निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ।
तौ खड्गमुसलप्रासचक्रबाणगदाकरौअकार्ष्टामायुधच्छायं रजःसन्तमसे रणे।
अथ तीक्ष्णायसैर् बानैरधिमर्म रघूत्तमौव्याधं व्याधममूढौ तौ यमसाच्चक्रतुर् द्विषौ।
हतबन्धुर् जगामा ऽसौ ततः शूर्पणखा वनात्पारेसमुद्रं लङ्कायां वसन्तं रावणां पतिम्।
संप्राप्य राक्षससभं चक्रन्द क्रोधविह्वला,नामग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके।
"दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ,नृभ्यां संख्येऽकृशातां तौ सभृत्यौ भूमिवर्ध्नौ।
विग्रहस् तव शक्रेण बृहस्पतिपुरोधसासार्धं कुमारसेनान्या, शून्यश् चाऽसीति को नयः
यद्यहं नाथ ! ना ऽयास्यं विनासा हतबान्धवा,ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चारदुर्बलः।
करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्।
वृतस् त्वं पात्रेसमितैः खट्वारूढः प्रमादवान्पानशौण्डः श्रियं नेता ना ऽत्यन्तीनत्वमुन्मनाः
अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना,
आमिक्षीयं दधिक्षीरं पुरोडाश्यं तथौषधम्हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः
युवजानिर् धनुश्पाणिर् भूमिष्ठः खविचारिणःरामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः
मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताःअश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः
कुरु बुद्धिं कुशाऽग्रियामनुकामीनतां त्यज,लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय।
सहायवन्त उद्युक्ता बहवो निपुणाश् च याम्श्रियमाशासते, लोलां तां हस्तेकृत्य मा श्वसीः
लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते।
योषिद्वृन्दारिका तस्य दयिता हंसगामिनीदूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला।
नास्यं पश्यति यस् तस्या, निंस्ते दन्तच्छदं न वा,संशृणोति न चोक्तानि, मिथ्यासौ निहितेन्द्रियः।
सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्।
न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेःत्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव।
नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा।"
प्रत्यूचे राक्षसेन्द्रस् ताम् "आश्वसिहि, बिभेषि किम्,त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्।
मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिःआज्ञालाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः
विरुग्णोदग्रघाराऽग्नः कुलिशो मम वक्षसिअभिन्नं शतधात्मानं मन्यते बलिनं बली।
कृत्वा लङ्काद्रुमालानमहमैरावतं गजम्बन्धने ऽनुपयोगित्वान् नतं तृणवदत्यजम्।
आहोपुरुषिकां पश्य मम, सद्रत्नकान्तिभिःध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा।
हृतरत्नश् च्युतोद्योगो रक्षोभ्यः करदो दिविपूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्।
अतुल्यमहसा सार्धं रामेण मम विग्रहःत्रपाकरस्, तथाप्येष यतिष्ये तद्विनिग्रहे।"
उत्पत्य खं दशग्रीवो मनोयायी शिताऽस्त्रभृत्समुद्रसविधावासं मारीचं प्रति चक्रमे।
सम्पत्य तत्सनीडेसौ तं वृत्तान्तमषिष्रवत्,त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाननः।
"अन्तर्धत्स्व रघुव्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,यो रण्ने दुरुपस्थानो हस्तरोधं दधद् धनुः,
भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत्,जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्।
यमास्यदृश्वरी तस्य ताडका वेत्ति विक्रमम्।शूरंमन्यो रणाच् चाऽहं निरस्तः सिंहनर्दिना।
न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्,
अध्यङ् शस्त्रभृतां रामो, न्यञ्चस् तं प्राप्य मद्विधाः,स कन्याशुल्कमभनङ् मिथिलायां मखे धनुः
संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ,यज्वानश् च ससुत्वानो, यानगोपीन् मखेषु सः।
सुखजातः सुरापीतो नृजग्धो माल्यधारयःअधिलङ्कं स्त्रियो दीव्य, मारब्धा बलिविग्रहम्।"
तंभीतंकारमाक्रुश्य रावणः प्रत्यभाषत"यातयामं विजितवान् स रामं यदि, किं ततः
अघानि ताडका तेन लज्जाभयविभूषणा,स्त्रीजने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्रमानसम्।
यद् गेहेनर्दिनमसौ शरैर् भीरुमभाययत्कुब्रह्मयज्ञके रामो भवन्तं, पौरुषं न तत्।
चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुःकिं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके।
वनतापसके वीरौ विपक्षे गलितादरौकिं चित्रं यदि साऽवज्ञौ मम्रतुः खरदूषणौ।
त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि,गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा।
शीर्षच्छेद्यमतोऽहं त्वा करोमि क्षितिवर्धनम्,कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ।
तमुद्यतनिषाताऽसिं प्रत्युवाच जिजीविषुःमारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते।
हरामि रामसौमित्री मृगो भूत्वा मृगद्युवौ,उद्योगमभ्यमित्रीणो यथेष्टं त्वं च संतनु।"
ततश् चित्रीयमाणो ऽसौ हेमरत्नमयो मृगःयथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्।
तेना ऽदुद्यूषयद् रामं मृगेण मृगलोचनामैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्।
योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततःमृगस्याऽनुपदी रामो जगाम गजविक्रमः
स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्वीक्षमाणो मृगं रामश् चित्रवृत्तिं विसिष्मिये।
चिरं क्लिशित्वा मर्माविद् रामो विलुभितप्लवम्शब्दायमानमव्यात्सीत् भयदं क्षणदाचरम्।
श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनीमत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैजिहत्।
"एष प्रावृषिजाऽम्भोद नादी भ्राता विरौति ते,ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्।"
"रामसंघुषितं नैतन्, मृगस्यैव विवञ्चिषोःरामस्वनितसङ्काशः स्वान्", इत्यवदत् स ताम्।
