ततो दशास्यः स्मरविह्वलात्मा चारप्रकाशीकृतशत्रुशक्तिःविमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्।
कम्बूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे,वेणून् पुपूरिरे, गुञ्जा जुगुञ्जुः करघट्टिताः
वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः,काहलाः पूरयांचक्रुः, पूर्णाः पेरश् च सस्वनुः
मृदङ्गा धीरमास्वेनुर्, हतैर् स्वेने च गोमुखैःघण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर् भृशम्।
हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः,संत्रस्ताः करभा रेटुश्, चुकुवुः पत्तिपङ्क्तयः
तुरङ्गापुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम्नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्।
जगर्जुर्, जहृषुः, शुरा रेजुस् तुष्टुविरे परैः,बबन्धुरङ्गुलित्राणि, सन्नेहुः परिनिर्ययुः।
धनूष्यारोपयांचक्रुरारुरुहू रथादिषु,असीनुद्ववृहुर् दीप्तान्, गुर्वीरुच्चिक्षिपुर् गदाः
शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,भ्रेमुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः
अमुत्पेतुः कशाघातै, रश्म्याकर्षैर् ममङ्गिरेअश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे।
गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः,तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्।
विशिश्वासयिषांचक्रुरालिलिङ्गुश् च योषितः,आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुतप्रियाः।
गम्भीरवेदिनः संज्ञा गजा जगृहुरक्षताः,ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे।
मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे,अवामैः पुस्फुरे देहैः, प्रसेदे चित्तवृत्तिभिः।
प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाज्ञयाद्वारं ररङ्घतुर् याम्य्ं महापार्श्वमहोदरौ।
प्रययाविन्द्रजित् प्रत्यगियाय स्वयमुत्तरम्।सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्।
शुश्राव रामस् तत् सर्वं, प्रतस्थे च ससैनिकःविस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी।
ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च,नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।
चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशःवानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस् तरून्।
ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,मृगाः प्रससृपुर् वामं, खगाश् चुकुविरेऽशुभम्।
उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः,चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्।
रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः,स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्।
निरासू राक्षसा बाणान्, प्रजहुः शूलपट्टिशान्असींश् च वाहयांचक्रुः पाशैश् चाचकृषुस् ततैः
भल्लैश् च बिभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा।गदाभिश् चूर्णयांचक्रुः, शितैश् चक्रैश् च चिच्छिदुः।
वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा,निरासुश् च गिरींस् तुङ्गान्, द्रुमान् विचकरुस् तथा।
लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम्,नखैश् चकृततुः, क्रुद्धाः पिपिषुश् च क्षितौ बलात्।
संबभूवुः कबन्धानि, प्रोहुः शोणिततोयगाः,तेरुर् भटास्यपद्मानि, ध्वजैः फेणैरिवाबभे,
रक्तपङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,निममज्जुस् तुरङ्गाश् च, गन्तुं नोत्सेहिरे भटाः।
कोट्या कोट्या पुरद्वारमेकैकं रुरुघे द्विषाम्,षट्त्रिंशद्धरिकोट्यश् च निवव्रुर् वानराधिपम्,
तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,मुमूर्च्छुर्, ववमू रक्तं, ततृषुश् चोभये भटाः
सम्पातिना प्रजङ्घस् तु युयुधे, ऽसौ द्रुमाहतःचकम्पे, तीव चुक्रोश, जीवनाशं ननाश च।
उच्चख्नाते नलेनाजौ स्फुरत्प्रतपनाऽक्षिणी,जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः।
मित्रिघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः।सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च।
वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः,नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्।
विरूपाक्षो जहे प्राणैस् तृढः सौमित्रिपत्रिभिः,प्रमोचयांचकाराऽसून् द्विविदस् त्वशनिप्रभम्।
गदा शत्रुजिता जिघ्ये, तां प्रतीयेष वालिजःरथं ममन्थ सहयं शाखिना ऽस्य ततो ऽङ्गदः।
तत् कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः।
सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सविस्मयाः,विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः।
ही चित्रं लक्ष्मणेनोदे, रावणिश् च तिरोदधेविचकार ततो रामः शरान्, संतत्रसुर् द्विषः
विभिन्ना जुघुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान्,चुष्च्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणं भुजाः
कृत्तैरपि दृढक्रोधो वीरवक्त्रैर् न तत्यजे,पलायांचक्रिरे शेषा, जिह्रियुः शूरमानिनः।
राघवो न दयांचक्रे, दधुर् धैर्यं न केचन,मम्रे पतङ्गवद् वीरैर् हाहेति च विचुक्रुशे।
तिरोबभूवे सूर्येण, प्रापे च निशयास्पदम्,जग्रसे कालरात्रीव वानरान् राक्षसाम्श् च सा।
चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चाजुहाव, सःआजुहुवे तिरोभूतः परानीकं, जहास च।
बबाधे च बलं कृत्स्नं, निजग्राह च सायकैःउत्ससर्ज शरांस्, तेऽस्य सर्पसाच् च प्रपेदिरे।
आचिचाय स तैः सेनामाचिकाय च राघवौ,बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः"।
आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैःतौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः
ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरेनिशश्वसुश् च सेनान्यः, प्रोचुर् धिगिति चात्मनः।
मन्युं शेकुर् न ते रोद्धुं, ना ऽस्रं संरुरुधुः पतत्,विविदुर् नेन्द्रजिन्मार्गं, परीयुश् च प्लवङ्गमाः।
दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणःविदांचकार धौताऽक्षः स रिपुं खे, ननर्द च।
उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिःविहाय रावणिस् तस्मादानंहे चा ऽन्तिकं पितुः।
आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनःगाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च।
ध्वजानुद्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः।
दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात्,तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे।
प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च।
"लौहबन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममेमनो मे, न विना रामाद् यत् पुस्फोट सहस्रधा।
उत्तेरिथ समुद्रं त्वं मदर्थे, ऽरीन् जिहिंसिथ,ममर्थ चाऽतिघोरां मां धिग् जीवितलघूकृताम्।
