६ भट्टिकाव्यम् This text does not support clickable word meanings. ओषांचकार कामाऽग्निर् दशावक्त्रमहर्निशम्।विदांचकार वैदेहीं रामादन्यनिरुत्सुकाम्। ▼ Permalink Bookmark प्रजागरांचकारारेरीहास्वनिशमादरात्,प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः। ▼ Permalink Bookmark न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः।नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्। ▼ Permalink Bookmark विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्। ▼ Permalink Bookmark अथ प्रकीर्णकाः ▼ Permalink Bookmark रामो ऽपि हतमारीचो निवर्त्स्यन् खरनादिनःक्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभशंसिनः ▼ Permalink Bookmark आशङ्कमानो वैदेहीं खादितां निहतां मृताम्स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत। ▼ Permalink Bookmark सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकांविज्ञाया ऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्।" ▼ Permalink Bookmark अतः परं दुहादिः ▼ Permalink Bookmark सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः ▼ Permalink Bookmark संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्प्राणान् दुहन्निवात्मानं शोकं चित्तमवारुधत्। ▼ Permalink Bookmark "गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्।आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा। ▼ Permalink Bookmark अतः परं प्रकीर्णकाः ▼ Permalink Bookmark आः, कष्टं, बत, हीचित्रं, हूं, मातर्, दैवतानि धिक्,हा पितः !, क्वा ऽसि हे सुभ्रु !," बह्वेवं विललाप सः, ▼ Permalink Bookmark इहासिष्ठा ऽशयिष्टेह सा, सखेलमितो ऽगमत्,अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः। ▼ Permalink Bookmark "इदं नक्तंतनं दाम पौष्पमेतद् दिवातनम्,शुचेवोद्बध्य शाखायां प्रग्लायति तया विना, ▼ Permalink Bookmark ऐक्षिष्महि मुहुः सुप्तां यां मृताशङ्कया वयम्,अकाले दुर्मरमहो, यज् जीवामस् तया विना, ▼ Permalink Bookmark अक्षेमः परिहासो ऽयं। परीक्षां मा कृथा मम,मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः, ▼ Permalink Bookmark अतः परं सिजधिकारः ▼ Permalink Bookmark अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये। ▼ Permalink Bookmark मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्। ▼ Permalink Bookmark ऐ वाचं देहि। धैर्यं नस् तव हेतोरसुस्रुवत्।त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः। ▼ Permalink Bookmark रुदतो ऽशिश्वयच् चक्षु रास्यं हेतोस् तवा ऽश्वयीत्,म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्। ▼ Permalink Bookmark लक्ष्मणाचक्ष्व, यद्याख्यत् सा किञ्चित् कोपकारणम्,दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम्। ▼ Permalink Bookmark इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः ▼ Permalink Bookmark तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्। ▼ Permalink Bookmark स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विनातथा ऽभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः ▼ Permalink Bookmark तथा र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति। ▼ Permalink Bookmark आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,"एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्, ▼ Permalink Bookmark स्वपोषमपुषद् युष्मान् या पक्षिमृगशावकाः !अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः।" ▼ Permalink Bookmark गिरिमन्वसृपद् रामो लिप्सुर् जनकसंभवाम्,तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत् ▼ Permalink Bookmark "सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः। ▼ Permalink Bookmark इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम् ▼ Permalink Bookmark मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्। ▼ Permalink Bookmark गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशाचरात्।" ▼ Permalink Bookmark क्रुद्धो ऽदीपि रघुव्याघ्रो, रक्तनेत्रो ऽजनि क्षणात्,उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानुवत्। ▼ Permalink Bookmark अताय्यस्योत्तमं सत्वमप्यायि कृतकृत्यवत्,उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्। ▼ Permalink Bookmark अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,समभावि च कोपेन, न्यश्वसीच् चायतं मुहुः। ▼ Permalink Bookmark अथालम्ब्य धनू रामो जगर्ज गजविक्रमः,"रुणध्मि सवितुर् मार्गं, भिनद्मि कुलपर्वतान्। ▼ Permalink Bookmark रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदाचरान्। ▼ Permalink Bookmark यमं युनज्मि कालेन समिन्धानो ऽस्त्रकौशलम्,शुष्कपेषं पिनष्म्युर्वीमखिन्दानः स्वतेजसा ▼ Permalink Bookmark भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,भनज्मि सर्वमर्यादास्, तनच्मि व्योम विस्तृतम् ▼ Permalink Bookmark न तृणेह्मीति लोको ऽयं मां विन्ते निष्पराक्रम्,"एवं वदन् दाशरथिरपृणग् धनुशा शरं। ▼ Permalink Bookmark न्यवर्तयत् सुमित्राभूस् तं चिकीर्षुं जगत्क्षयम्,ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम् ▼ Permalink Bookmark तं सीताघातिनं मत्वा हन्तुं रामो ऽभ्यधावत,"मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि।" ▼ Permalink Bookmark उपास्थितैवमुक्ते तं सखायं राघवः पितुः,पप्रच्छ जानकीवार्तां संग्रामं च पतत्रिणम्। ▼ Permalink Bookmark ततो रावणमाख्याय द्विषन्तं पततां वरः ▼ Permalink Bookmark व्रणवेदनया ग्लायन् ममार गिरिकन्दरे,तस्याग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर् वनम्। ▼ Permalink Bookmark सत्वानजस्रं घोरेण बलाऽपकर्षमश्नताक्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना। ▼ Permalink Bookmark भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,स छिन्नबाहुरपतद् विह्वलो ह्वलयन् भुवम्। ▼ Permalink Bookmark इति प्रकीर्णकाः ▼ Permalink Bookmark अथ कृत्याऽधिकारः ▼ Permalink Bookmark प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्आत्मानं वनवासं च जेयं चा ऽरिं रघूत्तमः ▼ Permalink Bookmark "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम।" ▼ Permalink Bookmark "अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन्,पापचर्यो मुनेः शापाज् जात" इत्यवदत् स तम्। ▼ Permalink Bookmark "प्रयातस् तव यम्यत्वं शस्त्रपूतो ब्रवीमि ते,रावणेन हृता सीता लङ्कां नीता सुरारिणा। ▼ Permalink Bookmark ऋष्यमूके ऽनवद्यो ऽस्ति पण्यभ्रातृवधः कपिःसुग्रीवो नाम, वर्यो ऽसौ भवता चारुविक्रमः। ▼ Permalink Bookmark तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्राक्षसं क्रूरकर्माणं शक्राऽरिं दूरवासिनम्। ▼ Permalink Bookmark आस्ते स्मरन् स कान्ताया हृताया वालिना कपिःवृषो यथोपसर्याया गोष्ठे गोर् दण्डताडितः। ▼ Permalink Bookmark तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्।लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि। ▼ Permalink Bookmark अनृतोद्यं न तत्रास्ति, सत्यवद्यं ब्रवीम्यहम्।मित्रभूयं गतस् तस्य रिपुहत्यां करिष्यसि। ▼ Permalink Bookmark आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतःइत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि। ▼ Permalink Bookmark नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्भृत्यशालिनः,मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते।" ▼ Permalink Bookmark स राजसूययाजीव तेजसा सूर्यसन्निभःअमृषोद्यं वदन् रुच्यो जगाहे द्यां निशाचरः ▼ Permalink Bookmark अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताःरत्नाऽन्नपानकुप्यानामाटतुर् नष्टसंस्मृती। ▼ Permalink Bookmark समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्सिध्यतारामिव ख्यातां शबरीमापतुर् वने। ▼ Permalink Bookmark वसानां वल्कले शूद्धे विपूयैः कृतमेखलाम्क्षामामञ्जनपिण्डाभा दण्दिनीमजिनास्तराम् ▼ Permalink Bookmark प्रगृह्यपदवत् साध्वीं स्पष्टरूपामविक्रियाम्अगृह्यां वीतकामत्वाद् देवगृह्यामनिन्दिताम् ▼ Permalink Bookmark धर्मकृत्यरतां नित्यमकृष्यफलभोजनाम्दृष्ट्वा ताममुचद् रामो युग्यायात इव श्रमम्। ▼ Permalink Bookmark स तामूचे ऽथ"कच्चित् त्वममावास्यासमन्वयेपित् णां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः ▼ Permalink Bookmark अवश्यपाव्यं पवसे कच्चित् त्वं देवभाग्घ्विः,आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि। ▼ Permalink Bookmark आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,कच्चिदग्निमिवानाय्यं काले संमन्यसे ऽतिथिम्। ▼ Permalink Bookmark न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठतिदेवकार्यविघाताय धर्मद्रोही महोदये ! ▼ Permalink Bookmark कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथाकथाभी रमसे नित्यमुपचाय्यवतां शुभे ! ▼ Permalink Bookmark अथ प्रकीर्णकाः ▼ Permalink Bookmark वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान्,अजैषीः कामसंमोहौ, संप्राप्था विनयेन वा। ▼ Permalink Bookmark नायस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषःयमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः" ▼ Permalink Bookmark अथाऽर्ध्यं मधुपर्काद्यमुपनीयादरादसौअर्चयित्वा फलैरर्च्यौ सर्वत्राख्यदनामयम्। ▼ Permalink Bookmark अतः परं कृदधिकारः ▼ Permalink Bookmark "सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः,द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्। ▼ Permalink Bookmark नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ। ▼ Permalink Bookmark "भृङ्गालीकोकिलक्रुङ्भिर् वाशनैः पश्य लक्ष्मण !रोचनैर् भूषितां पम्पा मस्माकं हृदयाविधम् ▼ Permalink Bookmark परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम् ▼ Permalink Bookmark सर्वत्र दयिताऽधीनं सुव्यक्तं रामणीयकम्येन जातं प्रियाऽपाये कद्वदं हंसकोकिलम्। ▼ Permalink Bookmark पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैःअज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः। ▼ Permalink Bookmark ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्आजिघ्रैः पुष्पगन्धानां पतगैर् ग्लपिता वयम्। ▼ Permalink Bookmark धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्शाखिभिर् हा हता भूयो हृदयानामुदेजयैः ▼ Permalink Bookmark ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः। ▼ Permalink Bookmark अवश्यायकणास्रावाश् चारुमुक्ताफलत्विषःकुर्वन्ति चित्तसंस्रावं चलत्पर्णाऽग्रसंभृताः ▼ Permalink Bookmark अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,न जीवस्या ऽवहारो मां करोति सुखिनं यमः ▼ Permalink Bookmark दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,नायः कोऽत्र स, येन स्यां बता ऽहं विगतज्वरः ▼ Permalink Bookmark समाविष्टं ग्रहेणेव ग्राहेणेवात्तमर्णवेदृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम् ▼ Permalink Bookmark वाताहतिचलच्छाखा नर्तका इव शाखिनःदुःसहा ही परिक्षिप्ताः क्वणद्भिरलिगाथकैः। ▼ Permalink Bookmark एकहायनसारङ्गगती रघुकुलोत्तमौलवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम्। ▼ Permalink Bookmark तौ वालिप्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,"बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्।" ▼ Permalink Bookmark स शत्रुलावौ मन्वानो राघवौ मलयं गिरिम्जगाम सपरीवारो व्योममायमिवोत्थितम्। ▼ Permalink Bookmark शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्शोकाऽपनुदमव्यग्रं प्रायुङ्क्त कपिकुञ्जरः। ▼ Permalink Bookmark विश्वासप्रदवेषो ऽसौ पथिप्रज्ञः समाहितःचित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम् ▼ Permalink Bookmark सुरापैरिव घूर्णद्भिः शाखिभिः पवनाहतैःऋष्यमूकमगाद् भृङ्गैः प्रगीतं सामगैरिव। ▼ Permalink Bookmark तं मनोहरमागत्य गिरिं वर्महरौ कपिःवीरौ सुखाहरो ऽवोचद् भिक्षुर् भिक्षार्हविग्रहः। ▼ Permalink Bookmark "बलिनावमूमद्रीन्द्रं युवां स्तम्बेरमाविवआचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम् ▼ Permalink Bookmark व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिः सनिशाचरैःतुङ्गशैलतरुछन्नं मानुषाणामगोचरम्। ▼ Permalink Bookmark सत्वमेजयसिंहाढ्यान् स्तनंधायसमत्विषौकथं नाडिंधमान् मार्गानागतौ विषमोपलान्। ▼ Permalink Bookmark अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः। ▼ Permalink Bookmark रामो ऽवोचद्धनूमन्तम् "आवामभ्रंलिहं गिरिम्ऐव विद्वन्! पितुः कामात् पान्तावल्पंपचान् मुनीन्। ▼ Permalink Bookmark अमितंपचमीशानं सर्वभोगीणमुत्तमम्आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि। ▼ Permalink Bookmark छलेन दयिता ऽरण्याद् रक्षसा ऽरुंतुदेन नःअसूर्यंपश्यया मूर्त्या हृता, तां मृगयावहे।" ▼ Permalink Bookmark प्रत्यूचे मारुति रामम् "अस्ति वालीति वानरः"शमयेदपि संग्रामे यो ललाटंतपं रविम्। ▼ Permalink Bookmark उग्रंपश्येन सुग्रीवस् तेन भ्राता निराकृतः,तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशंवदः ▼ Permalink Bookmark प्रियंवदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परंतप !,सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम्। ▼ Permalink Bookmark वाचंयमोऽहमनृते सत्यमेतद् ब्रवीमि ते,एहि, सर्वंसहं मित्रं सुग्रीवं कुरु वानरम्।" ▼ Permalink Bookmark सर्वंकषयशःशाखं रामकल्पतरुं कपिःआदायाऽ भ्रंकषं प्रायान् मलयं फलशालिनम्। ▼ Permalink Bookmark मेघंकरमिवायान्तमृतुं रामं क्लमान्विताःदृष्ट्वा मेने नसुग्रीवो वालिभानुं भयंकरम्। ▼ Permalink Bookmark उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियंकरौ,क्षेमंकराणि कार्याणि पर्यालोचयतां ततः। ▼ Permalink Bookmark आशितंभवमुत्क्रुष्टं वल्गितं शयितं स्थितम्बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम् ▼ Permalink Bookmark ततो बलिंदमप्रख्यं कपिविश्वंभराऽधिपम्सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम् ▼ Permalink Bookmark "वसुंधरायां कृत्स्नायां नाऽस्ति वालिसमो बली,हृदयंगममेतत् त्वां ब्रवीमि, न पराभवम्। ▼ Permalink Bookmark दूरगैरन्तगैर् बाणैर् भवानत्यन्तगः श्रियःअपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः ▼ Permalink Bookmark वरेण तु मुनेर् वाली संजातो दस्युहो रणेअवार्यप्रसरः प्रातरुद्यन्निव तमोऽपहः ▼ Permalink Bookmark अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यतेचेतो वालिवधं राम ! क्लेशापहमुपस्थितम्। ▼ Permalink Bookmark शीर्षघातिनमायातमरीणां त्वां विलोकयन्पतिघ्नीलक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्। ▼ Permalink Bookmark शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्नकृत्रिमान्शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपायवान्। ▼ Permalink Bookmark आढ्यंकरणविक्रान्तो महिषस्य सुरद्विषःप्रियंकरणमिन्द्रस्य दुष्करं कृतवान् वधम्। ▼ Permalink Bookmark प्रियंभावुकतां यातस् तं क्षिपन् योजनं मृतम्स्वर्गे प्रियंभविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्", ▼ Permalink Bookmark जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेःअभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्। ▼ Permalink Bookmark ततो वालिपशौ वध्ये रामर्त्विग्जितसाध्वसःअभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्। ▼ Permalink Bookmark गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्भ्रातरं युङ् भियः संख्ये घोषेणापूरयन् दिशः ▼ Permalink Bookmark व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोःबाणमुद्यतमायंसीदिक्ष्वाकुकुलनन्दनः। ▼ Permalink Bookmark ऋष्यमूकमगात् क्लन्तः कपिर् मृगसदृग् द्रुतम्किष्किन्धाऽद्रिसदात्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्। ▼ Permalink Bookmark कृत्वा वालिद्रुहं रामो मालया सविशेषणम्।अङ्गदस्वं पुनर् हन्तुं कपिघ्नाह्वाययद् रणे। ▼ Permalink Bookmark तयोर् वानरसेनान्योः संप्रहारे तनुच्छिदम्वालिनो दूरभाग् रामो बाणं प्राणाऽदमत्यजत् ▼ Permalink Bookmark वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम्बान्धवाक्रोशिनो भेजुरनाथाः ककुभो दश ▼ Permalink Bookmark धिग् दाशरथिमित्यूचुर् मुनयो वनवर्तिनः।उपेयुर् मधुपायिन्यः क्रोशन्त्यस् तं कपिस्त्रियः। ▼ Permalink Bookmark राममुच्चैरुपालब्ध शूरमानी कपिप्रभुःव्रणवेदनया ग्लायन्साधुंमन्यमसाधुवत्। ▼ Permalink Bookmark "मृषा ऽसि त्वं हविर्याजी राघव ! छद्मतापसःअन्यव्यासक्तघातित्वाद् ब्रह्मघ्नां पापसंमितः। ▼ Permalink Bookmark पापकृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतःमामपापं दुराचार ! किं निहत्या ऽभिधास्यसि। ▼ Permalink Bookmark अग्निचित् सोमसुद् राजा रथचक्रचिदादिषुअनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता। ▼ Permalink Bookmark मांसविक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्मां घ्नता भवता ऽकारि निःषङ्कं पापदृष्वना। ▼ Permalink Bookmark बुद्धिपूर्वं ध्रुवन् न त्वा राजकृत्वा पिता खलम्सहयुध्वानमन्येन यो ऽहिनो मामनागसम् ▼ Permalink Bookmark पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर् द्विजैः,कौशल्याज ! शशादीनां तेषां नैको ऽप्यहं कपिः। ▼ Permalink Bookmark कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा। ▼ Permalink Bookmark मन्ये किंजमहं घ्नन्तं त्वामक्षत्त्रियजे रणेलक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः"। ▼ Permalink Bookmark प्रत्यूचे वालिनं रामो"ना ऽकृतं कृतवानहम्यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर ! ▼ Permalink Bookmark ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्ऊषुषां परदारैश् च सार्धं निधनमैषिषुः। ▼ Permalink Bookmark अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसाउपेयिवाननूचानैर् निन्दितस्त्वं लतामृग ! ▼ Permalink Bookmark अन्वनैषीत् ततो वाली त्रपावानिव राघवम्।न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं ▼ Permalink Bookmark म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः"संभाविष्याव एकस्यामभिजानासि मातरि। ▼ Permalink Bookmark अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्। ▼ Permalink Bookmark दैवं न विदधे नूनं युगपत् सुखमावयोः,शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्। ▼ Permalink Bookmark ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,राज्यं संदिश्य भोगाम्श् च ममार व्रणपीडितः ▼ Permalink Bookmark तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञयाकिष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम् ▼ Permalink Bookmark नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता दन्वग्भावं रघुवृषभयोर् वानरेन्द्रो विराजन्अभ्यर्णे ऽम्भःपतनसमये पर्णलीभूतसानुं किष्किन्धाद्रिं न्यविशत मधुक्षीबगुञ्जद्द्विरेफम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha