८ भट्टिकाव्यम् This text does not support clickable word meanings. आगाधत ततो व्योम हनूमानुरुविग्रहः,अत्यशेरत तद्वेगं न सुपर्णाऽर्कमारुताः ▼ Permalink Bookmark अभायत यथाऽर्केण सुप्रातेन शरन्मुखे,गम्यमानं न तेनासीदगतं क्रामता पुरः। ▼ Permalink Bookmark वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी,व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दुनिषेवितम्। ▼ Permalink Bookmark व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतःव्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः। ▼ Permalink Bookmark व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनात्मजःजघानाविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम् ▼ Permalink Bookmark अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी। ▼ Permalink Bookmark न्यविक्षत महाग्राहसंकुलं मकरालयम्सैका बहूनां कुर्वाणा नक्राणां स्वाशितम्भवम् ▼ Permalink Bookmark कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत। ▼ Permalink Bookmark खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्। ▼ Permalink Bookmark फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्। ▼ Permalink Bookmark क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनःन तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया। ▼ Permalink Bookmark त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते। ▼ Permalink Bookmark ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्यात्रयं द्विजाः,रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना। ▼ Permalink Bookmark अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्। ▼ Permalink Bookmark तीव्रमुत्तपमानो ऽयमशक्यः सोढुमातपः,आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः। ▼ Permalink Bookmark संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते। ▼ Permalink Bookmark के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्। ▼ Permalink Bookmark द्यामिवावयमानं तमवोचद् भूधरं कपिःउपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्। ▼ Permalink Bookmark "कुलभार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्यामि त्वरावान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः। ▼ Permalink Bookmark योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्। ▼ Permalink Bookmark विकुर्वे नगरे तस्य पापस्या ऽद्य रघुद्विषः,विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः। ▼ Permalink Bookmark विनेष्ये क्रोधमथवा क्रममाणोऽरिसंसदि"इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः। ▼ Permalink Bookmark परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्दिवमाक्रममाणेव केतुतारा भयप्रदा। ▼ Permalink Bookmark जले विक्रममाणाया हनूमान् शतयोजनम्आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः। ▼ Permalink Bookmark द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,उपाक्रंस्ताकुलं घोरैः क्रममाणैर् निशाचरैः ▼ Permalink Bookmark आत्मानमपजानानः शशमात्रो ऽनयद् दिनम्,ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः। ▼ Permalink Bookmark संजानानान् परिधरन् रावणाऽनुचरान् बहून्लङ्कां समाविशद् रात्रौ वदमानोऽरिदुर्गमाम्। ▼ Permalink Bookmark किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्। ▼ Permalink Bookmark जल्पितोत्क्रुष्टसंगीतप्रनृत्तस्मितवल्गितैःघोषस्यान्ववदिष्टेव लङ्का पुताक्रतोः पुरः ▼ Permalink Bookmark ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्मराक्षसैःतथाऽवगिरमाणैश् च पिशाचैर् माम्सशोणितम्। ▼ Permalink Bookmark यथास्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,पानशौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च। ▼ Permalink Bookmark यानैः समचरन्ता ऽन्ये कुञ्जराऽश्वरथादिभिः,संप्रायच्छन्त बन्दीभिरन्ये पुष्पफलं शुभम्। ▼ Permalink Bookmark कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नासवम्,प्रेम जिज्ञासमानाभ्यस् ताभ्योशप्सत कामिनः ▼ Permalink Bookmark प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्रामं सुस्मूर्षमाणोऽसौ कपिर् विरहदुःखितम्। ▼ Permalink Bookmark अनुजिज्ञासतेवाऽथ लङ्कादर्षनमिन्दुनातमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत। ▼ Permalink Bookmark आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्शीयमानऽन्धकारेषु समचारीदशङ्कितः। ▼ Permalink Bookmark शतसाहस्रमारक्षं मध्यगं रक्षसां कपिःददर्श, यं कृतान्तोऽपि म्रियेतासाद्य भीषणम्, ▼ Permalink Bookmark अध्यासिसिषमाणे ऽथ वियन्मध्यं निशाकरेकासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः ▼ Permalink Bookmark इन्दुं चषकसंक्रान्तमुपायुङ्क्त यथाऽमृतम्,पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ▼ Permalink Bookmark संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्ज्योत्स्नायां विगलन्मानस् तरुणो रक्षसां गणः ▼ Permalink Bookmark मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिकेआत्मानं सुरताभोगविश्रम्भोत्पादनं मुहुः ▼ Permalink Bookmark अभीषयन्त ये शक्रं राक्षसा रणपण्डिताःअविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्, ▼ Permalink Bookmark सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,अवञ्चयत मायाश् च स्वमायाभिर् नरद्विषाम्, ▼ Permalink Bookmark अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः"मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः" ▼ Permalink Bookmark गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदःनृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ, ▼ Permalink Bookmark दिशो द्योतयमानाभिर् दिव्यनारीभिराकुलम्श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम् ▼ Permalink Bookmark नित्यमुद्यच्छमानाभिः स्मरसंभोगकर्मसुजानानाभिरलं लीलाकिल किंचितविभ्रमान् ▼ Permalink Bookmark स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः,स्वार्थं कारयमाणाभिर् यूनो मदविमोहितान् ▼ Permalink Bookmark कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्वविग्रहान्नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः ▼ Permalink Bookmark ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रतिविमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्। ▼ Permalink Bookmark तस्मिन् कैलाससंकाशां शिरःशृङ्गं भजद्रुमम्अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम् ▼ Permalink Bookmark प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्मघोने परिमृष्यन्तमारभन्तं परं स्मरे ▼ Permalink Bookmark व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्रदृक्,क्षणं पर्यरमत् तस्य दर्शनान् मारुतात्मजः। ▼ Permalink Bookmark उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्रम्यं मेरुमिवाधूतकाननं श्वसनोर्मिभिः ▼ Permalink Bookmark दृष्ट्वा दयितया साकं रहीभूतं दशाननम्ना ऽत्र सीतेत्युपारंस्त दुर्मना वायुसंभवः। ▼ Permalink Bookmark ततः प्राकारमारोहत् क्षपाटानविबोधयन्,नाऽयोधयत् समर्थोऽपि सीतादर्शनलालसः। ▼ Permalink Bookmark अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्। ▼ Permalink Bookmark दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान्,तस्या हि दर्शनात् पूर्वं विक्रमः कार्यनाशकृत्। ▼ Permalink Bookmark चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैःअशोकवनिकामारादपश्यत् स्तबकाचिताम्। ▼ Permalink Bookmark तां प्राविशत् कपिव्याघ्रस् तरूनचलयन् शनैःअत्रासयन् वनशयान् सुप्तान् शाखासु पक्षिणः। ▼ Permalink Bookmark अवाद् वायुः शनैर् यस्यां लतां नर्तयमानवत्नायासयन्त संत्रस्ता ऋतवोऽन्योन्यसंपदः। ▼ Permalink Bookmark ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाःअपाययत संपूर्णः सदा दशमुखाज्ञया। ▼ Permalink Bookmark प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताःपरिमोहयमाणाभी राक्षसीभिः समावृताः। ▼ Permalink Bookmark यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्न त्वरोचयतात्मानं चतुरो वृद्धिमानपि ▼ Permalink Bookmark मन्दायमानगमनो हरितायत्तरुं कपिः,द्रुमैः शकशकायद्भिर् मारुतेनाट सर्वतः। ▼ Permalink Bookmark अस्यन्दन्निन्दुमणयतो, व्यरुचन् कुमुदाकराः,अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः। ▼ Permalink Bookmark सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्सिद्धिं प्लवङ्गमम्पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्। ▼ Permalink Bookmark वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिकेउदपश्यत् तदा तथ्यैर् निमित्तैरिष्टदर्शनैः। ▼ Permalink Bookmark "निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नःअकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्। ▼ Permalink Bookmark इत्यात्मनेपदाधिकारः ▼ Permalink Bookmark वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्शत्रोस् त्राणमपश्यन्तीमदृश्यो जनकात्मजाम् ▼ Permalink Bookmark तां पराजयमानां स प्रीते रक्ष्यां दशाननात्अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम् ▼ Permalink Bookmark रामादधीतसंदेशो वायोर् जातश् च्युतस्मिताम्प्रभवन्तीमिवादित्यादपश्यत् कपिकुञ्जरः। ▼ Permalink Bookmark रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्श्लाघमानः परस्त्रीभ्यस् तत्रगाद् राक्षसाऽधिपः। ▼ Permalink Bookmark अशप्त निह्नुवानो ऽसौ सीतायौ स्मरमोहितः,धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत। ▼ Permalink Bookmark तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत। ▼ Permalink Bookmark "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्। ▼ Permalink Bookmark शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्विधाः। ▼ Permalink Bookmark इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्। ▼ Permalink Bookmark आस्स्व साकं मया सौधे, माऽधिष्ठा निर्जनं वनम्मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका। ▼ Permalink Bookmark अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा। ▼ Permalink Bookmark मा ऽवमंस्था नामस्यन्तम्कार्यज्ञे ! जगत्पतिम्,संदृष्टे मयि काकुत्स्थमधन्यं कामयेत ? का। ▼ Permalink Bookmark यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं। ▼ Permalink Bookmark प्रीतो ऽहं भोजयिष्यामि भवतीं भुवनत्रयम्,किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्। ▼ Permalink Bookmark आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्। ▼ Permalink Bookmark इति कारकाधिकारः ▼ Permalink Bookmark वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रियापापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः ▼ Permalink Bookmark "न भवाननु रामं चेदुप शूरेषु वा, ततःअपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः, ▼ Permalink Bookmark "उपशूरं न ते वृत्तं कथं रात्रिंचराऽधम !यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात् ▼ Permalink Bookmark आ रामदर्शनात् पाप ! विद्योतस्व स्त्रियः प्रतिसद्वृत्ताननु दुर्वृत्तः परस्त्रीं जातमन्मथः ▼ Permalink Bookmark अभि द्योतिष्यते रामो भवन्तमचिरादिह,उद्गूर्णबाणः संग्रामे यो नारायणतः प्रति। ▼ Permalink Bookmark कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिःन सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत ! ▼ Permalink Bookmark परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्। ▼ Permalink Bookmark अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः। ▼ Permalink Bookmark अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्। ▼ Permalink Bookmark ततः खड्गं समुद्यम्य रावणः क्रूरविग्रहःवैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्। ▼ Permalink Bookmark "चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखीन मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !" ▼ Permalink Bookmark प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्"भयानि दत्त सीतायै सर्वा यूयं कृते मम।" ▼ Permalink Bookmark गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्राक्षस्यो, रावणप्रीत्यै क्रूरं चोचुरलं मुहुः ▼ Permalink Bookmark "रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्। ▼ Permalink Bookmark तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्"आत्मानं हत दुर्वृत्ताः ! स्वमांसैः कुरुता ऽशनम्। ▼ Permalink Bookmark अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सहस्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना। ▼ Permalink Bookmark तास् तया तर्जिताः सर्वा मुखैर् भीमा यथागतम्ययुः सुषुप्सवस् तल्पं भीमैर् वचनकर्मभिः ▼ Permalink Bookmark गतासु तासु मैथिल्या संजानानो ऽनिलात्मजःआयातेन दशास्यस्य संस्थितो ऽन्तर्हितश् चिरम् ▼ Permalink Bookmark ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतुद्विषःहेतोर् बोधस्य मैथिल्याः प्रास्तावीद् रामसंकथाम्। ▼ Permalink Bookmark तं दृष्ट्वा ऽचिन्तयत् सीता"हेतोः कस्यैष रावणःअवरुह्य तरोरारादैति वानरविग्रहः ▼ Permalink Bookmark पूर्वस्मादन्यवद् भाति भावाद् दाशरथिं स्तूवन्,ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ? ▼ Permalink Bookmark इतरो रावणादेष राघवाऽनुचरो यदि,सफलानि निमित्तानि प्राक् प्रभातात् ततो मम। ▼ Permalink Bookmark उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्अवैल् लवणतोयस्य स्थितां दक्षिणतः कथम्। ▼ Permalink Bookmark दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि चअतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता। ▼ Permalink Bookmark पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विनागन्तुमुत्सहते नेह कश्चित् किमुत वानरः। ▼ Permalink Bookmark इति चिन्तावतीं कृच्छ्रात् समासाद्य कपिद्विपःमुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं रामकिङ्करः ▼ Permalink Bookmark विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्यपर्वतात्ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः। ▼ Permalink Bookmark असंप्राप्ते दशग्रीवे प्रविष्टो ऽहमिदं वनम्तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः ▼ Permalink Bookmark तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्अविनाशाय कार्यस्य विचिन्वानः परापरम्। ▼ Permalink Bookmark वानरेषु कपिः स्वामी नरेष्वधिपतेः सखाजातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः ▼ Permalink Bookmark ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्कुशलो ऽन्वेषणस्याऽहमायुक्तो दूतकर्मणि ▼ Permalink Bookmark दर्शनीयतमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियःप्राप्तो व्यालतमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान् ▼ Permalink Bookmark भवत्यामुत्सुको रामः प्रसितः संगमेन तेमघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत्। ▼ Permalink Bookmark अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकःभवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम। ▼ Permalink Bookmark रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः। ▼ Permalink Bookmark रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः,धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयात्मनः। ▼ Permalink Bookmark राक्षसानां मयि गते रामः प्रणिहनिष्यतिप्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्। ▼ Permalink Bookmark अदेवीद् बन्धुभोगानां, प्रादेवीदात्मसंपदम्,शतकृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः। ▼ Permalink Bookmark तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि ! ▼ Permalink Bookmark पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखामृगेण साचूडामाणिमभिज्ञानं ददौ रामस्य संमतम्। ▼ Permalink Bookmark रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्। ▼ Permalink Bookmark असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्। ▼ Permalink Bookmark "कृत्वा कर्म यथादिष्टं पूर्वकार्याऽविरोधि यःकरोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्। ▼ Permalink Bookmark वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः। ▼ Permalink Bookmark राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः। ▼ Permalink Bookmark राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः, ▼ Permalink Bookmark विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातविचित्रवसुधं सशब्दनिपतद् द्रुमोत्कशकुनम्शकुननिनादनादिककुब् विलोलविपलायमानहरिणं हरिणविलोचनाऽधिवसतिं बभञ्ज पवनात्मजो रिपुवनम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha