२० भट्टिकाव्यम् This text does not support clickable word meanings. समुपेत्य ततः सीतामुक्तवान् पवनात्मजःदिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्यकण्टकः ▼ Permalink Bookmark अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाःरक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्। ▼ Permalink Bookmark तृण्हानि दुराचारघोररूपाशयक्रियाः,हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्। ▼ Permalink Bookmark पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"ततः प्रोक्तवती सीता वानरं करुणाशया। ▼ Permalink Bookmark "उपशाम्यतु, ते बुद्धिः पिण्डनिर्वेशकारिषुलघुसत्वेषु, दोषोऽयं यत्कृतोनिहतो ऽसकौ। ▼ Permalink Bookmark न हि प्रेष्यवधं घोरं करवान्यस्तु ते मतिः,एधि कार्यकरस् त्वं मे गत्वा प्रवद राघवम्। ▼ Permalink Bookmark "दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्"।तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्। ▼ Permalink Bookmark "उत्सुकानीयतां देवी काकुत्स्थकुलनन्दन !"क्ष्मां लिखित्वा विनिश्वस्य स्वरालोक्य विभीषणम् ▼ Permalink Bookmark उक्तवान् राघवः"सीतामानया ऽलंकृतामिति।"गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः। ▼ Permalink Bookmark "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,रावणे जहिहि द्वेषां, जहाहि प्रमदावनम्। ▼ Permalink Bookmark स्नाह्यनुलिम्प धूपाय, निवस्स्वाविध्य च स्रजम्,रत्नान्यामुञ्च, संदीप्ते हविर् जुहुधि पावके, ▼ Permalink Bookmark अद्धि त्वं पञ्चगव्यं च, छिन्धि संरोधजं तमः,आरोह शिबिकां हैमीं, द्विषां जहि मनोरथान्। ▼ Permalink Bookmark तृणेढु त्वद्वियोगोत्थां राजन्यानां पतिः शुचम्,भवतादधियुक्ता त्वमत ऊर्ध्वं स्ववेश्मनि। ▼ Permalink Bookmark दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्। ▼ Permalink Bookmark अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च ▼ Permalink Bookmark मुदा संयुहि काकुत्स्थं, स्वयं चाप्नूहि सम्पदम्,उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघवसन्निधिम्। ▼ Permalink Bookmark ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेःराजपत्नीनियोगस्थमनुशाधि पुरीजनम्। ▼ Permalink Bookmark उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम्।" ▼ Permalink Bookmark अनुष्ठाय यथादिष्टं नियोगं जनकात्मजाममारूढवती यानं पट्टांऽशुकवृतानना। ▼ Permalink Bookmark लज्जाऽनता विसंयोगदुःखस्मरणविह्वलासाऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ। ▼ Permalink Bookmark प्राप्तचारित्र्यसन्देहस् ततस् तामुक्तवान् नृपःइच्छामे"नाददे सीते ! त्वामहं गम्यतामतः"। ▼ Permalink Bookmark रावणाऽङ्कपरिश्लिष्टा त्वं हृल्लेखकरी मममतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा। ▼ Permalink Bookmark अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,कामाद् वा याहि, मुच्यन्तामाशा रामनिबन्धनाः। ▼ Permalink Bookmark क्व च ख्यातो रघोर् वंशः, क्व तं परगृहोषिता,अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे। ▼ Permalink Bookmark यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्गताम्। ▼ Permalink Bookmark ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्"स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्। ▼ Permalink Bookmark दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,मिथ्या मामभिसंक्रुध्य न्नवशां शत्रुणा हृताम्। ▼ Permalink Bookmark चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ▼ Permalink Bookmark त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्त्रयम्चरन् देहेषु भूतानां विद्धि मे बुद्धिविप्लवम्। ▼ Permalink Bookmark खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽतिपावनाःयूयमापो ! विजानीत मनोवृत्तिं शुभां मम। ▼ Permalink Bookmark जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !अवेहि मम चारित्रं नक्तंदिवमविच्युतम्। ▼ Permalink Bookmark रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे। ▼ Permalink Bookmark स्वर्गे विद्यस्व, भुव्यास्व, भुजङ्गनिलये भव,एवं वसन् ममाकाश ! संबुध्यस्व कृताऽकृतम्। ▼ Permalink Bookmark चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः ▼ Permalink Bookmark राघवस्य मतेना ऽथ लक्ष्मणेनाचितां चिताम्दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ▼ Permalink Bookmark प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः। ▼ Permalink Bookmark मां दुष्टां ज्वलितवपुः प्लुषाण वह्ने ! संरक्ष क्षतमलिनां सुहृद् यथा वा,एषा ऽहं क्रतुषु वसोर् यथाज्यधारा त्वां प्राप्ता विधिवदुदीर्णदीप्तिमालम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha