१० भट्टिकाव्यम् This text does not support clickable word meanings. अथ स वल्कदुकूलकुथादिभिः परिगतो ज्वलदुद्धतवालधिःउदपतद् दिवमाकुललोचनैर् नृरिपुभिः सभ्यैरभिवीक्षितः। ▼ Permalink Bookmark रणपण्डितो ऽग्र्यविबुधाऽरिपुरे कलहं स राममहितः कृतवान्,ज्वलदग्नि रावणगृहं च बलात् बलहंस्राममहितः कृतवान्। ▼ Permalink Bookmark पादाऽन्त-यमकम् ▼ Permalink Bookmark निखिला ऽभवन् न सहसा सहसा ज्वलनेन पूः प्रभवता भवतावनिताजनेन वियता वियता त्रिपुराऽपदं नगमिता गमिता। ▼ Permalink Bookmark पदादि-यमकम् ▼ Permalink Bookmark सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशःसकलैः सकलैः परितः करुणै रुदितै रुदितैरिव खं निचितम्। ▼ Permalink Bookmark पाद-मध्य-यमकम् ▼ Permalink Bookmark न च कांचन काञ्चनसद्मचितिं न कपिः शिखिना शिखिना समयौत्,न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्व च न। ▼ Permalink Bookmark चक्रवाल-यमकम् ▼ Permalink Bookmark अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मरभासितम्,न समदाः प्रमदा हतसंमदाः, पुरहितं विहितं न समीहितम्। ▼ Permalink Bookmark समुद्र-यमकम् ▼ Permalink Bookmark समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरासमिद्धशरणादीप्ता देहेऽलंकामतेश्वरा ▼ Permalink Bookmark काञ्ची-यमकम् ▼ Permalink Bookmark पिशिताऽशिनामनुदशं स्फुटतां स्फुटतां जगाम परिविह्वलता,हलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता। ▼ Permalink Bookmark न गजा नगजा दयिता दयिता, विगतं विगतं, ललितं ललितम्,प्रमदा प्रमदामहता, महता मरणं मरणं समयात् समयात्। ▼ Permalink Bookmark न वानरैः पराक्रान्तां महद्भिर् भीमविक्रमैःन वा नरैः पराक्रान्तां ददहा नगरीं कपिः। ▼ Permalink Bookmark द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम्समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ▼ Permalink Bookmark नश्यन्ति ददर्श वृन्दानि कपीन्द्रःहारीण्याबलानां हारीण्याबलानाम्। ▼ Permalink Bookmark नारीणामपनुनुदुर् न देहखेदान् नारीणाऽमलसलिला हिरण्यवाप्यः,नारीणामनलपरीतपत्रपुष्पान् ना ऽरीणामभवदुपेत्य शर्म वृक्षान्। ▼ Permalink Bookmark अथ लुलितपतत्रिमालं रुग्णाऽसनबाणकेशरतमालम्स वनं विविक्तमालं सीतां द्रष्टुं जगामाऽलम्। ▼ Permalink Bookmark घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचनाजनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ▼ Permalink Bookmark वि-पथ-यमकम् ▼ Permalink Bookmark कान्ता महमाना दुःखं च्युतभूषारामस्य वियुक्ता कान्ता सहमाना। ▼ Permalink Bookmark मध्या-ऽन्त-यमकम् ▼ Permalink Bookmark मितमवददुदारं तां हनूमान् मुदा ऽरं रघुवृषभसकाशं यामि देवि ! प्रकाशम्तव विदितविषादो दृष्टकृत्स्नामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्। ▼ Permalink Bookmark गर्भ-यमकम् ▼ Permalink Bookmark उदपतद् वियदप्रगमः परै रुचितमुन्नतिमत्पृथुसत्त्ववत्रुचितमुन् नतिमत् पृथुसत्त्ववत् प्रतिविधाय वणुर् भयदं द्विषाम्। ▼ Permalink Bookmark सर्व-यमकम् ▼ Permalink Bookmark बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः समुद्रः,बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः। ▼ Permalink Bookmark महा-यमकम् ▼ Permalink Bookmark अभियाता वरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रथितं धाम ससत्वं पुष्करेक्षणम्।अभिया ऽतावरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम ससत्वं पुष्करे क्षणम्। ▼ Permalink Bookmark आद्यन्त-यमकम् ▼ Permalink Bookmark चित्रं चित्रमिवायातो विचित्रं तस्य भूभृतम्हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः। ▼ Permalink Bookmark आदि-दीपकम् ▼ Permalink Bookmark गच्छन् स वारीण्यकिरत् पायोधेः, कूलस्थितांस् तानितरूनधुन्वन्,पुष्पास्तरांस् ते ऽङ्गसूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्। ▼ Permalink Bookmark अन्त-दीपकम् ▼ Permalink Bookmark स गिरिं तरुखण्डमण्डितं समवाप्य त्वरया लतामृगःस्मितदर्शितकार्यनिश्चयः कपिसैन्यैर् मुदितैरमण्डयत्। ▼ Permalink Bookmark मध्य-दीपकम् ▼ Permalink Bookmark गरुडाऽनिलतिग्मरश्मयः पततां यधपि संमता जवे,अचिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते। ▼ Permalink Bookmark रूपकम् ▼ Permalink Bookmark व्रणकन्दरलीनशस्त्रसर्पः पृथुवक्षःस्थलकर्कशोरुभित्तिःच्युतशोणितबद्धधातुरागः शुशुभे वानरभूधरस् तदा ऽसौ। ▼ Permalink Bookmark अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं रूपकम् ▼ Permalink Bookmark चलपिङ्गकेशरहिरण्यलताः स्थुटनेत्रपङ्क्तिमणिसंहतयःकलधैतसानव इवा ऽथ गिरेः कपयो बहूः पवनजागमने। ▼ Permalink Bookmark एतच्छेषाऽर्थाऽन्ववसितमवतंसकम् ▼ Permalink Bookmark कपितोयनिधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेनवचनाऽमृतदीधितीर् वितन्व न्नकृतानन्दपरीतनेत्रवारीन्। ▼ Permalink Bookmark अर्ध-रूपकम् ▼ Permalink Bookmark परिखेदितविन्ध्यवीरुधः परिपीताऽमलनिर्झराऽम्भसःदुधुवुर् मधुकाननं ततः कपिनागा मुदिताऽङ्गदाज्ञया। ▼ Permalink Bookmark एतदन्वर्थोपमा-युक्तं ललामकम् ▼ Permalink Bookmark विटपिमृगविषादध्वान्तनुद् वानराऽर्कः प्रियवचनमयुखैर् बोधिताऽर्थाऽरविन्दः,उदयगिरिमिवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृपहृदयगुहाखं घ्नन् प्रमोहाऽन्धकारम्। ▼ Permalink Bookmark इवोपमा ▼ Permalink Bookmark रघुतनयमगात् तपोवनखं विधृतजटाऽजिनवल्कलं हनूमान्परमिव पुरुषं नरेण युक्तं समशमवेशसमाधिना ऽनुजेन, ▼ Permalink Bookmark यथोपमा ▼ Permalink Bookmark करपुटनिहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्पदीप्तितनुकपिलघनस्थितं यथेन्दुं नृपमनमत् परिभुग्नजानुमूर्धा। ▼ Permalink Bookmark सहोपमा ▼ Permalink Bookmark रुचिरोन्नतरत्नगौरवः परिपूर्णाऽमृतरश्मिमण्डलःसमदृश्यत जीविताशया सह रामेण वधूशिरोमणिः। ▼ Permalink Bookmark तद्धितोपमा ▼ Permalink Bookmark अवसन्नरुचिं वनागतं तमनामृष्टरजोविधूसरम्समपश्यदपेतमैथिलिं दधतं गौरवमात्रमात्मवत्। ▼ Permalink Bookmark लुप्तोपमा ▼ Permalink Bookmark सामर्थ्यसंपादितवाञ्छिताऽर्थश् चिन्तामणिः स्यान् न कथं हनूमान्,सलक्ष्मणो भूमिपतिस् तदानीं शाखामृगाऽनीकपतिश् च मेने। ▼ Permalink Bookmark समोपमा ▼ Permalink Bookmark "युश्मानचेतन् क्षयवायुकल्पान् सीतास्फुलिङ्गं परिगृह्य जाल्मःलङ्कावनं सिंहसमो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान् ▼ Permalink Bookmark अर्थाऽन्तर-न्यासः ▼ Permalink Bookmark "अहृत धनेश्वरस्य युधि यः समेतमायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम्विभवमदेन निह्नुतह्रिया ऽतिमात्रसंपन्नकं, व्यथयति सत्पथादधिगता ऽथवेह संपन् न कम्। ▼ Permalink Bookmark आक्षेपः ▼ Permalink Bookmark ऋद्धिमान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्। ▼ Permalink Bookmark आक्षेप एव ▼ Permalink Bookmark तस्या ऽधिवासे तनुरुत्सुका ऽसौ दृष्टा मया रामपतिः प्रमन्युः,कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन। ▼ Permalink Bookmark व्यतिरेकः ▼ Permalink Bookmark समतां शशिलेखयोपयाया दवदाता प्रतनुः क्षयेण सीता,यदि नाम कलङ्क इन्दुलेखा मतिवृत्तो लघयेन् न चा ऽपि भावी। ▼ Permalink Bookmark विभावना ▼ Permalink Bookmark अपरीक्षितकारिणा गृहीतां त्वमनासेवितवृद्धपण्डितेनअविरोधितनिष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !" ▼ Permalink Bookmark समासोक्तिः ▼ Permalink Bookmark स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन् महाह्रदःपरितः परितापमूर्च्छितः, पतितं चा ऽम्बु निरभ्रमीप्सितम्। ▼ Permalink Bookmark अतिशयोक्तिः ▼ Permalink Bookmark अथ लक्ष्मणतुल्यरूपवेशं गमनादेशविनिर्गताऽग्रहस्तम्कपयो ऽनुययुः समेत्य रामं नतसुग्रीवगृहीतसादराज्ञम्। ▼ Permalink Bookmark यथा-संख्यम् ▼ Permalink Bookmark कपिपृष्ठगतौ ततो नरेन्द्रौ। कपयश् च ज्वलिताऽग्निपिङ्गलाऽक्षाःमुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम् ▼ Permalink Bookmark उत्प्रेक्षा ▼ Permalink Bookmark स्थितमिव परिरक्षितुं समन्ता दुदधिजलौघपरिप्लवाद् धरित्रीम्गगनतलवसुन्ध्राऽन्तराले जलनिधिवेगसहं प्रसार्य देहम् ▼ Permalink Bookmark वार्ता ▼ Permalink Bookmark विषधरनिलये निविष्टमूलं शिखरशतैः परिमृष्टदेवलोकम्घनविपुलनितम्बपूरिताशं फलकुसुमाचितवृक्षरम्यकुञ्जम् ▼ Permalink Bookmark प्रेयः ▼ Permalink Bookmark मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर् दयितास्यहास्यलक्ष्म्याःस्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परंप्रमोदम् ▼ Permalink Bookmark रसवत् ▼ Permalink Bookmark ग्रहमणिरसनं दिवो नितम्बं विपुलमनुत्तमलब्धकान्तियोगम्च्युतघनवसनं मनोऽभिरामं शिखरकरैर् मदनादिव स्पृशन्तम् ▼ Permalink Bookmark ऊर्जस्वी- ▼ Permalink Bookmark प्रचपलमगुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्यकृतवसतिमिवाऽर्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमेघम्। ▼ Permalink Bookmark पर्यायोक्तिः ▼ Permalink Bookmark स्फठिकमणिगृहैः सरत्नदीपैः प्रतरुणकिन्नरगीतनिस्वनैश् चअमरपुरमतिं सुराऽङ्गनानां दधतमदुःखमनल्पकल्पवृक्षम्। ▼ Permalink Bookmark समाहितम् ▼ Permalink Bookmark अथ ददृशुरुदीर्णधूमधूम्रां दिशमुदधिव्यवधिं समेतसीताम्सहरघुतनयाः प्लवङ्गसेनाः पवनसुताऽङ्गुलिदर्शितामुदक्षाः। ▼ Permalink Bookmark उदारम् ▼ Permalink Bookmark जलनिधिमगमन् महेन्द्रकुञ्जात् प्रचयतिरोहिततिग्मरश्मिभासःसलिलसमुदयैर् महातरङ्गैर् भुवनभरक्षममप्यभिन्नवेलम् ▼ Permalink Bookmark उदारमेव ▼ Permalink Bookmark पृथुगुरुमणिशुक्तिगर्भभासा ग्लपितरसातलसंभृताऽन्धकारम्उपहतरविरश्मिवृत्तिमुच्चैः प्रलघुपरिप्लवमानवज्रजालैः ▼ Permalink Bookmark उदारमेव ▼ Permalink Bookmark समुपचितजलं विवर्धमानै रमलसरित्सलिलैर् विभावरीषुस्फुटमवगमयन्तमूढवारीन् शशधररत्नमयान् महेन्द्रसानून् ▼ Permalink Bookmark श्लिष्टम् ▼ Permalink Bookmark भुवनभरसहानलङ्घ्यधाम्नः पुरुरुचिरत्नभृतो गुरूरुदेहान्श्रमविधुरविलीनकूर्मनक्रान् दधतमुदूढभुवो गिरीनहींश् च ▼ Permalink Bookmark श्लिष्टमेव ▼ Permalink Bookmark प्रददृशुरुरुमुक्तशीकरौघान् विमलमणिद्युतिसंभृतेन्द्रचापान्जलमुच इव धीरमन्द्रघोषान् क्षितिपरितापहृतो महातरङ्गान् ▼ Permalink Bookmark हेतु-श्लिष्टम् ▼ Permalink Bookmark विद्रुममणिकृतभूषा मुक्ताफलनिकररञ्जितात्मानःबभुरुदकनागभग्ना वेलातटशिखरिणो यत्र, ▼ Permalink Bookmark अपह्नुतिः ▼ Permalink Bookmark भृतनिखिलरसातलः सरत्नः शिखरिसमोर्मितिरोहिताऽन्तरीक्षःकुत इह परमाऽर्थतो जलौघो जलनिधिमीयुरतः समेत्य मायाम् ▼ Permalink Bookmark विशेषोक्तिः ▼ Permalink Bookmark शशिरहितमपि प्रभूतकान्तिं विबुधहृतश्रियमप्यनष्टशोभम्मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तमविक्षतप्रभावम् ▼ Permalink Bookmark व्याज-स्तुतिः ▼ Permalink Bookmark क्षितिकुलगिरिशेषदिग्गजेन्द्रान् सलिलगतामिव नावमुद्वहन्तम्धृतविधुरधरं महावराहं गिरिगुरुपोत्रमपीहितैर् जयन्तम् ▼ Permalink Bookmark उपमा-रूपकम् ▼ Permalink Bookmark गिरिपरिगतचञ्चलापगाऽन्तं जलनिवहं दधतं