अथा ऽस्तमासेदुषि मन्दकान्तौ पुण्यक्षयेणेव निधौ कलानाम्समाललम्बे रिपुमित्रकल्पैः पद्मैः प्रहासः कुमुदैर् विषादः
दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्बद्धा ऽनुरागो ऽनुपपात तूर्णं तारागणः संभृतशुभ्रकीर्तिः।
क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वालङ्काऽङ्गनानामवबोधकाले लुलामनारुह्य गतो ऽस्तमिन्दुः।
मानेन तल्पेष्वयथामुखीना मिथ्याप्रसुप्तैर् गमितत्रियामाःस्त्रीभिर् निशाऽतिक्रमविह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः।
ईर्श्याविरुग्णाः स्थिरबद्धमूला निरस्तनिःशेषशुभप्रतानाःआप्यायिता नेत्रजलप्रसेकैः प्रेमद्रुमाः संरुरुहुः प्रियाणाम्।
ततः समाशङ्कितविप्रयोगः पुनर्नवीभूतरसो ऽवितृष्णःस्मरस्य सन्तं पुनरुक्तभावं नावर्तमानस्य विवेद लोकः।
वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रियसंभवेनसंकोचमेवा ऽसहमानमस्था दशक्तवद् वञ्चितमानि चक्षुः
पीने भटस्योरसि वीक्ष्य भुग्नांस् तनुत्वचः पाणिरुहान् सुमध्याइच्छाविभङ्गाकुलमानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे।
स्रस्ताऽङ्गचेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बुरोमोद्गमगम्यजीवःअशेषनष्टप्रतिभापटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्।
तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,किं तत् कथं वेत्युपलब्धसंज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः।
वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्नमन्दम्स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा।
स्रस्ताऽङ्गयष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षीअनूढमाना शयने नवोढा परोपकारैकरसैव तस्थौ।
आलिङ्गितायाः सहसा त्रपावांस् त्रासाऽभिलाषाऽनुगतो रतादौविश्वासिताया रमणेन वध्वा विमर्दरम्योमदनो बभूव।
सामोन्मुखेनाच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदेअन्तःप्रकोपाऽपगमाद् विलोला वशीकृता केवलविक्रमेण।
गुरुर् दधाना परुषत्वमन्या कान्ता ऽपि कान्तेन्दुकराऽभिमृष्टाप्रह्लादिता चन्द्रशिलेव तूर्णं क्षोभात् स्रवत्स्वेदजला बभूव।
शशाङ्कनाथाऽपगमेन धूम्रां मूर्च्छापरीतामिव निर्विवेकाम्ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः
अवीततृष्णो ऽथ परस्परेण क्षणादिवायातनिशाऽवसानःदुःखेन लोकः परवानिवा ऽगात् समुत्सुकः स्वप्ननिकेतनेभ्यः
अर्धोत्थितालिङ्गितसन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुःव्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्यकार्यः स्थित एव कश्चित्।
तालेन संपादितसाम्यशोभं शुभाऽवधानं स्वरबद्धरागम्पदैर् गताऽर्थं नृपमन्दिरेषु प्रातर् जगुर् मङ्गलवत् तरुण्यः।
दुरुत्तरे पङ्क इवा ऽन्धकारे मग्नं जगत् सन्ततरश्मिरज्जुःप्रनष्टमूर्तिप्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्।
पीतौष्ठरागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानिप्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि।
प्रजागराताम्रविलोचनाऽन्ता निरञ्जनाऽलक्तकपत्रलेखाःतुल्या इवासन् परिखेदतन्व्यो वासच्युताः सेवितमन्मथाभिः
आबद्धनेत्राऽञ्जनपङ्कलेशस् ताम्बूलरागं बहुलं दधानःचकार कान्तो ऽप्यधरो ऽङ्गनानां सहोषितानां पतिभिर् लघुत्वम्।
चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूलरक्तं च सरागमोष्ठम्कुर्वन् सवासं च सुगन्धि वक्त्रं चक्रे जनः केवलपक्षपातम्।
क्षतैरसंचेतितदन्तलब्धैः संभोगकाले ऽवगतैः प्रभातेअशङ्कता ऽन्योन्यकृतं व्यलीकं वियोगबाह्यो ऽपि जनो ऽतिरागात्
नेत्रेषुभिः संयुतपक्ष्मपत्रैः कर्णाऽन्तकृष्टैरुरुकेशशूलाःस्तनोरुचक्रास् ततकर्णपाशाः स्त्रीयोद्धमुख्या जयिनो विचेरुः
पयोधरांश् चन्दनपङ्कदिग्धान् वासांसि चा ऽमृष्टमृजानि दृष्ट्वास्त्रीणां सपत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः
स्मरातुरे चेतसि लब्धजन्मा रराज लोलोऽपि गुणाऽपहार्यःकुतूहलान् नेत्रगवाक्षसंस्थः पश्यन्निवा ऽन्योन्यमुखानि रागः
गते ऽतिभूमिं प्रणये प्रयुक्ता नबुद्धिपूर्वं परिलुप्तसंज्ञःआत्माऽनुभूतानपि नोपचारान् स्मरातुरः संस्मरति स्म लोकः
वस्त्रैरनत्युल्बणरम्यवर्णैर् विलेपनैः सौरभलक्ष्मणीयैःआस्यैश् च लोकः परितोषकान्तै रसूचयल् लब्धपदं रहस्यम्।
प्रातस्तरां चन्दनलिप्तगात्राः प्रच्छाद्य हस्तैरधरान् वदन्तःशाम्यन्निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्।
साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रूधनुर्प्रसह्यम्,हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन।
दन्तच्छदे प्रज्वलिताऽग्निकल्पे ताम्बूलरागस् तृणभारतुल्यःन्यस्तः किमित्यूचुरुपेतभावा गोष्ठीषु नारीस् तरुणीर् युवानः।
सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संतापहराण्युरूणिप्रबुद्धनारीमुखपङ्कजानि प्रातः सरांसीव गृहाणि रेजुः।
संमृष्टसिक्ताऽर्चितचारुपुष्पै रामोदवद्द्रव्यसुगन्धभागैःलक्ष्मीर् विजिग्ये भवनैः सभृङ्गैः सेव्यस्य देवैरपि नन्दनस्य।
अक्ष्णोः पतन् नीलसरोजलोभाद् भृङ्गः करेणा ऽल्पधिया निरस्तःददंश ताम्राऽम्बुरुहाऽभिसन्धिस् त्र्णातुरः पाणितले ऽपि धृष्णुः।
विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर् विभङ्गं स्तनयुग्मवल्गितम्विभूषणानां क्वणितं च षट्पदो गुरुर् यथा नृत्यविधौ समादधे।
अथा ऽनुकूलान् कुलधर्मसंपदो विधाय वेशान् सुदिवः पुरीजनः।प्रबोधकाले शातमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति।
शैलेन्द्रशृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुरमन्दिरेभ्यःआपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त।
प्रबोधकालात् त्रिदशेन्द्रशत्रोः प्रागूर्ध्वशोषं परिशुष्यमाणाःहीना महान्तश् च समत्वमीयुर् द्वासस्थैरवज्ञापुरुषाऽक्षिदृष्ताः।
गुरूरुचञ्चत्करकर्णजिह्वै रवज्ञया ऽग्राऽङ्गुलिसंगृहीतैःरक्षाम्स्यनायासहृतैरुपास्थुः कपोललीनाऽलिकुलैर् गजेन्द्रैः।
निकृत्तमत्तद्विपकुम्भमांसैः संपृक्तमुक्तैर् हरयोऽग्रपादैःआनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः परस्परं वालधिसन्निबद्धाः
उपेक्षिता देवगणैस् त्रसद्भिर् निषाचरैर् वीतभयैर् निकृत्ताःतस्मिन्नदृश्यन्त सुरद्रुमाणां सजालपुष्पस्तबकाः प्रकीर्णाः।
निराकरिष्णुर् द्विजकुञ्जराणां तृणीकृताऽशेषगुणोऽतिमोहात्पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्मरक्षःप्रवरान् दशास्यः
मायाविभिस् त्रासकरैर् जनाना माप्तैरुपादानपरैरुपेतःसतां विघातैकरसैरविक्षत् सदः परिक्षोभितभूमिभागम्।
विघृतनिशितशस्त्रैस् तद् युतं यातुधानै रुरुजठरमुखीभिः संकुलं राक्षसीभिःश्वगणिशतविकीर्णं वागुरावन् मृगीभिर् वनमिव सभयाभिर् देवबन्दीभिरासीत्।
जलद इव तडित्वान् प्राज्यरत्नप्रभाभिः प्रतिककुभमुदस्यन् निस्वनं धीरमन्द्रम्शिखरमिव सुमेरोरासनं हैममुच्चैर् विविधमणिविचित्रं प्रोन्नतं सो ऽध्यतिष्थत्