१९ भट्टिकाव्यम् This text does not support clickable word meanings. अपमन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्"अशोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्। ▼ Permalink Bookmark तं नो देवा विधेयासुर् येन रावणवद् वयम्सपत्नांश् च ऽधिजीयास्म, संग्रामे च मृषीमहि। ▼ Permalink Bookmark क्रियेरंश् च दशास्येन यथा ऽन्येना ऽपि नः कुलेदेवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः। ▼ Permalink Bookmark स एव घारयेत् प्राणानीदृशे बन्धुविप्लवे,भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः। ▼ Permalink Bookmark म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,आशंसा च हि नः, प्रेते जीवेमदशमूर्धनि। ▼ Permalink Bookmark प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,यत्र विंशतिहस्तस्य न सोदर्यस्य सम्भवः।" ▼ Permalink Bookmark आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणः"गच्छेत त्वरितं लङ्कां, राजवेश्म विशेत च। ▼ Permalink Bookmark आददीध्वं महाऽर्हाणि तत्र वासांसि सत्वराःउद्धुनीयात सत्केतून्, निर्हरेताऽग्र्यचन्दनम्। ▼ Permalink Bookmark मुञ्चेताकाशधूपांश्च, ग्रथ्नीयात स्रजः शुभाः,आनयेता ऽमितं दारु कर्पूराऽगुरुकुङ्कुमम्। ▼ Permalink Bookmark उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः,भ्रियेत चाज्यमृत्विग्भिः, कल्प्येत च समित्कुशम्। ▼ Permalink Bookmark स्नानीयैः स्नापयेताशु, रम्यैर् लिम्पेत वर्णकैः,अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाननम्। ▼ Permalink Bookmark वासयेत सुवासोभ्यां मेध्याभ्यां राक्षसाधिपम्,ऋत्विक् स्रग्विणमादध्यात् प्राङ्मूर्धानं मृगाऽजिने। ▼ Permalink Bookmark यज्ञपात्राणि गोत्रेषु चिनुयाच् च यथाविधि,जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः।" ▼ Permalink Bookmark गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्समीपेऽन्त्याहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम् ▼ Permalink Bookmark "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्निजलक्रियाम्प्रयतेथा महाराज ! सह सर्वैः स्वबन्धुभिः। ▼ Permalink Bookmark अज्ञावन् नोत्सहेथास् त्वं, धेया धीरत्वमच्युतम्,स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः। ▼ Permalink Bookmark नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपिन पृथग्जनवज् जातु प्रमुह्येत् पण्डितो जनः। ▼ Permalink Bookmark यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न,यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्। ▼ Permalink Bookmark आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्रपुरोहितम्। ▼ Permalink Bookmark कामो जनस्य"जह्यास् त्वं प्रमादं नैरृताऽधिप !"उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः। ▼ Permalink Bookmark स भवान् भ्रातृवद् रक्षेद् यथावदखिलं जनम्,न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः, ▼ Permalink Bookmark ततः स गतवान् कर्तुं भ्रातुरग्निजलक्रियाम्।प्रोक्तवान् कृतकर्तव्यं वचो रामोऽथ राक्षसम्। ▼ Permalink Bookmark अम्भांसि रुक्मकुम्भेन सिञ्चन् मूर्धि समाधिमान्"त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषन ? ▼ Permalink Bookmark क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः। ▼ Permalink Bookmark इच्छा मे परमा, नन्देः कथं त्वं वृत्रशत्रुवत्,इच्छेद्धि सुहृदं सर्वो वृद्धिसंस्थं यतः सुहृत्। ▼ Permalink Bookmark वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपुसंहतीः,भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ। ▼ Permalink Bookmark धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,सोमं पेयाश् च, हेयाश् च हिंस्रा हानिकरीः क्रियाः ▼ Permalink Bookmark अवसेयाश् च कार्याणि धर्मेण पुरवासिनाम्,अनुरागं क्रिया राजन् ! सदा सर्वगतं जने। ▼ Permalink Bookmark घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते। ▼ Permalink Bookmark मन्युं वध्या भटवधकृतं बालवृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सुधियः सन्निधिं ते क्रियासुः,संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे, संभुत्सीष्ठाः सुनयनयनैर् विद्विषामीहितानि।" ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha