१२ भट्टिकाव्यम् This text does not support clickable word meanings. ततो विनिद्रं कृतदेवताऽर्चं दृष्ट्यैव चित्तप्रशमं किरन्तम्आविष्कृताऽङ्गप्रतिकर्मरम्यं विभीषणं वाचमुवाच माता "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्यआनन्दनो नाकसदां प्रशान्तिं तूर्णं विषस्याऽमृतवत् कुरुष्व। कुर्यास् तथा, येन जहाति सीतां विषादनीहारपरीतमूर्तिम्स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य। यावन् न संत्रासितदेवसंघः पिण्डो विषस्येव हरेण भीष्मःसंग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलानन्द ! यतस्व तावत्। हता जनस्थान सदो निकायाः, कृता जितोत्खातभटद्रुमा पूः,सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्।" चिकीर्षिते पूर्वतरं स तस्मिन्, क्षेमंकरे ऽर्थे मुहुरीर्यमाणःमात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्। दौवारिकाऽभ्याहतशक्रदूतं सोपायनोपस्थितलोकपालम्साशङ्कभीष्माप्तविशन्निशाटं द्वारं ययौ रावणमन्द्रिरस्य। दूरात् प्रतीहारनतः स वार्तां पृच्छन्ननावेदितसंप्रविष्टःसगौरवं दत्तपथो निशाटै रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम् कृशानुवर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षयमेघभीमम्निसर्गतीक्ष्णं नयनस्फुलिङ्गं युगान्तवह्नेरिव धूमराशिम् प्रीत्या ऽपि दत्तेक्षणसन्निपातं भयं भूजङ्गाऽधिपवद् दधानम्तमःसमूहाकृतिमप्यशेषा नूर्जा जयन्तं प्रथितप्रकाशान्। तं रत्नदायं जितमृत्युलोका रात्रिंचराः कान्तिभृतो ऽन्वसर्पन्प्रमुक्तमुक्ताफलमम्बुवाहं संजाततृष्णा इव देवमुख्याः। स किङ्करैः कल्पितमिङ्गितज्ञैः संबाधकं पूर्वसमागतानाम्सिंहासनोपाश्रितचारुबाहु रध्यास्त पीठं विहितप्रणामः। ततो दशास्यः क्षुभिताऽहिकल्पं दीप्राऽङ्गुलीयोपलमूढरत्नम्अनेकचञ्चन्नखकान्तिजिह्वं प्रसार्य पाणिं समितिं बभाषे "शक्तैः सुहृद्भिः परिदृष्टकार्यै राम्नातिभिर् नीतिषु बुद्धिमद्भिःयुष्मद्विधैः सार्धमुपायविद्भिः सध्यन्ति कार्याणि सुमन्त्रितानि। उपेक्षिते वालिखरादिनाशे, दग्धे पुरे, ऽक्षे निहते सभृत्ये,सैन्ये द्विषां सागरमुत्तितीर्षा वनन्तरं ब्रूत, यदत्र युक्तम्।" भुजांऽसवक्षःस्थलकार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाःपरामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्तप्रमुखा दशास्यम्। "अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डःनराभियोगं नृभुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्। निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्,आ दन्तनिष्पीडितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्। सराघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नःसस्थाणुकैलासधार ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे। चापल्ययुक्तस्य हरेः कृशानुः समेधितो वालधिभाक् त्वदीयैःशस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्।" अथा ऽञ्चितोरस्कमुदीर्णदृष्टिः कृत्वा विवक्षाप्रवणं शरीरम्विवृत्तपाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्। "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्,तत् प्राणपण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्। यच् चापि यत्नादृतमन्त्रवृत्तिर् गुरुत्वमायाति नराऽभियोगःवशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेषपुरो हनूमान्। अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्,विमृश्य तद् देवधिया ऽभिधत्त ब्रह्माऽस्त्रबन्धोऽपि यदि प्रमादः जगन्त्यमेयाऽद्भुतभावभाञ्जि, जिताऽभिमानाश् च जना विचित्राः,कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीतिगर्भान् सुधियो ऽवमन्ध्वम्। वृद्धिक्षयस्थानगतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणःघटेत सन्ध्यादिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि। उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रयस्यमदादियुक्तस्य विरागहेतुः, समूलघातं विनिहन्ति या ऽन्ते। जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधियात्मनो ऽपिउपेक्षणीयो ऽभ्युपगम्य संधिं कामादिषड्वर्गजिता ऽधिपेन। यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत्,आसीत राजा ऽवसरप्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्। संधौ स्थितो वा जनयेत् स्ववृद्धिं हन्यात् परं वोपनिषत्प्रयोगैःआश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीनसंधिम्। संदर्शितस्नेहगुणः स्वशत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात्इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः। मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्तदुर्गान्द्रुमाऽद्रिदुर्लङ्घ्यजलाप्रधृष्यान् वर्धेत राजा रिपुविग्रहेण। शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना ऽप्यबलैर् द्विषद्भिः,स श्वावराहं कलहं विदध्या दासीत दुर्गादि विवर्धयंश् च। प्रयाणमात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,अशक्नुवन् कर्तुमरेर् विघातं स्वकर्मरक्षां च परं ष्रयेत। एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्,एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहितात्मसारम्। त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्रमुख्यम्,रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना ऽभ्यधिकं विपक्षम्। एकेन वाली निहतः शरेण सुहृत्तमस् ते, रचितश् च राजायदैव सुग्रीवकपिः परेण, तदैव कार्यं भवतो विनष्टम्। प्राकारमात्रावरणः प्रभावः खरादिभिर् यो निहतैस् तवाऽभूत्,लङ्काप्रदाहाऽक्षवधद्रुभङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्। षड्वर्गवश्यः परिमूढबन्धु रुच्छिन्नमित्रो विगुणैरुपेतःमा पादयुद्धं द्विरदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्। रामो ऽपि दाराहरणेन तप्तो, वयं हतैर् बन्धुभिरात्मतुल्यैः,तप्तस्य तप्तेन यथायसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम्। संधुक्षितं मण्डलचण्डवातै रमर्षतीक्ष्णं क्षितिपालतेजःसामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम सबन्धुभृत्याः। अपक्वकुम्भाविव भङ्गभाजौ राजन्नियातां मरणं समानौ,वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तमभूरिवैरी। दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापिरिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु। क्लिष्टात्मभृत्यः परिमृग्यसम्पन् मानी यतेता ऽपि ससंशये ऽर्थे,संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः। शक्यान्यदोषाणि महाफलानि समारभेतोपनयन् समाप्तिम्कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः। जेतुं न शक्यो नृपतिः सुनीतिर् दोषः क्षयादिः कलहे ध्रुवश्, चफलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा ऽरिम्। त्वन्मित्रनाशो, निजमित्रलाभः, समेतसैन्यः स च मित्रकृच्छ्रेभोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालिवधे न को ऽर्थः लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः,स्थितः सतां वर्त्मनि लब्धराज्यः प्रतिप्रियं सो ऽभ्यगमच् चिकीर्षुः। फलाशिनो निर्झरकुञ्जभाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाःन्यग्जातयो रत्नवरैरलभ्या मुख्याः कपीनामपि नोपजप्याः। कृताऽभिषेको युवराजराज्ये सुग्रीवराजेन सुताऽविशेषम्ताराविधेयेन कथं विकारं तारासुतो यास्यति राक्षसाऽर्थम्। पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमुपाश्रयेम,दत्त्वा वरं साऽनुशयः स्वयम्भू रिन्द्रादयः पूर्वतरं विरुद्धाः। दुर्गाश्रितानां बहुना ऽपि राजन् ! कालेन पार्ष्णिग्रहणादिहेतुःदुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा ऽपि दशास्य ! हानिः शस्त्रं तरूर्वीधरमम्बु पानं वृत्तिः फलैर्, नो गजवाजिनार्यःराष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्। संधानमेवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः,नूनं विसंधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण।" विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम्स्खलद्वलिर् वार्धककम्प्रमूर्धा मातामहो रावणमित्युवाच। "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेकमायानि वियद्गतानिरक्षःसहस्राणि चतुर्दशार्दीत्, का तत्र वो मानुषमात्रशङ्का। ब्रह्मर्षिभिर् नूनमयं सदेवैः संतापितौ रात्रिचरक्षयायनराकृतिर् वानरसैन्यशाली जगत्यजय्यो विहितो ऽभ्युपायः। वज्राऽभिघातैरविरुग्णमूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नःचकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्। क्व स्त्रीविषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्रशिलाविशालम्,संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नरसिंहमूर्तिः। प्रमादवांस् त्वं क्षतधर्मवर्त्मा गतो मुनीनामपि शत्रुभावम्,कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्।" घोषेण तेन प्रतिलब्धसंज्ञो निद्राविलाऽक्षः ष्रुतकार्यसारःस्फुरद्घनः साऽम्बुरिवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः "क्रियासमारम्भगतो ऽभ्युपायो, नृद्रव्यसम्पत् सहदेशकला,विपत्प्रतीकारयुता ऽर्थसिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च। न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायादिषु यो ऽतियायात्,स प्राप्नुयान् मन्त्रफलं न मानी काले विपन्ने क्षणदाचरेन्द्र ! औष्ण्यं त्यजेन् मध्यगतो ऽपि भानुः, शैत्यं निशायामथवा हिमांशुःअनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशिनाथ ! तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्विधाः सिद्धिमभीप्सवस् त्वाम्विलोमचेष्टं विहिताऽवहासाः परैर् हि तत् स्नेहमयैस् तमोभिः क्रूराः क्रियाः, ग्राम्यसुखेषु सङ्गः, पुण्यस्य यः संक्षयहेतुरुक्तः,निषेवितो ऽसौ भवता ऽतिमात्रं फलत्यवल्गु ध्रुवमेव राजन् ! दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः,इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्। किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाधिम्।"तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्। "निमित्तशून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैःस्वभावहीनैर् मृगपक्षिघोषैः क्रन्दन्ति भर्तारमिवा ऽभिपन्नम् उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्मम्अत्तुं जनान् धूसररश्मिराशिः सिंहो यथा कीर्णसटो ऽभ्युदेति। मार्गं गतो गोत्रगुरुर् भृगूणा मगस्तिना ऽध्यासितविन्ध्यशृङ्गम्,संदृश्यते शक्रपुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः मांसं हतानामिव राक्षसाना माशंसवः क्रूरगिरो रुवन्तःक्रव्याऽशिनो दीप्तकृशानुवक्त्रा भ्राम्यन्त्यभीताः परितः पुरं नः पयो घटोध्नीरपि गा दुहन्ति मन्दं विवर्णं विरसं च गोपाः,हव्येषु कीटोपजनः सकेशो न दीप्यते ऽग्निः सुसमिन्धनो ऽपि। तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः,वदन्ति दुःखं ह्यनुजीविवृत्ते स्थिताः पदस्थं परिणामपथ्यम्। विरुग्णसंकीर्णविपन्नभिन्नैः पक्षुण्णसंह्रीणशिताऽस्त्रवृक्णैःयावन् नराऽशैर् न रिपुः शवऽशान् संतर्पयत्यानम तावदस्मै।" भ्रूभङ्गमाधाय विहाय धैर्यं विभीषणं भीषणरूक्षचक्षुःगिरं जगादोग्रपदामुदग्रः स्वं स्फावयन् शक्ररिपुः प्रभावम्। "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्यनप्तः ! अनिर्वृतं भूतिषु गूढवैरं सत्कारकाले ऽपि कृता ऽभ्यसूयम्विभिन्नकर्माशयवाक् कुले नो मा ज्ञातिचेलं, भुवि कस्यचिद् भूत् इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्यकुलस्य लक्ष्मीम्नमन्ति शत्रून्, न च बन्धुवृद्धिं संतप्यमानैर् हृदयैः सहन्ते। त्वयाऽद्य लङ्काऽभिभवे ऽतिहर्षाद् दुष्टो ऽतिमात्रं विवृतो ऽन्तरात्मा,धिक् त्वां, मृषा ते मयि दुस्थबुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्। ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,मोहं धियोत्साहवशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्। उवाच चैनं क्षणदाचरेन्द्रं "सुखं महाराज ! विना मयास्स्व।मूर्खातुरः पथ्यकटूननश्नन् यत् सामयोसौ, भिषजां न दोषः करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्रसुखैरपथ्यैःविवेकशून्यः प्रभुरात्ममानी, महाननर्थः सुहृदां बता ऽयम्। क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशयस्थः,संसेवमानो नृपतिं प्रमूढं तथैव यज् जीवति, सो ऽस्य लाभः। दत्तः स्वदोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,स चिन्तनीयः सह मन्त्रिमुख्यैः कस्यावयोर् लाघवमादधातु। इति वचनमसौ रजनिचरपतिं बहुगुणमसकृत् प्रसभमभिदधत्निरगमदभयः पुरुषरिपुपुरान् नरपतिचरणौ नवितुमरिनुतौ। अथ तमुपगतं विदितसुचरितं पवनसुतगिरा गिरिगुरुहृदयःनृपतिरमदयन् मुदितपरिजनं स्वपुरपतिकरैः सलिलसमुदयैः। × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha