११ भट्टिकाव्यम् This text does not support clickable word meanings. अथा ऽस्तमासेदुषि मन्दकान्तौ पुण्यक्षयेणेव निधौ कलानाम्समाललम्बे रिपुमित्रकल्पैः पद्मैः प्रहासः कुमुदैर् विषादः ▼ Permalink Bookmark दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्बद्धा ऽनुरागो ऽनुपपात तूर्णं तारागणः संभृतशुभ्रकीर्तिः। ▼ Permalink Bookmark क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वालङ्काऽङ्गनानामवबोधकाले लुलामनारुह्य गतो ऽस्तमिन्दुः। ▼ Permalink Bookmark मानेन तल्पेष्वयथामुखीना मिथ्याप्रसुप्तैर् गमितत्रियामाःस्त्रीभिर् निशाऽतिक्रमविह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः। ▼ Permalink Bookmark ईर्श्याविरुग्णाः स्थिरबद्धमूला निरस्तनिःशेषशुभप्रतानाःआप्यायिता नेत्रजलप्रसेकैः प्रेमद्रुमाः संरुरुहुः प्रियाणाम्। ▼ Permalink Bookmark ततः समाशङ्कितविप्रयोगः पुनर्नवीभूतरसो ऽवितृष्णःस्मरस्य सन्तं पुनरुक्तभावं नावर्तमानस्य विवेद लोकः। ▼ Permalink Bookmark वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रियसंभवेनसंकोचमेवा ऽसहमानमस्था दशक्तवद् वञ्चितमानि चक्षुः ▼ Permalink Bookmark पीने भटस्योरसि वीक्ष्य भुग्नांस् तनुत्वचः पाणिरुहान् सुमध्याइच्छाविभङ्गाकुलमानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे। ▼ Permalink Bookmark स्रस्ताऽङ्गचेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बुरोमोद्गमगम्यजीवःअशेषनष्टप्रतिभापटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्। ▼ Permalink Bookmark तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,किं तत् कथं वेत्युपलब्धसंज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः। ▼ Permalink Bookmark वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्नमन्दम्स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा। ▼ Permalink Bookmark स्रस्ताऽङ्गयष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षीअनूढमाना शयने नवोढा परोपकारैकरसैव तस्थौ। ▼ Permalink Bookmark आलिङ्गितायाः सहसा त्रपावांस् त्रासाऽभिलाषाऽनुगतो रतादौविश्वासिताया रमणेन वध्वा विमर्दरम्योमदनो बभूव। ▼ Permalink Bookmark सामोन्मुखेनाच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदेअन्तःप्रकोपाऽपगमाद् विलोला वशीकृता केवलविक्रमेण। ▼ Permalink Bookmark गुरुर् दधाना परुषत्वमन्या कान्ता ऽपि कान्तेन्दुकराऽभिमृष्टाप्रह्लादिता चन्द्रशिलेव तूर्णं क्षोभात् स्रवत्स्वेदजला बभूव। ▼ Permalink Bookmark शशाङ्कनाथाऽपगमेन धूम्रां मूर्च्छापरीतामिव निर्विवेकाम्ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः ▼ Permalink Bookmark अवीततृष्णो ऽथ परस्परेण क्षणादिवायातनिशाऽवसानःदुःखेन लोकः परवानिवा ऽगात् समुत्सुकः स्वप्ननिकेतनेभ्यः ▼ Permalink Bookmark अर्धोत्थितालिङ्गितसन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुःव्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्यकार्यः स्थित एव कश्चित्। ▼ Permalink Bookmark तालेन संपादितसाम्यशोभं शुभाऽवधानं स्वरबद्धरागम्पदैर् गताऽर्थं नृपमन्दिरेषु प्रातर् जगुर् मङ्गलवत् तरुण्यः। ▼ Permalink Bookmark दुरुत्तरे पङ्क इवा ऽन्धकारे मग्नं जगत् सन्ततरश्मिरज्जुःप्रनष्टमूर्तिप्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्। ▼ Permalink Bookmark पीतौष्ठरागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानिप्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि। ▼ Permalink Bookmark प्रजागराताम्रविलोचनाऽन्ता निरञ्जनाऽलक्तकपत्रलेखाःतुल्या इवासन् परिखेदतन्व्यो वासच्युताः सेवितमन्मथाभिः ▼ Permalink Bookmark आबद्धनेत्राऽञ्जनपङ्कलेशस् ताम्बूलरागं बहुलं दधानःचकार कान्तो ऽप्यधरो ऽङ्गनानां सहोषितानां पतिभिर् लघुत्वम्। ▼ Permalink Bookmark चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूलरक्तं च सरागमोष्ठम्कुर्वन् सवासं च सुगन्धि वक्त्रं चक्रे जनः केवलपक्षपातम्। ▼ Permalink Bookmark क्षतैरसंचेतितदन्तलब्धैः संभोगकाले ऽवगतैः प्रभातेअशङ्कता ऽन्योन्यकृतं व्यलीकं वियोगबाह्यो ऽपि जनो ऽतिरागात् ▼ Permalink Bookmark नेत्रेषुभिः संयुतपक्ष्मपत्रैः कर्णाऽन्तकृष्टैरुरुकेशशूलाःस्तनोरुचक्रास् ततकर्णपाशाः स्त्रीयोद्धमुख्या जयिनो विचेरुः ▼ Permalink Bookmark पयोधरांश् चन्दनपङ्कदिग्धान् वासांसि चा ऽमृष्टमृजानि दृष्ट्वास्त्रीणां सपत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः ▼ Permalink Bookmark स्मरातुरे चेतसि लब्धजन्मा रराज लोलोऽपि गुणाऽपहार्यःकुतूहलान् नेत्रगवाक्षसंस्थः पश्यन्निवा ऽन्योन्यमुखानि रागः ▼ Permalink Bookmark गते ऽतिभूमिं प्रणये प्रयुक्ता नबुद्धिपूर्वं परिलुप्तसंज्ञःआत्माऽनुभूतानपि नोपचारान् स्मरातुरः संस्मरति स्म लोकः ▼ Permalink Bookmark वस्त्रैरनत्युल्बणरम्यवर्णैर् विलेपनैः सौरभलक्ष्मणीयैःआस्यैश् च लोकः परितोषकान्तै रसूचयल् लब्धपदं रहस्यम्। ▼ Permalink Bookmark प्रातस्तरां चन्दनलिप्तगात्राः प्रच्छाद्य हस्तैरधरान् वदन्तःशाम्यन्निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्। ▼ Permalink Bookmark साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रूधनुर्प्रसह्यम्,हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन। ▼ Permalink Bookmark दन्तच्छदे प्रज्वलिताऽग्निकल्पे ताम्बूलरागस् तृणभारतुल्यःन्यस्तः किमित्यूचुरुपेतभावा गोष्ठीषु नारीस् तरुणीर् युवानः। ▼ Permalink Bookmark सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संतापहराण्युरूणिप्रबुद्धनारीमुखपङ्कजानि प्रातः सरांसीव गृहाणि रेजुः। ▼ Permalink Bookmark संमृष्टसिक्ताऽर्चितचारुपुष्पै रामोदवद्द्रव्यसुगन्धभागैःलक्ष्मीर् विजिग्ये भवनैः सभृङ्गैः सेव्यस्य देवैरपि नन्दनस्य। ▼ Permalink Bookmark अक्ष्णोः पतन् नीलसरोजलोभाद् भृङ्गः करेणा ऽल्पधिया निरस्तःददंश ताम्राऽम्बुरुहाऽभिसन्धिस् त्र्णातुरः पाणितले ऽपि धृष्णुः। ▼ Permalink Bookmark विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर् विभङ्गं स्तनयुग्मवल्गितम्विभूषणानां क्वणितं च षट्पदो गुरुर् यथा नृत्यविधौ समादधे। ▼ Permalink Bookmark अथा ऽनुकूलान् कुलधर्मसंपदो विधाय वेशान् सुदिवः पुरीजनः।प्रबोधकाले शातमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति। ▼ Permalink Bookmark शैलेन्द्रशृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुरमन्दिरेभ्यःआपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त। ▼ Permalink Bookmark प्रबोधकालात् त्रिदशेन्द्रशत्रोः प्रागूर्ध्वशोषं परिशुष्यमाणाःहीना महान्तश् च समत्वमीयुर् द्वासस्थैरवज्ञापुरुषाऽक्षिदृष्ताः। ▼ Permalink Bookmark गुरूरुचञ्चत्करकर्णजिह्वै रवज्ञया ऽग्राऽङ्गुलिसंगृहीतैःरक्षाम्स्यनायासहृतैरुपास्थुः कपोललीनाऽलिकुलैर् गजेन्द्रैः। ▼ Permalink Bookmark निकृत्तमत्तद्विपकुम्भमांसैः संपृक्तमुक्तैर् हरयोऽग्रपादैःआनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः परस्परं वालधिसन्निबद्धाः ▼ Permalink Bookmark उपेक्षिता देवगणैस् त्रसद्भिर् निषाचरैर् वीतभयैर् निकृत्ताःतस्मिन्नदृश्यन्त सुरद्रुमाणां सजालपुष्पस्तबकाः प्रकीर्णाः। ▼ Permalink Bookmark निराकरिष्णुर् द्विजकुञ्जराणां तृणीकृताऽशेषगुणोऽतिमोहात्पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्मरक्षःप्रवरान् दशास्यः ▼ Permalink Bookmark मायाविभिस् त्रासकरैर् जनाना माप्तैरुपादानपरैरुपेतःसतां विघातैकरसैरविक्षत् सदः परिक्षोभितभूमिभागम्। ▼ Permalink Bookmark विघृतनिशितशस्त्रैस् तद् युतं यातुधानै रुरुजठरमुखीभिः संकुलं राक्षसीभिःश्वगणिशतविकीर्णं वागुरावन् मृगीभिर् वनमिव सभयाभिर् देवबन्दीभिरासीत्। ▼ Permalink Bookmark जलद इव तडित्वान् प्राज्यरत्नप्रभाभिः प्रतिककुभमुदस्यन् निस्वनं धीरमन्द्रम्शिखरमिव सुमेरोरासनं हैममुच्चैर् विविधमणिविचित्रं प्रोन्नतं सो ऽध्यतिष्थत् ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha