookmark भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,एषितुं प्रेषितो यातो मया तस्या ऽनुजो वनम् ▼ Permalink Bookmark अथायस्यन् कषायाऽक्षः स्यन्नस्वेदकणोल्बणःसंदर्षितान्तराकूतस् तामवादीद् दशाननः, ▼ Permalink Bookmark "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्को नग्नमुषितप्रख्यं बहु मन्येत राघवम्। ▼ Permalink Bookmark राक्षसान् बटुयज्ञेषु पिण्डीशूरान् निरस्तवान्यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः ▼ Permalink Bookmark मत्पराक्रमसंक्षिप्तराज्यभोगपरिच्छदःयुक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः ▼ Permalink Bookmark निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकःअध्यास्ते ऽन्तर्गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्। ▼ Permalink Bookmark भिन्ननौक इव ध्यायन् मत्तो बिभ्यद् यमः स्वयम्कृष्णिमानं दधानेन मुखेनास्ते निरुद्यतिः ▼ Permalink Bookmark समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरीरत्नपारायणं नाम्ना लङ्केति मम मैथिलि ! ▼ Permalink Bookmark आवासे सिक्तसंमृष्टे गन्धैस् त्वं लिप्तवासिताआर्पितोरुसुगन्धिस्रक् तस्यां वस मया सह। ▼ Permalink Bookmark संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !राघवः प्रोष्यपापीयान्, जहीहि तमकिंचनम्। ▼ Permalink Bookmark अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणिवशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे। ▼ Permalink Bookmark मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव।" ▼ Permalink Bookmark तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीमविग्रहःबाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः ▼ Permalink Bookmark त्रस्यन्तीं तां समादाय यतो रात्रिंचरालयम्तूष्णींभूय भयादासांचक्रिरे मृगपक्षिणः ▼ Permalink Bookmark उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौजटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्। ▼ Permalink Bookmark इति प्रकीर्ण-काण्डः प्रथमः समाप्तः ▼ Permalink Bookmark अतः परमधिकार-काण्डम् ▼ Permalink Bookmark "द्विषन् ! वनेचराऽग्र्याणां त्वमादायचरो वनेअग्रेसरो जघन्यानां मा भूः पूर्वसरो मम। ▼ Permalink Bookmark यशस्करसमाचारं ख्यातं भूवि दयाकरम्पितुर्वाक्यकरं रामं धिक् त्वां दुन्वन्तमत्रपम् ▼ Permalink Bookmark अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरःतव राक्षस ! रामस्य नेयः कर्मकरोपमः ▼ Permalink Bookmark सतामरुष्करं पक्षी वैरकारं नराऽशिनम्हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्। ▼ Permalink Bookmark अतः परं प्रकीर्णकाः ▼ Permalink Bookmark धुन्वन् सर्वपथीनं खे वितानं पक्षयोरसौमांसशोणितसंदर्शं तुण्डघातमयुध्यत। ▼ Permalink Bookmark न बिभाय, न जिह्राय, न चक्लाम, न विव्यथेआघ्नानो विध्यमानो वा रणान् निववृते न च। ▼ Permalink Bookmark पिशाचमुखधौरेयं सच्छत्रकवचं रथम्युधि कद्रथवद् भीमंबभञ्ज ध्वजशालिनम् ▼ Permalink Bookmark अतः परं आमधिकारः ▼ Permalink Bookmark संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,स त्याजयांचकाराऽरिं सीतां विंशतिबाहुना। ▼ Permalink Bookmark असीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,भूयस् तं भेदिकांचक्रे नखतुण्डायुधः खगः। ▼ Permalink Bookmark हन्तुं क्रोधवशादीहांचक्राते तौ परस्पसम्,न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः। ▼ Permalink Bookmark उपासांचक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः,छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः ▼ Permalink Bookmark प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन्रथवरमधिरुह्य भीमधुर्यं स्वपुरमगात् परिगृह्य रामकान्ताम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha