This text does not support clickable word meanings.

अथ स वल्कदुकूलकुथादिभिः परिगतो ज्वलदुद्धतवालधिःउदपतद् दिवमाकुललोचनैर् नृरिपुभिः सभ्यैरभिवीक्षितः।
रणपण्डितो ऽग्र्यविबुधाऽरिपुरे कलहं स राममहितः कृतवान्,ज्वलदग्नि रावणगृहं च बलात् बलहंस्राममहितः कृतवान्।

पादाऽन्त-यमकम्

निखिला ऽभवन् न सहसा सहसा ज्वलनेन पूः प्रभवता भवतावनिताजनेन वियता वियता त्रिपुराऽपदं नगमिता गमिता।

पदादि-यमकम्

सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशःसकलैः सकलैः परितः करुणै रुदितै रुदितैरिव खं निचितम्।

पाद-मध्य-यमकम्

न च कांचन काञ्चनसद्मचितिं न कपिः शिखिना शिखिना समयौत्,न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्व च न।

चक्रवाल-यमकम्

अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मरभासितम्,न समदाः प्रमदा हतसंमदाः, पुरहितं विहितं न समीहितम्।

समुद्र-यमकम्

समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरासमिद्धशरणादीप्ता देहेऽलंकामतेश्वरा

काञ्ची-यमकम्

पिशिताऽशिनामनुदशं स्फुटतां स्फुटतां जगाम परिविह्वलता,हलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता।
न गजा नगजा दयिता दयिता, विगतं विगतं, ललितं ललितम्,प्रमदा प्रमदामहता, महता मरणं मरणं समयात् समयात्।
न वानरैः पराक्रान्तां महद्भिर् भीमविक्रमैःन वा नरैः पराक्रान्तां ददहा नगरीं कपिः।
द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम्समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्
नश्यन्ति ददर्श वृन्दानि कपीन्द्रःहारीण्याबलानां हारीण्याबलानाम्।
नारीणामपनुनुदुर् न देहखेदान् नारीणाऽमलसलिला हिरण्यवाप्यः,नारीणामनलपरीतपत्रपुष्पान् ना ऽरीणामभवदुपेत्य शर्म वृक्षान्।
अथ लुलितपतत्रिमालं रुग्णाऽसनबाणकेशरतमालम्स वनं विविक्तमालं सीतां द्रष्टुं जगामाऽलम्।
घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचनाजनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी

वि-पथ-यमकम्

कान्ता महमाना दुःखं च्युतभूषारामस्य वियुक्ता कान्ता सहमाना।

मध्या-ऽन्त-यमकम्

मितमवददुदारं तां हनूमान् मुदा ऽरं रघुवृषभसकाशं यामि देवि ! प्रकाशम्तव विदितविषादो दृष्टकृत्स्नामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्।

गर्भ-यमकम्

उदपतद् वियदप्रगमः परै रुचितमुन्नतिमत्पृथुसत्त्ववत्रुचितमुन् नतिमत् पृथुसत्त्ववत् प्रतिविधाय वणुर् भयदं द्विषाम्।

सर्व-यमकम्

बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः समुद्रः,बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः।

महा-यमकम्

अभियाता वरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रथितं धाम ससत्वं पुष्करेक्षणम्।अभिया ऽतावरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम ससत्वं पुष्करे क्षणम्।

आद्यन्त-यमकम्

चित्रं चित्रमिवायातो विचित्रं तस्य भूभृतम्हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः।

आदि-दीपकम्

गच्छन् स वारीण्यकिरत् पायोधेः, कूलस्थितांस् तानितरूनधुन्वन्,पुष्पास्तरांस् ते ऽङ्गसूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्।

अन्त-दीपकम्

स गिरिं तरुखण्डमण्डितं समवाप्य त्वरया लतामृगःस्मितदर्शितकार्यनिश्चयः कपिसैन्यैर् मुदितैरमण्डयत्।

मध्य-दीपकम्

गरुडाऽनिलतिग्मरश्मयः पततां यधपि संमता जवे,अचिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते।

रूपकम्

व्रणकन्दरलीनशस्त्रसर्पः पृथुवक्षःस्थलकर्कशोरुभित्तिःच्युतशोणितबद्धधातुरागः शुशुभे वानरभूधरस् तदा ऽसौ।

अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं रूपकम्

चलपिङ्गकेशरहिरण्यलताः स्थुटनेत्रपङ्क्तिमणिसंहतयःकलधैतसानव इवा ऽथ गिरेः कपयो बहूः पवनजागमने।

एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्

कपितोयनिधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेनवचनाऽमृतदीधितीर् वितन्व न्नकृतानन्दपरीतनेत्रवारीन्।

अर्ध-रूपकम्

परिखेदितविन्ध्यवीरुधः परिपीताऽमलनिर्झराऽम्भसःदुधुवुर् मधुकाननं ततः कपिनागा मुदिताऽङ्गदाज्ञया।

एतदन्वर्थोपमा-युक्तं ललामकम्

विटपिमृगविषादध्वान्तनुद् वानराऽर्कः प्रियवचनमयुखैर् बोधिताऽर्थाऽरविन्दः,उदयगिरिमिवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृपहृदयगुहाखं घ्नन् प्रमोहाऽन्धकारम्।

इवोपमा

रघुतनयमगात् तपोवनखं विधृतजटाऽजिनवल्कलं हनूमान्परमिव पुरुषं नरेण युक्तं समशमवेशसमाधिना ऽनुजेन,

यथोपमा

करपुटनिहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्पदीप्तितनुकपिलघनस्थितं यथेन्दुं नृपमनमत् परिभुग्नजानुमूर्धा।

सहोपमा

रुचिरोन्नतरत्नगौरवः परिपूर्णाऽमृतरश्मिमण्डलःसमदृश्यत जीविताशया सह रामेण वधूशिरोमणिः।

तद्धितोपमा

अवसन्नरुचिं वनागतं तमनामृष्टरजोविधूसरम्समपश्यदपेतमैथिलिं दधतं गौरवमात्रमात्मवत्।

लुप्तोपमा

सामर्थ्यसंपादितवाञ्छिताऽर्थश् चिन्तामणिः स्यान् न कथं हनूमान्,सलक्ष्मणो भूमिपतिस् तदानीं शाखामृगाऽनीकपतिश् च मेने।

समोपमा

"युश्मानचेतन् क्षयवायुकल्पान् सीतास्फुलिङ्गं परिगृह्य जाल्मःलङ्कावनं सिंहसमो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्

अर्थाऽन्तर-न्यासः

"अहृत धनेश्वरस्य युधि यः समेतमायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम्विभवमदेन निह्नुतह्रिया ऽतिमात्रसंपन्नकं, व्यथयति सत्पथादधिगता ऽथवेह संपन् न कम्।

आक्षेपः

ऋद्धिमान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्।

आक्षेप एव

तस्या ऽधिवासे तनुरुत्सुका ऽसौ दृष्टा मया रामपतिः प्रमन्युः,कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन।

व्यतिरेकः

समतां शशिलेखयोपयाया दवदाता प्रतनुः क्षयेण सीता,यदि नाम कलङ्क इन्दुलेखा मतिवृत्तो लघयेन् न चा ऽपि भावी।

विभावना

अपरीक्षितकारिणा गृहीतां त्वमनासेवितवृद्धपण्डितेनअविरोधितनिष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !"

समासोक्तिः

स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन् महाह्रदःपरितः परितापमूर्च्छितः, पतितं चा ऽम्बु निरभ्रमीप्सितम्।

अतिशयोक्तिः

अथ लक्ष्मणतुल्यरूपवेशं गमनादेशविनिर्गताऽग्रहस्तम्कपयो ऽनुययुः समेत्य रामं नतसुग्रीवगृहीतसादराज्ञम्।

यथा-संख्यम्

कपिपृष्ठगतौ ततो नरेन्द्रौ। कपयश् च ज्वलिताऽग्निपिङ्गलाऽक्षाःमुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम्

उत्प्रेक्षा

स्थितमिव परिरक्षितुं समन्ता दुदधिजलौघपरिप्लवाद् धरित्रीम्गगनतलवसुन्ध्राऽन्तराले जलनिधिवेगसहं प्रसार्य देहम्

वार्ता

विषधरनिलये निविष्टमूलं शिखरशतैः परिमृष्टदेवलोकम्घनविपुलनितम्बपूरिताशं फलकुसुमाचितवृक्षरम्यकुञ्जम्

प्रेयः

मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर् दयितास्यहास्यलक्ष्म्याःस्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परंप्रमोदम्

रसवत्

ग्रहमणिरसनं दिवो नितम्बं विपुलमनुत्तमलब्धकान्तियोगम्च्युतघनवसनं मनोऽभिरामं शिखरकरैर् मदनादिव स्पृशन्तम्

ऊर्जस्वी-

प्रचपलमगुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्यकृतवसतिमिवाऽर्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमेघम्।

पर्यायोक्तिः

स्फठिकमणिगृहैः सरत्नदीपैः प्रतरुणकिन्नरगीतनिस्वनैश् चअमरपुरमतिं सुराऽङ्गनानां दधतमदुःखमनल्पकल्पवृक्षम्।

समाहितम्

अथ ददृशुरुदीर्णधूमधूम्रां दिशमुदधिव्यवधिं समेतसीताम्सहरघुतनयाः प्लवङ्गसेनाः पवनसुताऽङ्गुलिदर्शितामुदक्षाः।

उदारम्

जलनिधिमगमन् महेन्द्रकुञ्जात् प्रचयतिरोहिततिग्मरश्मिभासःसलिलसमुदयैर् महातरङ्गैर् भुवनभरक्षममप्यभिन्नवेलम्

उदारमेव

पृथुगुरुमणिशुक्तिगर्भभासा ग्लपितरसातलसंभृताऽन्धकारम्उपहतरविरश्मिवृत्तिमुच्चैः प्रलघुपरिप्लवमानवज्रजालैः