न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया,मृतेऽपि त्वयि जीवन्त्या किं मया ऽणकभार्यया।"
सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि चदेहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः।
जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,दैवं निनिन्द, चक्रन्द, देहे चा ऽतीव मन्युना।
आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च।ततः प्रजागरांचक्रुर् वानराः सविभीषणाः
चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा ऽथ सः,मन्युश् चा ऽस्य समापिप्ये, विरुराव च लक्ष्मणम्।
समीहे मर्तुमानर्चे तेन वाचा ऽखिलं बलम्,आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च।
आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्।
"नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्यसंस्मृतिः"विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः।
ततो विजघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिःवृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर् भासुरा दिशः
जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनोरमःतेजांसि शंशमांचक्रुः, शरबन्धा विशिश्लिषुः।
भ्रेजिरे ऽक्षतवद् योधा, लेभे संज्ञां च लक्ष्मणः,विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम्
संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गतव्यथौतयोरात्मानमाचख्यौ, ययौ चा ऽथ यथागतम्।
स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस् तरून्,वानरा दद्रमुश् चा ऽथ संग्रामं चाशशाशिरे।
डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननःजीवतश् च विवेदा ऽरीन्, बभ्रंशे ऽसौ धृतेस् ततः।
सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः,बभाजा ऽथ परं मोहमूहांचक्रे जयं न च।
घूम्राक्षो ऽथ प्रतिष्ठासांचक्रे रावणसंमतःसिंहास्यैर् युयुजे तस्य वृकास्यैश् च रथः खगैः।
त्वक्त्रैः संविव्ययुर् देहान्, वाहनान्यधिशिश्यिरे,आनर्जुर् नृभुजोऽस्त्राणि, ववञ्चुश् चाहवक्षितिम्।
अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम्,संश्रावयांचकाराख्यां धूम्राक्षस् तत्वरे तथा।
निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,शिशीके शोणितं व्योम, चचाल क्ष्मातलं तथा।
ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा।
रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरिराक्षसाः,वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्।
रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर् बाणविक्षताः,अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठमुष्टयः।
रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलात्मजः,आददे च शिलां, साऽश्वं पिपेषा ऽस्य रथं तया।
पपात राक्षसो भूमौ, रराट च भयंकरम्,तुतोद गदया चाऽरिं, तं दुध्रावा ऽद्रिणा कपिः।
अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया,स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम्।
पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः,तान् वव्राजा ऽवमत्या ऽसौ, बभासे च रणे शरैः।
खमूयुर्, वसुधामूवुः सायका रज्जुवत् तताःतस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन।
स भस्मसाच् चकाराऽरीन्, दुदाव च कृतान्तवत्,चुक्रोध मारुतिस्, ताल मुच्चख्ने च महाशिखम्।
यमाया ऽकम्पनं तेन निरुवाप महापशुम्,बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत्।
स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,प्रगोपायांचकाराशु यत्नेन परितः पुरम्।
प्रहस्तमर्थयांचक्रे योद्धुमद्भुतविक्रमम्।"किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ"
चक्वाणा ऽशङ्कितो योद्धुमुत्सेहे च महारथः,निर्येमिरे ऽस्य योद्धारश्, चक्wxल्क़्क़्पे चाऽश्वकुञ्जरम्।
युयुजुः स्यन्दनानश्वैरीजुर् देवान् पुरोहिताःआनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाशशंसिरे।
ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चालेभिरे भटैः,प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्।
ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान्"अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,
जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततःविप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्।
संवर्गयांचकाराप्तान्, चन्दनेन लिलेप च,चचाम मधु मार्द्वीकं, त्वक्त्रं चाचकचे वरम्।
उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः।
आजघ्नुस् तूर्यजातानि, तुष्टुवुश् चा ऽनुजीविनः,रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः।
तं यान्तं दुद्रुवुर् गृध्राः, क्रव्यादश् च सिषेविरेआववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरुः।
सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः,रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽश्वकुञ्जरम्।
प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाःददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः
मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः,ततः शुशुभतुः सेने, निर्दयं च प्रजह्रतुः
दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताःचखादिरे चखादुश् च, विलेपुश् च रणे भटाः
प्रहस्तस्य पुरोमात्यान् जिहिंसुर्, दधृषुस् तथावानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्।
ऊर्णुनाव स शस्त्रौघैर् वानराणामनीकिनीम्,शशास च बहून्, योधान्, जीवितेन विवेच च,
आससञ्ज भयं तेषां, दिद्युते च यथा रविः,नाययास, द्विषद्देहैर् जगाहे च दिशो दश।
केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः,संग्रामाद् बभ्रशुः केचिद् ययाचुश् चा ऽपरे ऽभयम्।
एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च,शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्।
चुक्रुधे तत्र नीलेन, तरुश् चोच्चिक्षिपे महान्,प्रहस्तो ऽभिहतस् तेन बाणान् विससृजे बहून्,
सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना,धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,
संदुधुक्षे तयोः कोपः, पस्फाये शस्त्रलाघवम्,नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,
वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर् न च ,
समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम्,क्षतस् तया ममारा ऽसावाशिश्राय च भूतलम्।
तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशाचराः,जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,
यदा न फेलुः क्षणदाचराणां मनोरथा रामबलाऽभियोगे,लङ्कां तदा भेजुरुदीर्णदैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्,