"आप्यानस्कन्धकण्ठांऽसं रुषितं सहितुं रणेप्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः
देहं बिभ्नक्षुरस्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्ज्याघृष्टकठिनाऽङ्गुष्ठं राममायान् मुमूर्षया।
शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"
"यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया।
मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमःनिरगात् "शत्रुहस्तं त्वं यास्यसी"ति शपन् वशी।
गते तस्मिन्, जलशुचिः शुद्धदन् रावणः शिखीजञ्जपूको ऽक्षमालावान् धारयो मृदलाबुनः
कमण्डलुकपालेन शिरसा च मृजावतासंवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्डवान्
अधीयन्नात्मविद् विद्यां धारयन् मस्करिव्रतम्वदन् बह्वङ्गुलिस्फोटं भ्रूक्षेपं च विलोकयन्
संदिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्चंक्रमावान् समागत्य सीतामूचे"सुखाभव।"
सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता।
का त्वमेकाकिनी भीरु ! निरन्वयजने वने,क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वामपालां कथं न वा।
हृदयंगममूर्तिस् त्वं सुभगंभावुकं वनम्कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना।
सुकृतं प्रियकारी त्वं कं हरस्युपतिष्ठसे,पुण्यकृच् चाटुकारस् ते किङ्करः सुरतेषु कः।
परिपर्युदधे रूपमाद्युलोकाच् च दुर्लभम्।भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम्।
आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनीसत्परिमललक्ष्मीका ना ऽपुंस्काऽसीति मे मतिः।
मिथ्यैव श्रीः श्रियंमन्या, श्रीमन्मन्यो मृषा हरिः,साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः
नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,खेलायन्ननिशं नापि सजूःकृत्य रतिं वसेत्,
वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,कान्तिं नाऽभिमनायेत को वा स्थाणुसमो ऽपि ते।
दुःखायते जनः सर्वाह्, स एवैकः सुखायते,यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके।
कः। पण्डितायमानस् त्वा मादायामिषसन्निभाम्त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्।"
ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकात्मजाउवाच दशमूर्धानं सादरा गद्गदं वचः
"महाकुलीन ऐक्ष्वाके वंशे दाशरथिर् ममपितुः प्रियंकरो भर्ता क्षेमंकारस् तपस्विनाम्।
निहन्ता वैरकाराणां सतां बहुकरः सदापारश्वधिकरामस्य शक्तेरन्तकरो रणे
अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदापितुर् नियोगाद् राजत्वं हित्वा योऽभ्यागमद् वनम्
पितत्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वनेयस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते।
दीव्यमानं शितान् बाणानस्यमानं महागदाःनिघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि।
भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,एषितुं प्रेषितो यातो मया तस्या ऽनुजो वनम्
अथायस्यन् कषायाऽक्षः स्यन्नस्वेदकणोल्बणःसंदर्षितान्तराकूतस् तामवादीद् दशाननः,
"कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्को नग्नमुषितप्रख्यं बहु मन्येत राघवम्।
राक्षसान् बटुयज्ञेषु पिण्डीशूरान् निरस्तवान्यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः
मत्पराक्रमसंक्षिप्तराज्यभोगपरिच्छदःयुक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः
निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकःअध्यास्ते ऽन्तर्गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्।
भिन्ननौक इव ध्यायन् मत्तो बिभ्यद् यमः स्वयम्कृष्णिमानं दधानेन मुखेनास्ते निरुद्यतिः
समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरीरत्नपारायणं नाम्ना लङ्केति मम मैथिलि !
आवासे सिक्तसंमृष्टे गन्धैस् त्वं लिप्तवासिताआर्पितोरुसुगन्धिस्रक् तस्यां वस मया सह।
संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !राघवः प्रोष्यपापीयान्, जहीहि तमकिंचनम्।
अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणिवशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे।
मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव।"
तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीमविग्रहःबाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः
त्रस्यन्तीं तां समादाय यतो रात्रिंचरालयम्तूष्णींभूय भयादासांचक्रिरे मृगपक्षिणः
उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौजटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्।
इति प्रकीर्ण-काण्डः प्रथमः समाप्तः
"द्विषन् ! वनेचराऽग्र्याणां त्वमादायचरो वनेअग्रेसरो जघन्यानां मा भूः पूर्वसरो मम।
यशस्करसमाचारं ख्यातं भूवि दयाकरम्पितुर्वाक्यकरं रामं धिक् त्वां दुन्वन्तमत्रपम्
अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरःतव राक्षस ! रामस्य नेयः कर्मकरोपमः
सतामरुष्करं पक्षी वैरकारं नराऽशिनम्हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्।
धुन्वन् सर्वपथीनं खे वितानं पक्षयोरसौमांसशोणितसंदर्शं तुण्डघातमयुध्यत।
न बिभाय, न जिह्राय, न चक्लाम, न विव्यथेआघ्नानो विध्यमानो वा रणान् निववृते न च।
पिशाचमुखधौरेयं सच्छत्रकवचं रथम्युधि कद्रथवद् भीमंबभञ्ज ध्वजशालिनम्
संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,स त्याजयांचकाराऽरिं सीतां विंशतिबाहुना।
असीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,भूयस् तं भेदिकांचक्रे नखतुण्डायुधः खगः।
हन्तुं क्रोधवशादीहांचक्राते तौ परस्पसम्,न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः।
उपासांचक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः,छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः
प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन्रथवरमधिरुह्य भीमधुर्यं स्वपुरमगात् परिगृह्य रामकान्ताम्।