We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्,प्रातिष्ठिपच् च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,
ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम्,व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा ऽवधिषुर् द्रुतम्
केशानलुञ्चिषुस्, तस्य गजान् गात्रेष्वचिक्रमन्,शीतैरभ्यषिचंस् तोयैरलातैश् चाऽप्यदम्भिषुः।
नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा,शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः।
स तान् ना ऽजीगणत् सर्वा निच्छया ऽबुद्ध च स्वयम्,अबूबुधत कस्मान् मा मप्राक्षीच् च निशाचरान्।
ते ऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदाचर !"सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्
न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्।राजा यान्तं तमद्राक्षीदुदस्थाच् चेषदासनात्।
अतुषत्, पीठमासन्ने निरदिक्षच् च काञ्चनम्।अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा ऽन्तिके।
अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः"माज्ञासीस् त्वं सुखी, रामो यदकार्षीत् स रक्षसाम्।
उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्,व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्।
न प्रावोचमहं किंचित् प्रियं, यावदजीविषम्,बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर् मम
वीर्यं मा न ददर्शस् त्वं, मा न त्रास्थाः क्षतां पुरम्,तवा ऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्"
अवोचत् कुम्भकर्णस् तं, "वयं मन्त्रेऽभ्यधाम यत्न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्।
प्राज्ञवाक्यान्यवामंस्था, मूर्खवाक्येष्ववाऽस्थिथाःअध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं न च
मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्,अभाणीन् माल्यवान् युक्तमक्षंस्थास् त्वं न तन् मदात्
राघवस्या ऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना।
तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम्अघानिषत रक्षासि परैः, कोशांस् त्वमव्ययीः
सन्धानकारणं तेजो न्यगभूत् ते, कृथास् तथा,यत् त्वं वैराणि कोशं च सहदण्डमजिग्लपः।"
अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्णं दशाननः"किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्वपराक्रमम्।
मोज्जिग्रहः सुनीतानि, मा स्म क्रंस्था न संयुगे,मोपालब्धाह् कृतैर् दोषैर् मा न वाक्षीर् हितं परम्।"
कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्।उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः।
मूर्ध्ना दिवमिवा ऽलेखीत्, खं व्यापद् वपुषोरुणा,पादाभ्यां क्ष्मामिवा ऽभैस्तीत्, दृष्ट्या ऽधाक्षीदिव द्विशः
दग्धशैल इवा ऽभासीत्, प्राक्रंस्त क्षयमेघवत्,प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्।
सपक्षो ऽद्रिरिवा ऽचालीन्, न्यश्वसीत् कल्पवायुवत्,अभार्षीद् ध्वनिना लोका नभ्राजिष्ट क्षयाऽग्निवत्।
अनंसीद् भूर् भरेणा ऽस्य, रंहसा शाखिनो ऽलुठन्,सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुलपर्वताः
उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम्,वायवोऽवासिषुर् भीमाः, क्रूराश् चाऽकुषत द्विजाः।
अस्पन्दिष्टा ऽक्षि वामं च, घोराश् चा ऽराटिषुः शिवाः,न्यपप्तन् मुसले गृध्रा, दीप्तया ऽपाति चोल्कया।
आंहिष्ट तानसंमान्य दर्पात् स प्रधनक्षितिम्,ततोऽनर्दीदनन्दीच् च, शत्रूनाह्वास्त चाहवे।
प्राशीन्, न चा ऽतृपत् क्रूरः, क्षुच् चाऽस्याऽवृधदश्नतः,अधाद् वसामधासीच् च रुधिरं वनवासिनाम्।
माम्सेना ऽस्या ऽश्वतां कुक्षी, जठरं चा ऽप्यशिश्वियत्,बहूनामग्लुचत् प्राणा नग्लोचीच् च रणे यशः।
सामर्थ्यं चा ऽपि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना ऽस्तभन्,शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बुधौ।
अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,केचिदासिषत स्तब्धा, भयात् केचिदघूर्णिषुः।
उदतारिषुरम्भोधिं वानराः सेतुना ऽपरे,अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चोर्जितम्।
सत्त्वं समदुधुक्षच् च वानराणामयुद्ध च,ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्।
अनर्दिषुः कपिव्याघ्राः, सम्यक् चा ऽयुत्सताहवे,तानमर्दीदखादीच् च, निरास्थच् च तलाहतान्,
प्राचुचूर्णच् च पादाभ्यामबिभीषत च द्रुतम्,अतर्हीच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्।
अतौत्सीद् गदया गाढमपिषच् चोपगूहनैः,जनुभ्यामदमीच् चाऽन्यान्, हस्तवर्तमवीवृतत्,
अदालिषुः शिला देहे, चूर्ण्यभूवन् महाद्रुमाः,क्षिप्तास् तस्य न चा ऽचेतीत् तानसौ, ना ऽपि चा ऽक्षुभत्।
अद्राष्टां तं रघुव्याघ्रौ आख्यच् चैनं विभीषणः"एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः।
यक्षेन्द्रशक्तिमच्छासीन्, ना ऽप्रोथीदस्य कश्चन,कुम्भकर्णान् न भैष्टं मा युवामस्मान् नृपात्मजौ।
घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहादरम्।,"अमुं मा न वधिष्टे"ति रामोऽवादीत् ततः कपीन्।
ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिप्लवन्,अबभासन् स्वकाः शक्तीर्, द्रुमशैलं व्यकारिषुः
ते तं व्याशिषता ऽक्षौत्सुः पादैर्, दन्तैस् तथा ऽच्छिदन्।आर्जिजत् शरभो वृक्षं, नीलस् त्वादित पर्वतम्।
ऋषभो ऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः।अस्फूर्जीद्, गिरिशृङ्गं च व्यस्राक्षीद् गन्धमादनः,
अकूर्दिष्ट, व्यकारीच् च गवाक्षो भूधरान् बहून्।स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न।
अमन्थीच् च पराऽनीकमप्लोष्ट च निरङ्कुशः,निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कमागतान्।
व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चायति,हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधितानने।
रक्तेना ऽचिक्लिदद् भूमिं, सैन्यैश् चा ऽतस्तरद्धतैः,ना ऽतार्प्सीद् भक्षयन् क्रूरो, ना ऽश्रमद् घ्नन् प्लवङ्गमान्,
न योद्धुमशकन् केचिन्, ना ऽढौकिषत केचन,प्राणशन् नासिकाभ्यां च, वक्त्रेण च वनौकसः।
उदरे चा ऽजरन्नन्ये तस्य पातालसन्निभे,आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्।
रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्,उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्।
योद्धुं सो प्यरुषच्छत्रोरैरिरच् च महाद्रुमम्।तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्।
स तामबिभ्रमद् भीमां, वानरेन्द्रस्य चा ऽमुचत्।प्रापप्तन् मारुतिस् तत्र तां चा ऽलासीद् वियद्गताम्।
अशोभिष्टाऽचखण्डच् च शक्तिं वीरो, न चा ऽयसत्।लौहभारसहस्रेण निर्मिता निरकारि मे
शक्तिरत्यकुपद् रक्षो, गिरिं चोदखनीद् गुरुम्,व्यसृष्ट तं कपीन्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः।
अलोठिष्ट च भूपृष्ठे, शोणितं चा ऽप्यसुस्रुवत्,तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः।
अभैषुः कपयो, ऽन्वारत् कुम्भुकर्णं मरुत्सुतः,शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्णनासिकम्
राक्षसस्य, न चा ऽत्रासीत्, प्रनष्टुमयतिष्ट च।अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ।
सुग्रीवो ऽस्या ऽभ्रशद्धस्तात्, समगाहिष्ट चा ऽम्बरम्,तूर्णमन्वसृपद् राम माननन्दच् च वानरान्।
अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ।कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः।
अविवेष्टन् नृपादेशादारुक्षंश् चाशु राक्षसम्तानधावीत् समारूढांस् ते ऽप्युस्रंसिषताकुलाः।
अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्दयम्।ते चा ऽप्यघोरिषुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः।
स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न,अग्रहीच् चायुरन्येषामरुद्ध च पराक्रमम्।
संत्रस्तानांअपाहारि सत्त्वं च वनवासिनाम्,अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा।
अभेदि च शरैर् देहः प्राशंसीत् तं निशाचरः।अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतेषवः,
यैरघानि खरो, वाली, मारीचो, दूषणस् तथा।अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्।
वायव्याऽस्त्रेण तं पाणिं रामो ऽच्छैत्सीत् सहायुधम्,आदीपि तरुहस्तो ऽसा वधावीच् चा ऽरिसंमुखम्।
सवृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः,जङ्घे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम्।
ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हतः।अपिक्षातां सहस्रे द्वे तद्देहेन वनौकसाम्।
अस्ताविषुः सुरा रामं, दिशः प्रापन् निशाचराः,भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः।
हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम्।
अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्,"क्रुद्धेन कुम्भकर्णेन ये ऽदिर्षिशत शत्रवः
कथं न्वजीविषुस् ते च, स चा ऽमृत महाबलः।"अयुयुत्सिषताश्वास्य कुमारा रावणं ततः
देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकःते चांहिषत संग्रामं बलिनो रावणात्मजाः।
युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्सुतानां, निरगातां तौ राक्षसौ रणपण्डितौ।
तैरजेषत सैन्यानि, द्विषो ऽकारिषताकुलाःपर्वतानिव ते भूमावचैषुर् वानरोत्तमान्।
अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि।
अश्वान् वालिसुतो ऽहिंसीदतताडच् च मुष्टिना।रावणिश् चा ऽव्यथो योद्धुमारब्ध च महीं गतः।
तस्या ऽहारिषत प्राणा मुष्टिना वालिसूनुना।प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्।
ततो नीलहनूमन्तौ रावणीनववेष्टताम्,अकारिष्टां गिरींस् तुङ्गानरौत्सीत् त्रिशिराः शरैः
परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको बली,मुष्टिना ऽददरत् तस्य मूर्धानं मारुतात्मजः।
अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैःयुद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्।
अबभ्राजत् ततः शक्तिं त्रिशिराः पवनात्मजे,हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः।
अस्रसच् चाहतो मूर्ध्नि, खड्गं चा ऽजीहरद् द्विषा,प्राणानौज्झीच् च खड्गेन छिन्नैस् तेनैव मूर्धभिः।
मत्तेना ऽमारि संप्राप्य शरभाऽस्तां महागदाम्,सहस्रहरिणा ऽक्रीडीदतिकायस् ततो रणे।
रथेना ऽविव्यथच् चाऽरीन्, व्यचारीच् च निरङ्कुशः,विभीषणेन सो ऽख्यायि राघवस्य महारथः।
"अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्।
अद्यगीष्टा ऽर्थशास्त्राणि, यमस्या ऽह्नोष्ट विक्रमम्,देवाहवेष्वदीपिष्ट, ना ऽजनिष्टा ऽस्य साध्वसम्।
एष रावणिरापादि वानराणां भयङ्करः"आह्वता ऽथ स काकुत्स्थं धनुश् चा ऽपुस्फुरद् गुरु।
सौमित्रिः सर्पवत् सिंहमार्दिदत् तं महाहवे।तौ प्रावीवृततां जेतुं शरजालान्यनेकशः।
अच्छैत्तां च महात्मानौ, चिरमश्रमतां न च,तथा तावास्थतां बाणानतानिष्टां तमो यथा।
सौर्याग्नेये व्यकारिष्टामस्त्रे राक्षसलक्ष्मणौ,ते चोपागमता नाशं समासाद्य परस्परम्
अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे,तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्।
ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्जयम्ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन् नरद्विषः।
ततो ऽक्रन्दीद् दशग्रीवस् तमाशिश्वसदिन्द्रजित्,निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्।
अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽस्त्रमण्डलम्,सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयावहम्।
तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिःछन्नरूपस् ततो ऽकर्तीद् देहान् रावणविद्विषाम्।
सप्तषष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्।निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्।
अपिस्फवत् स्वसामर्थ्यमगूहीत् सायकैर् दिशः,अघोरीच् च महाघोरं, गत्वा, प्रैषीच् च रावणम्।
विभीषणस् ततो ऽबोधि सस्फुरौ रामलक्ष्मणौ,अपारीत् स गृहीतोल्को हतशेषान् प्लवङ्गमान्।
"मा शोचिष्ट, रघुव्याघ्रौ नाऽमृषातामिति ब्रुवन्अवाबुद्ध स नीलादीन् निहतान् कपियूथपान्।
तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने,पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन् मारुतात्मजः।"
तस्य क्षेमे महाराज ! ना ऽमृष्मह्यखिला वयम्।पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनात्मजम्।
आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः,प्राहैष्टां हिमवत्पृष्ठे सर्वौषधिगिरिं ततः
तौ हनूमन्तमानेतुमोषधीं मृतजीविनीम्सन्धानकरणीं चाऽन्यां विशल्यकरणीं तथा।
प्रोदपाति नभस् तेन, स च प्रापि महागिरिः,यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्रशः
निरचायि यदा भेदो नौषधीनां हनूमता,सर्व एव समाहारि तदा शैलः महौषधिः।
प्राणिषुर् निहताः केचित्, केचित् तु प्रोदमीलिषुःतमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिषत चाऽपरे।
अजिघ्रपंस् तथैवाऽन्यानोषधीरालिपंस् तथा,एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्।
अजिह्लदत् स काकुत्स्थौ, शेषांश् चा ऽजीजिवत् कपीन्हनूमानथ ते लङ्का मग्निना ऽदीदिपन् द्रुतम्।
समनात्सीत् ततः सैन्यममार्जीद् भल्लतोमरम्,अमार्क्षीच् चा ऽसिपत्रादीनबभासत् परश्वधान्।
कुम्भकर्णसुतौ तत्र समनद्धां महाबलौनिकुम्भश् चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्।
अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः।
अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाकुलम्,अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम्।
अङ्गदेना ऽहसातां तौ युध्यकम्पनकम्पनौ,अभ्यार्दीद् वालिनः पुत्रं प्रजङ्घो ऽपि समत्सरः।
तस्या ऽप्यबेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः,अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः।
शरीरं लोहिताक्षस्य न्यभाङ्क्षीद् द्विविदस् तदा,क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं सद्विविदं शरैः
आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ।मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालिसुतो नगैः
प्रौर्णावीच्, छरवर्षेण तानप्रौहीन् निशाचरः।वानरानैजिहद् रामस्य तूर्णं रक्षितुमङ्गदम्।
द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रुसंकटात्,मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत्।
निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः,हनूमांश् चापतन्तं तमभाङ्क्षीद् भोगिभीषणम्।
प्रौर्णुवीत् तेजसाऽरातिमरासीच् च भयंकरम्,ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्।
समगतकपिसैन्यं सम्मदेना ऽतिमात्रं, विटपहरिणनाथः सिद्धिमौहिष्ट नित्याम्,नृपतिमतिररंस्त प्राप्तकामेव हर्षात्, रजनिचरपतीनां सन्ततो ऽतायि शोकः।