उदारमेव

समुपचितजलं विवर्धमानै रमलसरित्सलिलैर् विभावरीषुस्फुटमवगमयन्तमूढवारीन् शशधररत्नमयान् महेन्द्रसानून्

श्लिष्टम्

भुवनभरसहानलङ्घ्यधाम्नः पुरुरुचिरत्नभृतो गुरूरुदेहान्श्रमविधुरविलीनकूर्मनक्रान् दधतमुदूढभुवो गिरीनहींश् च

श्लिष्टमेव

प्रददृशुरुरुमुक्तशीकरौघान् विमलमणिद्युतिसंभृतेन्द्रचापान्जलमुच इव धीरमन्द्रघोषान् क्षितिपरितापहृतो महातरङ्गान्

हेतु-श्लिष्टम्

विद्रुममणिकृतभूषा मुक्ताफलनिकररञ्जितात्मानःबभुरुदकनागभग्ना वेलातटशिखरिणो यत्र,

अपह्नुतिः

भृतनिखिलरसातलः सरत्नः शिखरिसमोर्मितिरोहिताऽन्तरीक्षःकुत इह परमाऽर्थतो जलौघो जलनिधिमीयुरतः समेत्य मायाम्

विशेषोक्तिः

शशिरहितमपि प्रभूतकान्तिं विबुधहृतश्रियमप्यनष्टशोभम्मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तमविक्षतप्रभावम्

व्याज-स्तुतिः

क्षितिकुलगिरिशेषदिग्गजेन्द्रान् सलिलगतामिव नावमुद्वहन्तम्धृतविधुरधरं महावराहं गिरिगुरुपोत्रमपीहितैर् जयन्तम्

उपमा-रूपकम्

गिरिपरिगतचञ्चलापगाऽन्तं जलनिवहं दधतं मनोऽभिरामम्गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम्।

तुल्ययोगिता

अपरिमितमहाऽद्भुतैर् विचित्रश् च्युतमलिनः शुचिभिर् महानलङ्घ्यैःतरुमृगपतिलक्ष्मणक्षितीन्द्रैः समधिगतो जलधिः परं बभासे।

निदर्शनम्

न भवति महिमा विना विपत्ते रवगमयन्निव पश्यतः पयोधिःअविरतमभवत् क्षणे क्षणे ऽसौ शिखरिपृथुप्रथितप्रशान्तवीचिः।

विरोधः

मृदुभिरपि बिभेद पुष्पबाणैश् चलशिशिरैरपि मारुतैर् ददाहरघुतनयमनर्थपण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना ऽर्चिः

उपमेयोपमा

अथ मृदुमलिनप्रभौ दिनाऽन्ते जलधिसमीपगतावतीतलोकौअनुकृतिमितरेतरस्य मूर्त्योर् दिनकरराघवनन्दनावकार्ष्टाम्।

सहोक्तिः

अपहरदिव सर्वतो विनोदान् दयितगतं दधदेकधा समाधिम्घनरुचि ववृधे ततो ऽन्धकारं सह रघुनन्दनमन्मथोदयेन।

परिवृत्तिः

अधिजलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशःविदधदिव जगत् पुनः प्रलीनम्। भवति महान् हि पराऽर्थ एव सर्वः।

स-सन्देहः

अशनिरयमसौ, कुतो निरभ्रे। शितशरवर्षमसत् तदप्यशार्ङ्गम्।इति मदनवशो मुहुः शशाऽङ्के रघुतनयो, न च निश्चिकाय चन्द्रम्।

अनन्वयः

कुमुदवनचयेषु कीर्णरश्मिः क्षततिमिरेशु च दिग्वधूमुखेषुवियति च विललास तद्वदिन्दुर्, विलसति चन्द्रमसो न यद्वदन्यः।

उत्प्रेक्षावयवः

शरणमिव गतं तमो निकुञ्जे विटपिनिराकृतचन्द्ररश्म्यरातौपृथुविषमशिलाऽन्तरालसंस्थं सजलघनद्युति भीतवत् ससाद।

संसृष्टिः

अथ नयनमनोहरो ऽभिरामः स्मर इव चित्तभवो ऽप्यवामशीलःरघुसुतमनुजो जगाद वाचं सजलघनस्तनयित्नुतुल्यघोषः

आशीः

"पतिवधपरिलुप्तलोलकेशीर् नयनजलाऽपहृताऽञ्जनौष्ठरागाःकुरु रिपुवनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः

हेतुः

अधिगतमहिमा मनुश्यलोके वत सुतरामवसीदति प्रमादी,गजपतिरुरुशैलशृङ्गवर्ष्मा गुरुरवमज्जति पङ्कभाङ्, न दारु।

निपुणम्

बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्यबुद्धिपूर्वम्,लब्धात्मा तव सुकृतैरनिष्टशङ्की स्नेहौघो घटयति मां तथापि वक्तुम्।"
सौमित्रेरिति वचनं निशम्य रामो जृम्भावान् भुजयुगलं विभज्य निद्रान्अध्यष्ठाच् छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमादिशन् प्लवङ्गान्।