मनोऽभिरामम्गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम्। ▼ Permalink Bookmark तुल्ययोगिता ▼ Permalink Bookmark अपरिमितमहाऽद्भुतैर् विचित्रश् च्युतमलिनः शुचिभिर् महानलङ्घ्यैःतरुमृगपतिलक्ष्मणक्षितीन्द्रैः समधिगतो जलधिः परं बभासे। ▼ Permalink Bookmark निदर्शनम् ▼ Permalink Bookmark न भवति महिमा विना विपत्ते रवगमयन्निव पश्यतः पयोधिःअविरतमभवत् क्षणे क्षणे ऽसौ शिखरिपृथुप्रथितप्रशान्तवीचिः। ▼ Permalink Bookmark विरोधः ▼ Permalink Bookmark मृदुभिरपि बिभेद पुष्पबाणैश् चलशिशिरैरपि मारुतैर् ददाहरघुतनयमनर्थपण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना ऽर्चिः ▼ Permalink Bookmark उपमेयोपमा ▼ Permalink Bookmark अथ मृदुमलिनप्रभौ दिनाऽन्ते जलधिसमीपगतावतीतलोकौअनुकृतिमितरेतरस्य मूर्त्योर् दिनकरराघवनन्दनावकार्ष्टाम्। ▼ Permalink Bookmark सहोक्तिः ▼ Permalink Bookmark अपहरदिव सर्वतो विनोदान् दयितगतं दधदेकधा समाधिम्घनरुचि ववृधे ततो ऽन्धकारं सह रघुनन्दनमन्मथोदयेन। ▼ Permalink Bookmark परिवृत्तिः ▼ Permalink Bookmark अधिजलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशःविदधदिव जगत् पुनः प्रलीनम्। भवति महान् हि पराऽर्थ एव सर्वः। ▼ Permalink Bookmark स-सन्देहः ▼ Permalink Bookmark अशनिरयमसौ, कुतो निरभ्रे। शितशरवर्षमसत् तदप्यशार्ङ्गम्।इति मदनवशो मुहुः शशाऽङ्के रघुतनयो, न च निश्चिकाय चन्द्रम्। ▼ Permalink Bookmark अनन्वयः ▼ Permalink Bookmark कुमुदवनचयेषु कीर्णरश्मिः क्षततिमिरेशु च दिग्वधूमुखेषुवियति च विललास तद्वदिन्दुर्, विलसति चन्द्रमसो न यद्वदन्यः। ▼ Permalink Bookmark उत्प्रेक्षावयवः ▼ Permalink Bookmark शरणमिव गतं तमो निकुञ्जे विटपिनिराकृतचन्द्ररश्म्यरातौपृथुविषमशिलाऽन्तरालसंस्थं सजलघनद्युति भीतवत् ससाद। ▼ Permalink Bookmark संसृष्टिः ▼ Permalink Bookmark अथ नयनमनोहरो ऽभिरामः स्मर इव चित्तभवो ऽप्यवामशीलःरघुसुतमनुजो जगाद वाचं सजलघनस्तनयित्नुतुल्यघोषः ▼ Permalink Bookmark आशीः ▼ Permalink Bookmark "पतिवधपरिलुप्तलोलकेशीर् नयनजलाऽपहृताऽञ्जनौष्ठरागाःकुरु रिपुवनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः ▼ Permalink Bookmark हेतुः ▼ Permalink Bookmark अधिगतमहिमा मनुश्यलोके वत सुतरामवसीदति प्रमादी,गजपतिरुरुशैलशृङ्गवर्ष्मा गुरुरवमज्जति पङ्कभाङ्, न दारु। ▼ Permalink Bookmark निपुणम् ▼ Permalink Bookmark बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्यबुद्धिपूर्वम्,लब्धात्मा तव सुकृतैरनिष्टशङ्की स्नेहौघो घटयति मां तथापि वक्तुम्।" ▼ Permalink Bookmark सौमित्रेरिति वचनं निशम्य रामो जृम्भावान् भुजयुगलं विभज्य निद्रान्अध्यष्ठाच् छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमादिशन् प्लवङ्गान्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha