१२ भट्टिकाव्यम् This text does not support clickable word meanings. ततो विनिद्रं कृतदेवताऽर्चं दृष्ट्यैव चित्तप्रशमं किरन्तम्आविष्कृताऽङ्गप्रतिकर्मरम्यं विभीषणं वाचमुवाच माता ▼ Permalink Bookmark "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्यआनन्दनो नाकसदां प्रशान्तिं तूर्णं विषस्याऽमृतवत् कुरुष्व। ▼ Permalink Bookmark कुर्यास् तथा, येन जहाति सीतां विषादनीहारपरीतमूर्तिम्स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य। ▼ Permalink Bookmark यावन् न संत्रासितदेवसंघः पिण्डो विषस्येव हरेण भीष्मःसंग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलानन्द ! यतस्व तावत्। ▼ Permalink Bookmark हता जनस्थान सदो निकायाः, कृता जितोत्खातभटद्रुमा पूः,सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्।" ▼ Permalink Bookmark चिकीर्षिते पूर्वतरं स तस्मिन्, क्षेमंकरे ऽर्थे मुहुरीर्यमाणःमात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्। ▼ Permalink Bookmark दौवारिकाऽभ्याहतशक्रदूतं सोपायनोपस्थितलोकपालम्साशङ्कभीष्माप्तविशन्निशाटं द्वारं ययौ रावणमन्द्रिरस्य। ▼ Permalink Bookmark दूरात् प्रतीहारनतः स वार्तां पृच्छन्ननावेदितसंप्रविष्टःसगौरवं दत्तपथो निशाटै रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम् ▼ Permalink Bookmark कृशानुवर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षयमेघभीमम्निसर्गतीक्ष्णं नयनस्फुलिङ्गं युगान्तवह्नेरिव धूमराशिम् ▼ Permalink Bookmark प्रीत्या ऽपि दत्तेक्षणसन्निपातं भयं भूजङ्गाऽधिपवद् दधानम्तमःसमूहाकृतिमप्यशेषा नूर्जा जयन्तं प्रथितप्रकाशान्। ▼ Permalink Bookmark तं रत्नदायं जितमृत्युलोका रात्रिंचराः कान्तिभृतो ऽन्वसर्पन्प्रमुक्तमुक्ताफलमम्बुवाहं संजाततृष्णा इव देवमुख्याः। ▼ Permalink Bookmark स किङ्करैः कल्पितमिङ्गितज्ञैः संबाधकं पूर्वसमागतानाम्सिंहासनोपाश्रितचारुबाहु रध्यास्त पीठं विहितप्रणामः। ▼ Permalink Bookmark ततो दशास्यः क्षुभिताऽहिकल्पं दीप्राऽङ्गुलीयोपलमूढरत्नम्अनेकचञ्चन्नखकान्तिजिह्वं प्रसार्य पाणिं समितिं बभाषे ▼ Permalink Bookmark "शक्तैः सुहृद्भिः परिदृष्टकार्यै राम्नातिभिर् नीतिषु बुद्धिमद्भिःयुष्मद्विधैः सार्धमुपायविद्भिः सध्यन्ति कार्याणि सुमन्त्रितानि। ▼ Permalink Bookmark उपेक्षिते वालिखरादिनाशे, दग्धे पुरे, ऽक्षे निहते सभृत्ये,सैन्ये द्विषां सागरमुत्तितीर्षा वनन्तरं ब्रूत, यदत्र युक्तम्।" ▼ Permalink Bookmark भुजांऽसवक्षःस्थलकार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाःपरामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्तप्रमुखा दशास्यम्। ▼ Permalink Bookmark "अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डःनराभियोगं नृभुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्। ▼ Permalink Bookmark निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्,आ दन्तनिष्पीडितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्। ▼ Permalink Bookmark सराघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नःसस्थाणुकैलासधार ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे। ▼ Permalink Bookmark चापल्ययुक्तस्य हरेः कृशानुः समेधितो वालधिभाक् त्वदीयैःशस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्।" ▼ Permalink Bookmark अथा ऽञ्चितोरस्कमुदीर्णदृष्टिः कृत्वा विवक्षाप्रवणं शरीरम्विवृत्तपाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्। ▼ Permalink Bookmark "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्,तत् प्राणपण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्। ▼ Permalink Bookmark यच् चापि यत्नादृतमन्त्रवृत्तिर् गुरुत्वमायाति नराऽभियोगःवशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेषपुरो हनूमान्। ▼ Permalink Bookmark अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्,विमृश्य तद् देवधिया ऽभिधत्त ब्रह्माऽस्त्रबन्धोऽपि यदि प्रमादः ▼ Permalink Bookmark जगन्त्यमेयाऽद्भुतभावभाञ्जि, जिताऽभिमानाश् च जना विचित्राः,कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीतिगर्भान् सुधियो ऽवमन्ध्वम्। ▼ Permalink Bookmark वृद्धिक्षयस्थानगतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणःघटेत सन्ध्यादिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि। ▼ Permalink Bookmark उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रयस्यमदादियुक्तस्य विरागहेतुः, समूलघातं विनिहन्ति या ऽन्ते। ▼ Permalink Bookmark जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधियात्मनो ऽपिउपेक्षणीयो ऽभ्युपगम्य संधिं कामादिषड्वर्गजिता ऽधिपेन। ▼ Permalink Bookmark यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत्,आसीत राजा ऽवसरप्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्। ▼ Permalink Bookmark संधौ स्थितो वा जनयेत् स्ववृद्धिं हन्यात् परं वोपनिषत्प्रयोगैःआश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीनसंधिम्। ▼ Permalink Bookmark संदर्शितस्नेहगुणः स्वशत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात्इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः। ▼ Permalink Bookmark मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्तदुर्गान्द्रुमाऽद्रिदुर्लङ्घ्यजलाप्रधृष्यान् वर्धेत राजा रिपुविग्रहेण। ▼ Permalink Bookmark शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना ऽप्यबलैर् द्विषद्भिः,स श्वावराहं कलहं विदध्या दासीत दुर्गादि विवर्धयंश् च। ▼ Permalink Bookmark प्रयाणमात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,अशक्नुवन् कर्तुमरेर् विघातं स्वकर्मरक्षां च परं ष्रयेत। ▼ Permalink Bookmark एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्,एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहितात्मसारम्। ▼ Permalink Bookmark त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्रमुख्यम्,रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना ऽभ्यधिकं विपक्षम्। ▼ Permalink Bookmark एकेन वाली निहतः शरेण सुहृत्तमस् ते, रचितश् च राजायदैव सुग्रीवकपिः परेण, तदैव कार्यं भवतो विनष्टम्। ▼ Permalink Bookmark प्राकारमात्रावरणः प्रभावः खरादिभिर् यो निहतैस् तवाऽभूत्,लङ्काप्रदाहाऽक्षवधद्रुभङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्। ▼ Permalink Bookmark षड्वर्गवश्यः परिमूढबन्धु रुच्छिन्नमित्रो विगुणैरुपेतःमा पादयुद्धं द्विरदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्। ▼ Permalink Bookmark रामो ऽपि दाराहरणेन तप्तो, वयं हतैर् बन्धुभिरात्मतुल्यैः,तप्तस्य तप्तेन यथायसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम्। ▼ Permalink Bookmark संधुक्षितं मण्डलचण्डवातै रमर्षतीक्ष्णं क्षितिपालतेजःसामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम सबन्धुभृत्याः। ▼ Permalink Bookmark अपक्वकुम्भाविव भङ्गभाजौ राजन्नियातां मरणं समानौ,वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तमभूरिवैरी। ▼ Permalink Bookmark दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापिरिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु। ▼ Permalink Bookmark क्लिष्टात्मभृत्यः परिमृग्यसम्पन् मानी यतेता ऽपि ससंशये ऽर्थे,संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः। ▼ Permalink Bookmark शक्यान्यदोषाणि महाफलानि समारभेतोपनयन् समाप्तिम्कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः। ▼ Permalink Bookmark जेतुं न शक्यो नृपतिः सुनीतिर् दोषः क्षयादिः कलहे ध्रुवश्, चफलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा ऽरिम्। ▼ Permalink Bookmark त्वन्मित्रनाशो, निजमित्रलाभः, समेतसैन्यः स च मित्रकृच्छ्रेभोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालिवधे न को ऽर्थः ▼ Permalink Bookmark लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः,स्थितः सतां वर्त्मनि लब्धराज्यः प्रतिप्रियं सो ऽभ्यगमच् चिकीर्षुः। ▼ Permalink Bookmark फलाशिनो निर्झरकुञ्जभाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाःन्यग्जातयो रत्नवरैरलभ्या मुख्याः कपीनामपि नोपजप्याः। ▼ Permalink Bookmark कृताऽभिषेको युवराजराज्ये सुग्रीवराजेन सुताऽविशेषम्ताराविधेयेन कथं विकारं तारासुतो यास्यति राक्षसाऽर्थम्। ▼ Permalink Bookmark पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमुपाश्रयेम,दत्त्वा वरं साऽनुशयः स्वयम्भू रिन्द्रादयः पूर्वतरं विरुद्धाः। ▼ Permalink Bookmark दुर्गाश्रितानां बहुना ऽपि राजन् ! कालेन पार्ष्णिग्रहणादिहेतुःदुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा ऽपि दशास्य ! हानिः ▼ Permalink Bookmark शस्त्रं तरूर्वीधरमम्बु पानं वृत्तिः फलैर्, नो गजवाजिनार्यःराष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्। ▼ Permalink Bookmark संधानमेवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः,नूनं विसंधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण।" ▼ Permalink Bookmark विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम्स्खलद्वलिर् वार्धककम्प्रमूर्धा मातामहो रावणमित्युवाच। ▼ Permalink Bookmark "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेकमायानि वियद्गतानिरक्षःसहस्राणि चतुर्दशार्दीत्, का तत्र वो मानुषमात्रशङ्का। ▼ Permalink Bookmark ब्रह्मर्षिभिर् नूनमयं सदेवैः संतापितौ रात्रिचरक्षयायनराकृतिर् वानरसैन्यशाली जगत्यजय्यो विहितो ऽभ्युपायः। ▼ Permalink Bookmark वज्राऽभिघातैरविरुग्णमूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नःचकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्। ▼ Permalink Bookmark क्व स्त्रीविषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्रशिलाविशालम्,संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नरसिंहमूर्तिः। ▼ Permalink Bookmark प्रमादवांस् त्वं क्षतधर्मवर्त्मा गतो मुनीनामपि शत्रुभावम्,कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्।" ▼ Permalink Bookmark घोषेण तेन प्रतिलब्धसंज्ञो निद्राविलाऽक्षः ष्रुतकार्यसारःस्फुरद्घनः साऽम्बुरिवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः ▼ Permalink Bookmark "क्रियासमारम्भगतो ऽभ्युपायो, नृद्रव्यसम्पत् सहदेशकला,विपत्प्रतीकारयुता ऽर्थसिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च। ▼ Permalink Bookmark न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायादिषु यो ऽतियायात्,स प्राप्नुयान् मन्त्रफलं न मानी काले विपन्ने क्षणदाचरेन्द्र ! ▼ Permalink Bookmark औष्ण्यं त्यजेन् मध्यगतो ऽपि भानुः, शैत्यं निशायामथवा हिमांशुःअनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशिनाथ ! ▼ Permalink Bookmark तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्विधाः सिद्धिमभीप्सवस् त्वाम्विलोमचेष्टं विहिताऽवहासाः परैर् हि तत् स्नेहमयैस् तमोभिः ▼ Permalink Bookmark क्रूराः क्रियाः, ग्राम्यसुखेषु सङ्गः, पुण्यस्य यः संक्षयहेतुरुक्तः,निषेवितो ऽसौ भवता ऽतिमात्रं फलत्यवल्गु ध्रुवमेव राजन् ! ▼ Permalink Bookmark दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः,इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्। ▼ Permalink Bookmark किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाधिम्।"तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्। ▼ Permalink Bookmark "निमित्तशून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैःस्वभावहीनैर् मृगपक्षिघोषैः क्रन्दन्ति भर्तारमिवा ऽभिपन्नम् ▼ Permalink Bookmark उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्मम्अत्तुं जनान् धूसररश्मिराशिः सिंहो यथा कीर्णसटो ऽभ्युदेति। ▼ Permalink Bookmark मार्गं गतो गोत्रगुरुर् भृगूणा मगस्तिना ऽध्यासितविन्ध्यशृङ्गम्,संदृश्यते शक्रपुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः ▼ Permalink Bookmark मांसं हतानामिव राक्षसाना माशंसवः क्रूरगिरो रुवन्तःक्रव्याऽशिनो दीप्तकृशानुवक्त्रा भ्राम्यन्त्यभीताः परितः पुरं नः ▼ Permalink Bookmark पयो घटोध्नीरपि गा दुहन्ति मन्दं विवर्णं विरसं च गोपाः,हव्येषु कीटोपजनः सकेशो न दीप्यते ऽग्निः सुसमिन्धनो ऽपि। ▼ Permalink Bookmark तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः,वदन्ति दुःखं ह्यनुजीविवृत्ते स्थिताः पदस्थं परिणामपथ्यम्। ▼ Permalink Bookmark विरुग्णसंकीर्णविपन्नभिन्नैः पक्षुण्णसंह्रीणशिताऽस्त्रवृक्णैःयावन् नराऽशैर् न रिपुः शवऽशान् संतर्पयत्यानम तावदस्मै।" ▼ Permalink Bookmark भ्रूभङ्गमाधाय विहाय धैर्यं विभीषणं भीषणरूक्षचक्षुःगिरं जगादोग्रपदामुदग्रः स्वं स्फावयन् शक्ररिपुः प्रभावम्। ▼ Permalink Bookmark "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्यनप्तः ! ▼ Permalink Bookmark अनिर्वृतं भूतिषु गूढवैरं सत्कारकाले ऽपि कृता ऽभ्यसूयम्विभिन्नकर्माशयवाक् कुले नो मा ज्ञातिचेलं, भुवि कस्यचिद् भूत् ▼ Permalink Bookmark इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्यकुलस्य लक्ष्मीम्नमन्ति शत्रून्, न च बन्धुवृद्धिं संतप्यमानैर् हृदयैः सहन्ते। ▼ Permalink Bookmark त्वयाऽद्य लङ्काऽभिभवे ऽतिहर्षाद् दुष्टो ऽतिमात्रं विवृतो ऽन्तरात्मा,धिक् त्वां, मृषा ते मयि दुस्थबुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्। ▼ Permalink Bookmark ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,मोहं धियोत्साहवशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्। ▼ Permalink Bookmark उवाच चैनं क्षणदाचरेन्द्रं "सुखं महाराज ! विना मयास्स्व।मूर्खातुरः पथ्यकटूननश्नन् यत् सामयोसौ, भिषजां न दोषः ▼ Permalink Bookmark करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्रसुखैरपथ्यैःविवेकशून्यः प्रभुरात्ममानी, महाननर्थः सुहृदां बता ऽयम्। ▼ Permalink Bookmark क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशयस्थः,संसेवमानो नृपतिं प्रमूढं तथैव यज् जीवति, सो ऽस्य लाभः। ▼ Permalink Bookmark दत्तः स्वदोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,स चिन्तनीयः सह मन्त्रिमुख्यैः कस्यावयोर् लाघवमादधातु। ▼ Permalink Bookmark इति वचनमसौ रजनिचरपतिं बहुगुणमसकृत् प्रसभमभिदधत्निरगमदभयः पुरुषरिपुपुरान् नरपतिचरणौ नवितुमरिनुतौ। ▼ Permalink Bookmark अथ तमुपगतं विदितसुचरितं पवनसुतगिरा गिरिगुरुहृदयःनृपतिरमदयन् मुदितपरिजनं स्वपुरपतिकरैः सलिलसमुदयैः। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha