We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

अभून् नृपो विबुधसखः परंतपः श्रुताऽन्वितो दशरथ इत्युदाहृतः,गुणैर् वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम्।
सोऽध्यैष्ट वेदांस्, त्रिदशानयष्ट, पित् न्पारीत्, सममंस्त बन्धून्,व्यजेष्ट षड्वर्गमरंस्त नीतौ, समूलघातं न्यवधीदरींश् च।
वसूनि तोयं घनवद् व्यकारीत्, सहासनं गोत्रभिदाऽध्यवात्सीत्,न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषुभृतां निरास्तत्।
पुण्यो महाब्रह्मसमूहजुष्टः संतर्पणो नाकसदां वरेण्यःजज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः।
स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्याअध्यास्त सर्वर्तुसुखामयोध्या मध्यासितां ब्रह्मभिरिद्धबोधैः।
निर्माणदक्षस्य समीहितेषु सीमेव पद्मासनकौशलस्यऊर्ध्वस्फुरद्रत्नगभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः।
सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानिस्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्।
अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यःहिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः
धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु कालेविद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु।
पुत्रीयता तेन वराऽङ्गनाभि रानायि विद्वान् क्रतुषु क्रियावान्विपक्त्रिमज्ञानगतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः
ऐहिष्ट तं कारयितुं कृतात्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्,ज्ञानाशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्।
रक्षांसि वेदीं परितो निरास्थ दङ्गान्ययाक्षीद्भितः प्रधानम्,शेषाण्यहौषीत् सुतसंपदे च, वरं वरेण्यो नृपतेरमार्गीत्।
निष्टां गते दक्त्रिमसभयतोषे विहित्रिमे कर्मणि राजपत्न्यःप्राशुर् हुतोच्छिष्टमुदारवंश्यास् तिस्रः प्रसोतुं चतुरः सुपुत्रान्।
कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयीतो भरतस् ततोऽभूत्,प्रासोष्ट शत्रुघ्नमुदारचेष्ट मेका सुमित्रा सह लक्ष्मणेन।
आर्चीद् द्विजातीन् परमाऽर्थविन्दा नुदेजयान् भूतगणान् न्यषेधीत्,विद्वानुपानेष्ट च तान् स्वकाले यतिर् वशिष्टो यमिनां वरिष्ठः।
वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,
ततोभ्यगाद् गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिःरामं वरीतुं परिरक्षणार्थं, राजाजिहत् तं मधुपर्कपाणिः।
ऐषीः पुनर्जन्मजयाय यत् त्वं, रूपादिबोधान् न्यवृतच् च यत् ते,तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्।
आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,तानि द्विषद्वीर्यनिराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन।
स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्,अहंयुनाऽथ क्षितिपः शुभंयु रूचे वचस् तापसकुञ्जरेण।
मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्मवृद्ध्यै,क्षत्रं द्विजत्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणुस्वसूनुम्।
घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,मा मां महात्मन् परिभूर्योग्ये न मद्विधो न्यस्यति भारमग्र्यम्।
क्रुध्यन् कुलं धक्ष्यति विप्रवह्निर्, यास्यन् सुतस् तप्स्यति मां समन्युम्,इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य।
आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताप्तधनुः कुमारः।
प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य घृष्णुःत्रैमातुरः कृत्स्नजिताऽस्त्रशस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्।
इषुमति रघुसिंहे दन्दशूकाञ् जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधानेव्रजति, पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोकान् मा रुदन् माङ्गलिक्यः
अथ जगदुरनीचैराशिषस् तस्य विप्रास्, तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये,अभिमतफलशंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः।