१ भट्टिकाव्यम् This text does not support clickable word meanings. अभून् नृपो विबुधसखः परंतपः श्रुताऽन्वितो दशरथ इत्युदाहृतः,गुणैर् वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम्। ▼ Permalink Bookmark सोऽध्यैष्ट वेदांस्, त्रिदशानयष्ट, पित् न्पारीत्, सममंस्त बन्धून्,व्यजेष्ट षड्वर्गमरंस्त नीतौ, समूलघातं न्यवधीदरींश् च। ▼ Permalink Bookmark वसूनि तोयं घनवद् व्यकारीत्, सहासनं गोत्रभिदाऽध्यवात्सीत्,न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषुभृतां निरास्तत्। ▼ Permalink Bookmark पुण्यो महाब्रह्मसमूहजुष्टः संतर्पणो नाकसदां वरेण्यःजज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः। ▼ Permalink Bookmark स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्याअध्यास्त सर्वर्तुसुखामयोध्या मध्यासितां ब्रह्मभिरिद्धबोधैः। ▼ Permalink Bookmark निर्माणदक्षस्य समीहितेषु सीमेव पद्मासनकौशलस्यऊर्ध्वस्फुरद्रत्नगभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः। ▼ Permalink Bookmark सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानिस्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्। ▼ Permalink Bookmark अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यःहिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः ▼ Permalink Bookmark धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु कालेविद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु। ▼ Permalink Bookmark पुत्रीयता तेन वराऽङ्गनाभि रानायि विद्वान् क्रतुषु क्रियावान्विपक्त्रिमज्ञानगतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः ▼ Permalink Bookmark ऐहिष्ट तं कारयितुं कृतात्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्,ज्ञानाशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्। ▼ Permalink Bookmark रक्षांसि वेदीं परितो निरास्थ दङ्गान्ययाक्षीद्भितः प्रधानम्,शेषाण्यहौषीत् सुतसंपदे च, वरं वरेण्यो नृपतेरमार्गीत्। ▼ Permalink Bookmark निष्टां गते दक्त्रिमसभयतोषे विहित्रिमे कर्मणि राजपत्न्यःप्राशुर् हुतोच्छिष्टमुदारवंश्यास् तिस्रः प्रसोतुं चतुरः सुपुत्रान्। ▼ Permalink Bookmark कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयीतो भरतस् ततोऽभूत्,प्रासोष्ट शत्रुघ्नमुदारचेष्ट मेका सुमित्रा सह लक्ष्मणेन। ▼ Permalink Bookmark आर्चीद् द्विजातीन् परमाऽर्थविन्दा नुदेजयान् भूतगणान् न्यषेधीत्,विद्वानुपानेष्ट च तान् स्वकाले यतिर् वशिष्टो यमिनां वरिष्ठः। ▼ Permalink Bookmark वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः, ▼ Permalink Bookmark ततोभ्यगाद् गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिःरामं वरीतुं परिरक्षणार्थं, राजाजिहत् तं मधुपर्कपाणिः। ▼ Permalink Bookmark ऐषीः पुनर्जन्मजयाय यत् त्वं, रूपादिबोधान् न्यवृतच् च यत् ते,तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्। ▼ Permalink Bookmark आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,तानि द्विषद्वीर्यनिराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन। ▼ Permalink Bookmark स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्,अहंयुनाऽथ क्षितिपः शुभंयु रूचे वचस् तापसकुञ्जरेण। ▼ Permalink Bookmark मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्मवृद्ध्यै,क्षत्रं द्विजत्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणुस्वसूनुम्। ▼ Permalink Bookmark घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,मा मां महात्मन् परिभूर्योग्ये न मद्विधो न्यस्यति भारमग्र्यम्। ▼ Permalink Bookmark क्रुध्यन् कुलं धक्ष्यति विप्रवह्निर्, यास्यन् सुतस् तप्स्यति मां समन्युम्,इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य। ▼ Permalink Bookmark आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताप्तधनुः कुमारः। ▼ Permalink Bookmark प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य घृष्णुःत्रैमातुरः कृत्स्नजिताऽस्त्रशस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्। ▼ Permalink Bookmark इषुमति रघुसिंहे दन्दशूकाञ् जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधानेव्रजति, पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोकान् मा रुदन् माङ्गलिक्यः ▼ Permalink Bookmark अथ जगदुरनीचैराशिषस् तस्य विप्रास्, तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये,अभिमतफलशंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha