निवृत्ते भरते धीमानत्रे रामस् तपोवनम्प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्।
अटाट्यमानो ऽरण्यानीं ससीतः सहलक्ष्मणःबलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा।
अवाक्शिरसमुत्पादं कृतान्तेना ऽपि दुर्दमम्भङ्क्त्वा भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः।
आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततःअध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्।
पुरो रामस्य जुहवाञ्चकार ज्वलने वपुःशरभङ्गः प्रदिश्यारात् सुतीक्ष्णमुनिःकेतनम्
"यूयं समैष्यथेत्यस्मि न्नासिष्महि वयं वने,दृष्टाः स्थ, स्वस्ति वो, यामः स्वपुण्यविजितां गतिम्"
तस्मिन् कृशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौउवास पर्णशालायां भ्रमन्ननिशमाश्रमान्,
वनेषु वासतेयेषु निवसन् पर्णसंस्तरःशय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे
ऋग्यजुषमधीयानान् सामान्यांश्च समर्चयन्बुभुजे देवसात्कृत्वा शूल्यमुख्यं च हेमवान्।
वसानस् तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौकाण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्रवान्
हित्वाशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्भयः।
व्रातीनव्यालदीप्राऽस्त्रः सुत्वनः परिपूजयन्पर्षद्वलान् महाब्रह्मैराट नैकटिकाश्रमान्।
परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्वृद्धिक्षयौ मुनीन्द्राणां प्रियंभावुकतामगात्।
आतिष्ठद्गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्।
ददृशे पर्णशालायां राक्षस्या ऽभीकया ऽथ सः,भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ।
दधाना वलिभं मध्यं कर्णजाहविलोचनावाकत्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ
सुपाद् द्विरद्नासोरूर् मृदुपाणितलाऽङ्गुलिःप्रथिमानं दधानेन जघनेन घनेन सा
उन्नसं दधती वक्त्रं शुद्धदल्लोलकुण्डलम्कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना
प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्अनुका प्रार्थयाञ्चक्रे प्रियाकर्तुं प्रियंवदा।
"सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशंवदाम्त्वद्भोगीनां सहचरीमशङ्कः पुरुषायुषम्।"
तामुवाच स"गौष्ठीने वने स्त्रीपुंसभीषणेअसूर्यंपश्यरूपा त्वं किमभीरुररार्यसे।
मानुषानभिलष्यन्ती रोचिष्णुर् दिव्यधर्मिणीत्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि।
उग्रंपश्याकुलो ऽरण्ये शालीनत्वविवर्जिताकामुकप्रार्थनापट्वी पतिवत्नी कथं न वा।
राघवं पर्णशालायामिच्छा ऽनुरहसं पतिम्,यः स्वामी मम कान्तावानौपकर्णिकलोचनः
वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,संग्रामे सर्वकर्मीणौ पाणी यस्यौपजानुकौ।
बद्धो दुर्बलरक्षाऽर्थमसिर् येनोपनीविकः,यश् चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्।
जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर् वनेप्राप्य दारगवानां यः मुनीनामभयं सदा"
ततो वावृत्यमाना ऽसौ रामशालां न्यविक्षत,"मामुपायंस्त रामे"ति वदन्ती सादरं वचः
"अस्त्रीको ऽसावहं स्त्रीमान्, स पुष्यतितरां तवपतिर्"इत्यब्रवीद् रामस्"तमेव व्रज, मा मुचः।"
लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्मन्मथायुधसम्पातव्यथ्यमानमतिः पुनः।
तस्याः सासद्यमानाया लोलूयावान् रघूत्तमःअसिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम्।
"अहं शूर्पणखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्।
पर्यशाप्सीद् दिविष्ठा ऽसौ संदर्श्य भयदं वपुःअपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः
खरदूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,विजिग्राहयिषू रामं दण्डकारण्यवासिनोः
"कृते सौभागिनेयस्य भरतस्य विवासितौपित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः।
मम रावणनाथाया भगिन्या युवयोः पुनःअयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्।
असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौअभृत्रिमपरीवारौ पर्यभूतां तथापि माम्।"
"श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि साप्राणिवस् तव मानाऽर्थं, व्रजाश्वसिहि, मा रुदः।
जक्षिमो ऽनपराधेऽपि नरान् नक्तंदिवं वयम्,कुतस्त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे।"
तौ चतुर्दशसाहस्रबलौ निर्ययतुस् ततःपारश्वधिकधानुष्कशाक्तिकप्रासिकाऽन्वितौ।
अथ सम्पततो भीमान् विशिखै रामलक्ष्मणौबहुमूर्ध्नो द्विमूर्धांश्च त्रिमूर्धाश् चा ऽहतां मृधे।
तैर् वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः।निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश् च मेदिनी।
केचिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,सरक्तं वमथुं केचिद्, भ्राजथुं न च केचन।
मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाहवतीं मरावुदन्यन्,रघुतनयमुपाययौ त्रिमूर्धो, विशभृदिवोग्रमुखं पतत्रिराजम्,
शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गःभयमुपनिदधे स राक्षसानाम् अखिलकुलक्षयपूर्वलिङ्गतुल्यः।