४ भट्टिकाव्यम् This text does not support clickable word meanings. निवृत्ते भरते धीमानत्रे रामस् तपोवनम्प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्। ▼ Permalink Bookmark अटाट्यमानो ऽरण्यानीं ससीतः सहलक्ष्मणःबलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा। ▼ Permalink Bookmark अवाक्शिरसमुत्पादं कृतान्तेना ऽपि दुर्दमम्भङ्क्त्वा भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः। ▼ Permalink Bookmark आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततःअध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्। ▼ Permalink Bookmark पुरो रामस्य जुहवाञ्चकार ज्वलने वपुःशरभङ्गः प्रदिश्यारात् सुतीक्ष्णमुनिःकेतनम् ▼ Permalink Bookmark "यूयं समैष्यथेत्यस्मि न्नासिष्महि वयं वने,दृष्टाः स्थ, स्वस्ति वो, यामः स्वपुण्यविजितां गतिम्" ▼ Permalink Bookmark तस्मिन् कृशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौउवास पर्णशालायां भ्रमन्ननिशमाश्रमान्, ▼ Permalink Bookmark वनेषु वासतेयेषु निवसन् पर्णसंस्तरःशय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे ▼ Permalink Bookmark ऋग्यजुषमधीयानान् सामान्यांश्च समर्चयन्बुभुजे देवसात्कृत्वा शूल्यमुख्यं च हेमवान्। ▼ Permalink Bookmark वसानस् तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौकाण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्रवान् ▼ Permalink Bookmark हित्वाशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्भयः। ▼ Permalink Bookmark व्रातीनव्यालदीप्राऽस्त्रः सुत्वनः परिपूजयन्पर्षद्वलान् महाब्रह्मैराट नैकटिकाश्रमान्। ▼ Permalink Bookmark परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्वृद्धिक्षयौ मुनीन्द्राणां प्रियंभावुकतामगात्। ▼ Permalink Bookmark आतिष्ठद्गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्। ▼ Permalink Bookmark ददृशे पर्णशालायां राक्षस्या ऽभीकया ऽथ सः,भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ। ▼ Permalink Bookmark दधाना वलिभं मध्यं कर्णजाहविलोचनावाकत्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ ▼ Permalink Bookmark सुपाद् द्विरद्नासोरूर् मृदुपाणितलाऽङ्गुलिःप्रथिमानं दधानेन जघनेन घनेन सा ▼ Permalink Bookmark उन्नसं दधती वक्त्रं शुद्धदल्लोलकुण्डलम्कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ▼ Permalink Bookmark प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्अनुका प्रार्थयाञ्चक्रे प्रियाकर्तुं प्रियंवदा। ▼ Permalink Bookmark "सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशंवदाम्त्वद्भोगीनां सहचरीमशङ्कः पुरुषायुषम्।" ▼ Permalink Bookmark तामुवाच स"गौष्ठीने वने स्त्रीपुंसभीषणेअसूर्यंपश्यरूपा त्वं किमभीरुररार्यसे। ▼ Permalink Bookmark मानुषानभिलष्यन्ती रोचिष्णुर् दिव्यधर्मिणीत्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि। ▼ Permalink Bookmark उग्रंपश्याकुलो ऽरण्ये शालीनत्वविवर्जिताकामुकप्रार्थनापट्वी पतिवत्नी कथं न वा। ▼ Permalink Bookmark राघवं पर्णशालायामिच्छा ऽनुरहसं पतिम्,यः स्वामी मम कान्तावानौपकर्णिकलोचनः ▼ Permalink Bookmark वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,संग्रामे सर्वकर्मीणौ पाणी यस्यौपजानुकौ। ▼ Permalink Bookmark बद्धो दुर्बलरक्षाऽर्थमसिर् येनोपनीविकः,यश् चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्। ▼ Permalink Bookmark जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर् वनेप्राप्य दारगवानां यः मुनीनामभयं सदा" ▼ Permalink Bookmark ततो वावृत्यमाना ऽसौ रामशालां न्यविक्षत,"मामुपायंस्त रामे"ति वदन्ती सादरं वचः ▼ Permalink Bookmark "अस्त्रीको ऽसावहं स्त्रीमान्, स पुष्यतितरां तवपतिर्"इत्यब्रवीद् रामस्"तमेव व्रज, मा मुचः।" ▼ Permalink Bookmark लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्मन्मथायुधसम्पातव्यथ्यमानमतिः पुनः। ▼ Permalink Bookmark तस्याः सासद्यमानाया लोलूयावान् रघूत्तमःअसिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम्। ▼ Permalink Bookmark "अहं शूर्पणखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्। ▼ Permalink Bookmark पर्यशाप्सीद् दिविष्ठा ऽसौ संदर्श्य भयदं वपुःअपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः ▼ Permalink Bookmark खरदूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,विजिग्राहयिषू रामं दण्डकारण्यवासिनोः ▼ Permalink Bookmark "कृते सौभागिनेयस्य भरतस्य विवासितौपित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः। ▼ Permalink Bookmark मम रावणनाथाया भगिन्या युवयोः पुनःअयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्। ▼ Permalink Bookmark असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौअभृत्रिमपरीवारौ पर्यभूतां तथापि माम्।" ▼ Permalink Bookmark "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि साप्राणिवस् तव मानाऽर्थं, व्रजाश्वसिहि, मा रुदः। ▼ Permalink Bookmark जक्षिमो ऽनपराधेऽपि नरान् नक्तंदिवं वयम्,कुतस्त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे।" ▼ Permalink Bookmark तौ चतुर्दशसाहस्रबलौ निर्ययतुस् ततःपारश्वधिकधानुष्कशाक्तिकप्रासिकाऽन्वितौ। ▼ Permalink Bookmark अथ सम्पततो भीमान् विशिखै रामलक्ष्मणौबहुमूर्ध्नो द्विमूर्धांश्च त्रिमूर्धाश् चा ऽहतां मृधे। ▼ Permalink Bookmark तैर् वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः।निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश् च मेदिनी। ▼ Permalink Bookmark केचिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,सरक्तं वमथुं केचिद्, भ्राजथुं न च केचन। ▼ Permalink Bookmark मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाहवतीं मरावुदन्यन्,रघुतनयमुपाययौ त्रिमूर्धो, विशभृदिवोग्रमुखं पतत्रिराजम्, ▼ Permalink Bookmark शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गःभयमुपनिदधे स राक्षसानाम् अखिलकुलक्षयपूर्वलिङ्गतुल्यः। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha