आगाधत ततो व्योम हनूमानुरुविग्रहः,अत्यशेरत तद्वेगं न सुपर्णाऽर्कमारुताः
अभायत यथाऽर्केण सुप्रातेन शरन्मुखे,गम्यमानं न तेनासीदगतं क्रामता पुरः।
वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी,व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दुनिषेवितम्।
व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतःव्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः।
व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनात्मजःजघानाविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम्
अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी।
न्यविक्षत महाग्राहसंकुलं मकरालयम्सैका बहूनां कुर्वाणा नक्राणां स्वाशितम्भवम्
कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत।
खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्।
फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्।
क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनःन तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया।
त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते।
ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्यात्रयं द्विजाः,रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना।
अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्।
तीव्रमुत्तपमानो ऽयमशक्यः सोढुमातपः,आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः।
संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते।
के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्।
द्यामिवावयमानं तमवोचद् भूधरं कपिःउपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्।
"कुलभार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्यामि त्वरावान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः।
योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्।
विकुर्वे नगरे तस्य पापस्या ऽद्य रघुद्विषः,विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः।
विनेष्ये क्रोधमथवा क्रममाणोऽरिसंसदि"इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः।
परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्दिवमाक्रममाणेव केतुतारा भयप्रदा।
जले विक्रममाणाया हनूमान् शतयोजनम्आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः।
द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,उपाक्रंस्ताकुलं घोरैः क्रममाणैर् निशाचरैः
आत्मानमपजानानः शशमात्रो ऽनयद् दिनम्,ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः।
संजानानान् परिधरन् रावणाऽनुचरान् बहून्लङ्कां समाविशद् रात्रौ वदमानोऽरिदुर्गमाम्।
किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्।
जल्पितोत्क्रुष्टसंगीतप्रनृत्तस्मितवल्गितैःघोषस्यान्ववदिष्टेव लङ्का पुताक्रतोः पुरः
ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्मराक्षसैःतथाऽवगिरमाणैश् च पिशाचैर् माम्सशोणितम्।
यथास्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,पानशौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च।
यानैः समचरन्ता ऽन्ये कुञ्जराऽश्वरथादिभिः,संप्रायच्छन्त बन्दीभिरन्ये पुष्पफलं शुभम्।
कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नासवम्,प्रेम जिज्ञासमानाभ्यस् ताभ्योशप्सत कामिनः
प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्रामं सुस्मूर्षमाणोऽसौ कपिर् विरहदुःखितम्।
अनुजिज्ञासतेवाऽथ लङ्कादर्षनमिन्दुनातमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत।
आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्शीयमानऽन्धकारेषु समचारीदशङ्कितः।
शतसाहस्रमारक्षं मध्यगं रक्षसां कपिःददर्श, यं कृतान्तोऽपि म्रियेतासाद्य भीषणम्,
अध्यासिसिषमाणे ऽथ वियन्मध्यं निशाकरेकासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
इन्दुं चषकसंक्रान्तमुपायुङ्क्त यथाऽमृतम्,पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्ज्योत्स्नायां विगलन्मानस् तरुणो रक्षसां गणः
मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिकेआत्मानं सुरताभोगविश्रम्भोत्पादनं मुहुः
अभीषयन्त ये शक्रं राक्षसा रणपण्डिताःअविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्,
सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,अवञ्चयत मायाश् च स्वमायाभिर् नरद्विषाम्,
अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः"मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः"
गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदःनृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ,
दिशो द्योतयमानाभिर् दिव्यनारीभिराकुलम्श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
नित्यमुद्यच्छमानाभिः स्मरसंभोगकर्मसुजानानाभिरलं लीलाकिल किंचितविभ्रमान्
स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः,स्वार्थं कारयमाणाभिर् यूनो मदविमोहितान्
कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्वविग्रहान्नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः
ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रतिविमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्।
तस्मिन् कैलाससंकाशां शिरःशृङ्गं भजद्रुमम्अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम्
प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्मघोने परिमृष्यन्तमारभन्तं परं स्मरे
व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्रदृक्,क्षणं पर्यरमत् तस्य दर्शनान् मारुतात्मजः।
उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्रम्यं मेरुमिवाधूतकाननं श्वसनोर्मिभिः
दृष्ट्वा दयितया साकं रहीभूतं दशाननम्ना ऽत्र सीतेत्युपारंस्त दुर्मना वायुसंभवः।
ततः प्राकारमारोहत् क्षपाटानविबोधयन्,नाऽयोधयत् समर्थोऽपि सीतादर्शनलालसः।
अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्।
दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान्,तस्या हि दर्शनात् पूर्वं विक्रमः कार्यनाशकृत्।
चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैःअशोकवनिकामारादपश्यत् स्तबकाचिताम्।
तां प्राविशत् कपिव्याघ्रस् तरूनचलयन् शनैःअत्रासयन् वनशयान् सुप्तान् शाखासु पक्षिणः।
अवाद् वायुः शनैर् यस्यां लतां नर्तयमानवत्नायासयन्त संत्रस्ता ऋतवोऽन्योन्यसंपदः।
ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाःअपाययत संपूर्णः सदा दशमुखाज्ञया।
प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताःपरिमोहयमाणाभी राक्षसीभिः समावृताः।
यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्न त्वरोचयतात्मानं चतुरो वृद्धिमानपि
मन्दायमानगमनो हरितायत्तरुं कपिः,द्रुमैः शकशकायद्भिर् मारुतेनाट सर्वतः।
अस्यन्दन्निन्दुमणयतो, व्यरुचन् कुमुदाकराः,अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः।
सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्सिद्धिं प्लवङ्गमम्पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्।
वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिकेउदपश्यत् तदा तथ्यैर् निमित्तैरिष्टदर्शनैः।
"निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नःअकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्।
वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्शत्रोस् त्राणमपश्यन्तीमदृश्यो जनकात्मजाम्
तां पराजयमानां स प्रीते रक्ष्यां दशाननात्अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम्
रामादधीतसंदेशो वायोर् जातश् च्युतस्मिताम्प्रभवन्तीमिवादित्यादपश्यत् कपिकुञ्जरः।
रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्श्लाघमानः परस्त्रीभ्यस् तत्रगाद् राक्षसाऽधिपः।
अशप्त निह्नुवानो ऽसौ सीतायौ स्मरमोहितः,धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत।
तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत।
"संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्।
शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्विधाः।
इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्।
आस्स्व साकं मया सौधे, माऽधिष्ठा निर्जनं वनम्मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका।
अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा।
मा ऽवमंस्था नामस्यन्तम्कार्यज्ञे ! जगत्पतिम्,संदृष्टे मयि काकुत्स्थमधन्यं कामयेत ? का।
यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं।
प्रीतो ऽहं भोजयिष्यामि भवतीं भुवनत्रयम्,किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्।
आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्।
वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रियापापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः
"न भवाननु रामं चेदुप शूरेषु वा, ततःअपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः,
"उपशूरं न ते वृत्तं कथं रात्रिंचराऽधम !यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात्
आ रामदर्शनात् पाप ! विद्योतस्व स्त्रियः प्रतिसद्वृत्ताननु दुर्वृत्तः परस्त्रीं जातमन्मथः
अभि द्योतिष्यते रामो भवन्तमचिरादिह,उद्गूर्णबाणः संग्रामे यो नारायणतः प्रति।
कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिःन सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत !
परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्।
अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः।
अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्।
ततः खड्गं समुद्यम्य रावणः क्रूरविग्रहःवैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्।
"चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखीन मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्"भयानि दत्त सीतायै सर्वा यूयं कृते मम।"
गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्राक्षस्यो, रावणप्रीत्यै क्रूरं चोचुरलं मुहुः
"रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्।
तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्"आत्मानं हत दुर्वृत्ताः ! स्वमांसैः कुरुता ऽशनम्।
अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सहस्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना।
तास् तया तर्जिताः सर्वा मुखैर् भीमा यथागतम्ययुः सुषुप्सवस् तल्पं भीमैर् वचनकर्मभिः
गतासु तासु मैथिल्या संजानानो ऽनिलात्मजःआयातेन दशास्यस्य संस्थितो ऽन्तर्हितश् चिरम्
ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतुद्विषःहेतोर् बोधस्य मैथिल्याः प्रास्तावीद् रामसंकथाम्।
तं दृष्ट्वा ऽचिन्तयत् सीता"हेतोः कस्यैष रावणःअवरुह्य तरोरारादैति वानरविग्रहः
पूर्वस्मादन्यवद् भाति भावाद् दाशरथिं स्तूवन्,ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ?
इतरो रावणादेष राघवाऽनुचरो यदि,सफलानि निमित्तानि प्राक् प्रभातात् ततो मम।
उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्अवैल् लवणतोयस्य स्थितां दक्षिणतः कथम्।
दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि चअतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता।
पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विनागन्तुमुत्सहते नेह कश्चित् किमुत वानरः।
इति चिन्तावतीं कृच्छ्रात् समासाद्य कपिद्विपःमुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं रामकिङ्करः
विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्यपर्वतात्ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः।
असंप्राप्ते दशग्रीवे प्रविष्टो ऽहमिदं वनम्तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्अविनाशाय कार्यस्य विचिन्वानः परापरम्।
वानरेषु कपिः स्वामी नरेष्वधिपतेः सखाजातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः
ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्कुशलो ऽन्वेषणस्याऽहमायुक्तो दूतकर्मणि
दर्शनीयतमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियःप्राप्तो व्यालतमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान्
भवत्यामुत्सुको रामः प्रसितः संगमेन तेमघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत्।
अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकःभवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम।
रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः।
रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः,धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयात्मनः।
राक्षसानां मयि गते रामः प्रणिहनिष्यतिप्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्।
अदेवीद् बन्धुभोगानां, प्रादेवीदात्मसंपदम्,शतकृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः।
तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि !
पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखामृगेण साचूडामाणिमभिज्ञानं ददौ रामस्य संमतम्।
रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्।
असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्।
"कृत्वा कर्म यथादिष्टं पूर्वकार्याऽविरोधि यःकरोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्।
वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः।
राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः।
राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः,
विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातविचित्रवसुधं सशब्दनिपतद् द्रुमोत्कशकुनम्शकुननिनादनादिककुब् विलोलविपलायमानहरिणं हरिणविलोचनाऽधिवसतिं बभञ्ज पवनात्मजो रिपुवनम्।