ओषांचकार कामाऽग्निर् दशावक्त्रमहर्निशम्।विदांचकार वैदेहीं रामादन्यनिरुत्सुकाम्।
प्रजागरांचकारारेरीहास्वनिशमादरात्,प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः।
न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः।नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्।
विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्।
रामो ऽपि हतमारीचो निवर्त्स्यन् खरनादिनःक्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभशंसिनः
आशङ्कमानो वैदेहीं खादितां निहतां मृताम्स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत।
सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकांविज्ञाया ऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्।"
सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः
संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्प्राणान् दुहन्निवात्मानं शोकं चित्तमवारुधत्।
"गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्।आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा।
आः, कष्टं, बत, हीचित्रं, हूं, मातर्, दैवतानि धिक्,हा पितः !, क्वा ऽसि हे सुभ्रु !," बह्वेवं विललाप सः,
इहासिष्ठा ऽशयिष्टेह सा, सखेलमितो ऽगमत्,अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः।
"इदं नक्तंतनं दाम पौष्पमेतद् दिवातनम्,शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,
ऐक्षिष्महि मुहुः सुप्तां यां मृताशङ्कया वयम्,अकाले दुर्मरमहो, यज् जीवामस् तया विना,
अक्षेमः परिहासो ऽयं। परीक्षां मा कृथा मम,मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,
अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये।
मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्।
ऐ वाचं देहि। धैर्यं नस् तव हेतोरसुस्रुवत्।त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः।
रुदतो ऽशिश्वयच् चक्षु रास्यं हेतोस् तवा ऽश्वयीत्,म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्।
लक्ष्मणाचक्ष्व, यद्याख्यत् सा किञ्चित् कोपकारणम्,दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम्।
इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः
तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्।
स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विनातथा ऽभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः
तथा र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति।
आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,"एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,
स्वपोषमपुषद् युष्मान् या पक्षिमृगशावकाः !अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः।"
गिरिमन्वसृपद् रामो लिप्सुर् जनकसंभवाम्,तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत्
"सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः।
इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्
मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्।
गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशाचरात्।"
क्रुद्धो ऽदीपि रघुव्याघ्रो, रक्तनेत्रो ऽजनि क्षणात्,उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानुवत्।
अताय्यस्योत्तमं सत्वमप्यायि कृतकृत्यवत्,उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्।
अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,समभावि च कोपेन, न्यश्वसीच् चायतं मुहुः।
अथालम्ब्य धनू रामो जगर्ज गजविक्रमः,"रुणध्मि सवितुर् मार्गं, भिनद्मि कुलपर्वतान्।
रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदाचरान्।
यमं युनज्मि कालेन समिन्धानो ऽस्त्रकौशलम्,शुष्कपेषं पिनष्म्युर्वीमखिन्दानः स्वतेजसा
भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,भनज्मि सर्वमर्यादास्, तनच्मि व्योम विस्तृतम्
न तृणेह्मीति लोको ऽयं मां विन्ते निष्पराक्रम्,"एवं वदन् दाशरथिरपृणग् धनुशा शरं।
न्यवर्तयत् सुमित्राभूस् तं चिकीर्षुं जगत्क्षयम्,ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्
तं सीताघातिनं मत्वा हन्तुं रामो ऽभ्यधावत,"मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि।"
उपास्थितैवमुक्ते तं सखायं राघवः पितुः,पप्रच्छ जानकीवार्तां संग्रामं च पतत्रिणम्।
ततो रावणमाख्याय द्विषन्तं पततां वरः
व्रणवेदनया ग्लायन् ममार गिरिकन्दरे,तस्याग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर् वनम्।
सत्वानजस्रं घोरेण बलाऽपकर्षमश्नताक्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना।
भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,स छिन्नबाहुरपतद् विह्वलो ह्वलयन् भुवम्।
प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्आत्मानं वनवासं च जेयं चा ऽरिं रघूत्तमः
"लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम।"
"अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन्,पापचर्यो मुनेः शापाज् जात" इत्यवदत् स तम्।
"प्रयातस् तव यम्यत्वं शस्त्रपूतो ब्रवीमि ते,रावणेन हृता सीता लङ्कां नीता सुरारिणा।
ऋष्यमूके ऽनवद्यो ऽस्ति पण्यभ्रातृवधः कपिःसुग्रीवो नाम, वर्यो ऽसौ भवता चारुविक्रमः।
तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्राक्षसं क्रूरकर्माणं शक्राऽरिं दूरवासिनम्।
आस्ते स्मरन् स कान्ताया हृताया वालिना कपिःवृषो यथोपसर्याया गोष्ठे गोर् दण्डताडितः।
तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्।लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि।
अनृतोद्यं न तत्रास्ति, सत्यवद्यं ब्रवीम्यहम्।मित्रभूयं गतस् तस्य रिपुहत्यां करिष्यसि।
आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतःइत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि।
नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्भृत्यशालिनः,मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते।"
स राजसूययाजीव तेजसा सूर्यसन्निभःअमृषोद्यं वदन् रुच्यो जगाहे द्यां निशाचरः
अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताःरत्नाऽन्नपानकुप्यानामाटतुर् नष्टसंस्मृती।
समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्सिध्यतारामिव ख्यातां शबरीमापतुर् वने।
वसानां वल्कले शूद्धे विपूयैः कृतमेखलाम्क्षामामञ्जनपिण्डाभा दण्दिनीमजिनास्तराम्
प्रगृह्यपदवत् साध्वीं स्पष्टरूपामविक्रियाम्अगृह्यां वीतकामत्वाद् देवगृह्यामनिन्दिताम्
धर्मकृत्यरतां नित्यमकृष्यफलभोजनाम्दृष्ट्वा ताममुचद् रामो युग्यायात इव श्रमम्।
स तामूचे ऽथ"कच्चित् त्वममावास्यासमन्वयेपित् णां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः
अवश्यपाव्यं पवसे कच्चित् त्वं देवभाग्घ्विः,आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि।
आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,कच्चिदग्निमिवानाय्यं काले संमन्यसे ऽतिथिम्।
न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठतिदेवकार्यविघाताय धर्मद्रोही महोदये !
कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथाकथाभी रमसे नित्यमुपचाय्यवतां शुभे !
वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान्,अजैषीः कामसंमोहौ, संप्राप्था विनयेन वा।
नायस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषःयमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः"
अथाऽर्ध्यं मधुपर्काद्यमुपनीयादरादसौअर्चयित्वा फलैरर्च्यौ सर्वत्राख्यदनामयम्।
"सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः,द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्।
नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ।
"भृङ्गालीकोकिलक्रुङ्भिर् वाशनैः पश्य लक्ष्मण !रोचनैर् भूषितां पम्पा मस्माकं हृदयाविधम्
परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम्
सर्वत्र दयिताऽधीनं सुव्यक्तं रामणीयकम्येन जातं प्रियाऽपाये कद्वदं हंसकोकिलम्।
पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैःअज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः।
ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्आजिघ्रैः पुष्पगन्धानां पतगैर् ग्लपिता वयम्।
धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्शाखिभिर् हा हता भूयो हृदयानामुदेजयैः
ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः।
अवश्यायकणास्रावाश् चारुमुक्ताफलत्विषःकुर्वन्ति चित्तसंस्रावं चलत्पर्णाऽग्रसंभृताः
अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,न जीवस्या ऽवहारो मां करोति सुखिनं यमः
दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,नायः कोऽत्र स, येन स्यां बता ऽहं विगतज्वरः
समाविष्टं ग्रहेणेव ग्राहेणेवात्तमर्णवेदृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम्
वाताहतिचलच्छाखा नर्तका इव शाखिनःदुःसहा ही परिक्षिप्ताः क्वणद्भिरलिगाथकैः।
एकहायनसारङ्गगती रघुकुलोत्तमौलवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम्।
तौ वालिप्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,"बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्।"
स शत्रुलावौ मन्वानो राघवौ मलयं गिरिम्जगाम सपरीवारो व्योममायमिवोत्थितम्।
शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्शोकाऽपनुदमव्यग्रं प्रायुङ्क्त कपिकुञ्जरः।
विश्वासप्रदवेषो ऽसौ पथिप्रज्ञः समाहितःचित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम्
सुरापैरिव घूर्णद्भिः शाखिभिः पवनाहतैःऋष्यमूकमगाद् भृङ्गैः प्रगीतं सामगैरिव।
तं मनोहरमागत्य गिरिं वर्महरौ कपिःवीरौ सुखाहरो ऽवोचद् भिक्षुर् भिक्षार्हविग्रहः।
"बलिनावमूमद्रीन्द्रं युवां स्तम्बेरमाविवआचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम्
व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिः सनिशाचरैःतुङ्गशैलतरुछन्नं मानुषाणामगोचरम्।
सत्वमेजयसिंहाढ्यान् स्तनंधायसमत्विषौकथं नाडिंधमान् मार्गानागतौ विषमोपलान्।
अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः।
रामो ऽवोचद्धनूमन्तम् "आवामभ्रंलिहं गिरिम्ऐव विद्वन्! पितुः कामात् पान्तावल्पंपचान् मुनीन्।
अमितंपचमीशानं सर्वभोगीणमुत्तमम्आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि।
छलेन दयिता ऽरण्याद् रक्षसा ऽरुंतुदेन नःअसूर्यंपश्यया मूर्त्या हृता, तां मृगयावहे।"
प्रत्यूचे मारुति रामम् "अस्ति वालीति वानरः"शमयेदपि संग्रामे यो ललाटंतपं रविम्।
उग्रंपश्येन सुग्रीवस् तेन भ्राता निराकृतः,तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशंवदः
प्रियंवदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परंतप !,सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम्।
वाचंयमोऽहमनृते सत्यमेतद् ब्रवीमि ते,एहि, सर्वंसहं मित्रं सुग्रीवं कुरु वानरम्।"
सर्वंकषयशःशाखं रामकल्पतरुं कपिःआदायाऽ भ्रंकषं प्रायान् मलयं फलशालिनम्।
मेघंकरमिवायान्तमृतुं रामं क्लमान्विताःदृष्ट्वा मेने नसुग्रीवो वालिभानुं भयंकरम्।
उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियंकरौ,क्षेमंकराणि कार्याणि पर्यालोचयतां ततः।
आशितंभवमुत्क्रुष्टं वल्गितं शयितं स्थितम्बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्
ततो बलिंदमप्रख्यं कपिविश्वंभराऽधिपम्सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्
"वसुंधरायां कृत्स्नायां नाऽस्ति वालिसमो बली,हृदयंगममेतत् त्वां ब्रवीमि, न पराभवम्।
दूरगैरन्तगैर् बाणैर् भवानत्यन्तगः श्रियःअपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः
वरेण तु मुनेर् वाली संजातो दस्युहो रणेअवार्यप्रसरः प्रातरुद्यन्निव तमोऽपहः
अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यतेचेतो वालिवधं राम ! क्लेशापहमुपस्थितम्।
शीर्षघातिनमायातमरीणां त्वां विलोकयन्पतिघ्नीलक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्।
शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्नकृत्रिमान्शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपायवान्।
आढ्यंकरणविक्रान्तो महिषस्य सुरद्विषःप्रियंकरणमिन्द्रस्य दुष्करं कृतवान् वधम्।
प्रियंभावुकतां यातस् तं क्षिपन् योजनं मृतम्स्वर्गे प्रियंभविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्",
जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेःअभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्।
ततो वालिपशौ वध्ये रामर्त्विग्जितसाध्वसःअभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्।
गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्भ्रातरं युङ् भियः संख्ये घोषेणापूरयन् दिशः
व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोःबाणमुद्यतमायंसीदिक्ष्वाकुकुलनन्दनः।
ऋष्यमूकमगात् क्लन्तः कपिर् मृगसदृग् द्रुतम्किष्किन्धाऽद्रिसदात्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्।
कृत्वा वालिद्रुहं रामो मालया सविशेषणम्।अङ्गदस्वं पुनर् हन्तुं कपिघ्नाह्वाययद् रणे।
तयोर् वानरसेनान्योः संप्रहारे तनुच्छिदम्वालिनो दूरभाग् रामो बाणं प्राणाऽदमत्यजत्
वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम्बान्धवाक्रोशिनो भेजुरनाथाः ककुभो दश
धिग् दाशरथिमित्यूचुर् मुनयो वनवर्तिनः।उपेयुर् मधुपायिन्यः क्रोशन्त्यस् तं कपिस्त्रियः।
राममुच्चैरुपालब्ध शूरमानी कपिप्रभुःव्रणवेदनया ग्लायन्साधुंमन्यमसाधुवत्।
"मृषा ऽसि त्वं हविर्याजी राघव ! छद्मतापसःअन्यव्यासक्तघातित्वाद् ब्रह्मघ्नां पापसंमितः।
पापकृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतःमामपापं दुराचार ! किं निहत्या ऽभिधास्यसि।
अग्निचित् सोमसुद् राजा रथचक्रचिदादिषुअनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता।
मांसविक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्मां घ्नता भवता ऽकारि निःषङ्कं पापदृष्वना।
बुद्धिपूर्वं ध्रुवन् न त्वा राजकृत्वा पिता खलम्सहयुध्वानमन्येन यो ऽहिनो मामनागसम्
पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर् द्विजैः,कौशल्याज ! शशादीनां तेषां नैको ऽप्यहं कपिः।
कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा।
मन्ये किंजमहं घ्नन्तं त्वामक्षत्त्रियजे रणेलक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः"।
प्रत्यूचे वालिनं रामो"ना ऽकृतं कृतवानहम्यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर !
ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्ऊषुषां परदारैश् च सार्धं निधनमैषिषुः।
अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसाउपेयिवाननूचानैर् निन्दितस्त्वं लतामृग !
अन्वनैषीत् ततो वाली त्रपावानिव राघवम्।न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं
म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः"संभाविष्याव एकस्यामभिजानासि मातरि।
अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्।
दैवं न विदधे नूनं युगपत् सुखमावयोः,शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्।
ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,राज्यं संदिश्य भोगाम्श् च ममार व्रणपीडितः
तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञयाकिष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्
नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता दन्वग्भावं रघुवृषभयोर् वानरेन्द्रो विराजन्अभ्यर्णे ऽम्भःपतनसमये पर्णलीभूतसानुं किष्किन्धाद्रिं न्यविशत मधुक्षीबगुञ्जद्द्विरेफम्।