This text does not support clickable word meanings.

अपमन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्"अशोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्।
तं नो देवा विधेयासुर् येन रावणवद् वयम्सपत्नांश् च ऽधिजीयास्म, संग्रामे च मृषीमहि।
क्रियेरंश् च दशास्येन यथा ऽन्येना ऽपि नः कुलेदेवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः।
स एव घारयेत् प्राणानीदृशे बन्धुविप्लवे,भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः।
म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,आशंसा च हि नः, प्रेते जीवेमदशमूर्धनि।
प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,यत्र विंशतिहस्तस्य न सोदर्यस्य सम्भवः।"
आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणः"गच्छेत त्वरितं लङ्कां, राजवेश्म विशेत च।
आददीध्वं महाऽर्हाणि तत्र वासांसि सत्वराःउद्धुनीयात सत्केतून्, निर्हरेताऽग्र्यचन्दनम्।
मुञ्चेताकाशधूपांश्च, ग्रथ्नीयात स्रजः शुभाः,आनयेता ऽमितं दारु कर्पूराऽगुरुकुङ्कुमम्।
उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः,भ्रियेत चाज्यमृत्विग्भिः, कल्प्येत च समित्कुशम्।
स्नानीयैः स्नापयेताशु, रम्यैर् लिम्पेत वर्णकैः,अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाननम्।
वासयेत सुवासोभ्यां मेध्याभ्यां राक्षसाधिपम्,ऋत्विक् स्रग्विणमादध्यात् प्राङ्मूर्धानं मृगाऽजिने।
यज्ञपात्राणि गोत्रेषु चिनुयाच् च यथाविधि,जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः।"
गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्समीपेऽन्त्याहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्
"कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्निजलक्रियाम्प्रयतेथा महाराज ! सह सर्वैः स्वबन्धुभिः।
अज्ञावन् नोत्सहेथास् त्वं, धेया धीरत्वमच्युतम्,स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः।
नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपिन पृथग्जनवज् जातु प्रमुह्येत् पण्डितो जनः।
यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न,यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्।
आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्रपुरोहितम्।
कामो जनस्य"जह्यास् त्वं प्रमादं नैरृताऽधिप !"उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः।
स भवान् भ्रातृवद् रक्षेद् यथावदखिलं जनम्,न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः,
ततः स गतवान् कर्तुं भ्रातुरग्निजलक्रियाम्।प्रोक्तवान् कृतकर्तव्यं वचो रामोऽथ राक्षसम्।
अम्भांसि रुक्मकुम्भेन सिञ्चन् मूर्धि समाधिमान्"त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषन ?
क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः।
इच्छा मे परमा, नन्देः कथं त्वं वृत्रशत्रुवत्,इच्छेद्धि सुहृदं सर्वो वृद्धिसंस्थं यतः सुहृत्।
वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपुसंहतीः,भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ।
धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,सोमं पेयाश् च, हेयाश् च हिंस्रा हानिकरीः क्रियाः
अवसेयाश् च कार्याणि धर्मेण पुरवासिनाम्,अनुरागं क्रिया राजन् ! सदा सर्वगतं जने।
घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते।
मन्युं वध्या भटवधकृतं बालवृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सुधियः सन्निधिं ते क्रियासुः,संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे, संभुत्सीष्ठाः सुनयनयनैर् विद्विषामीहितानि।"