समुपेत्य ततः सीतामुक्तवान् पवनात्मजःदिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्यकण्टकः
अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाःरक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्।
तृण्हानि दुराचारघोररूपाशयक्रियाः,हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्।
पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"ततः प्रोक्तवती सीता वानरं करुणाशया।
"उपशाम्यतु, ते बुद्धिः पिण्डनिर्वेशकारिषुलघुसत्वेषु, दोषोऽयं यत्कृतोनिहतो ऽसकौ।
न हि प्रेष्यवधं घोरं करवान्यस्तु ते मतिः,एधि कार्यकरस् त्वं मे गत्वा प्रवद राघवम्।
"दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्"।तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्।
"उत्सुकानीयतां देवी काकुत्स्थकुलनन्दन !"क्ष्मां लिखित्वा विनिश्वस्य स्वरालोक्य विभीषणम्
उक्तवान् राघवः"सीतामानया ऽलंकृतामिति।"गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः।
"जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,रावणे जहिहि द्वेषां, जहाहि प्रमदावनम्।
स्नाह्यनुलिम्प धूपाय, निवस्स्वाविध्य च स्रजम्,रत्नान्यामुञ्च, संदीप्ते हविर् जुहुधि पावके,
अद्धि त्वं पञ्चगव्यं च, छिन्धि संरोधजं तमः,आरोह शिबिकां हैमीं, द्विषां जहि मनोरथान्।
तृणेढु त्वद्वियोगोत्थां राजन्यानां पतिः शुचम्,भवतादधियुक्ता त्वमत ऊर्ध्वं स्ववेश्मनि।
दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्।
अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च
मुदा संयुहि काकुत्स्थं, स्वयं चाप्नूहि सम्पदम्,उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघवसन्निधिम्।
ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेःराजपत्नीनियोगस्थमनुशाधि पुरीजनम्।
उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम्।"
अनुष्ठाय यथादिष्टं नियोगं जनकात्मजाममारूढवती यानं पट्टांऽशुकवृतानना।
लज्जाऽनता विसंयोगदुःखस्मरणविह्वलासाऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ।
प्राप्तचारित्र्यसन्देहस् ततस् तामुक्तवान् नृपःइच्छामे"नाददे सीते ! त्वामहं गम्यतामतः"।
रावणाऽङ्कपरिश्लिष्टा त्वं हृल्लेखकरी मममतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा।
अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,कामाद् वा याहि, मुच्यन्तामाशा रामनिबन्धनाः।
क्व च ख्यातो रघोर् वंशः, क्व तं परगृहोषिता,अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे।
यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्गताम्।
ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्"स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्।
दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,मिथ्या मामभिसंक्रुध्य न्नवशां शत्रुणा हृताम्।
चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः
त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्त्रयम्चरन् देहेषु भूतानां विद्धि मे बुद्धिविप्लवम्।
खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽतिपावनाःयूयमापो ! विजानीत मनोवृत्तिं शुभां मम।
जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !अवेहि मम चारित्रं नक्तंदिवमविच्युतम्।
रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे।
स्वर्गे विद्यस्व, भुव्यास्व, भुजङ्गनिलये भव,एवं वसन् ममाकाश ! संबुध्यस्व कृताऽकृतम्।
चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः
राघवस्य मतेना ऽथ लक्ष्मणेनाचितां चिताम्दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः
प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः।
मां दुष्टां ज्वलितवपुः प्लुषाण वह्ने ! संरक्ष क्षतमलिनां सुहृद् यथा वा,एषा ऽहं क्रतुषु वसोर् यथाज्यधारा त्वां प्राप्ता विधिवदुदीर्णदीप्तिमालम्।