We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या ऽभिभवेन चैवआढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नासीत्।
ततः सुचेतीकृतपौरभृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्यनीचैःआघोषयन् भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार।
आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम्सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्।
प्रास्थापयत् पूगकृतान् स्वपोषं पृष्टान् प्रयत्नाद् दृढगात्रबन्धान्सभर्मकुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थजलाऽर्थमाशु।
उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः खधूपान्,दिशश्च पुष्पैश्चकरुर् विचित्रै रर्थेषु राज्ञा निपुणा नियुक्ताः
मातामहावासमुपेयिवांसं मोहादपृष्ट्वा भरतं तदानीम्तत् केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम्।
कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्नारामप्रवासे व्यमृशन् न दोषं जनाऽपवादं सनरेन्द्रमृत्युम्
वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एवतया ऽवजज्ञे, भरताऽभिशेको विषादशङ्कुश्च मतौ निचख्ने।
ततः प्रविव्राजयिषुः कुमार मादिक्षदस्या ऽभिगमं वनायसौमित्रिसीताऽनुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्।
केचिन् निनिन्दुर् नृपमप्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद।
"गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता ऽतिमात्रम्,धीरास् तु तत्र च्युतमन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि।
प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्,"किं शोचतेहा ऽभ्युदये बता ऽस्मान् नियोगलाभेन पितुः कृताऽर्थान्,
असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्वपोषम्,महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,
विद्युत्प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्वशोषं तृणवद् विशुष्कः,अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्।
पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम्
ज्ञात्वेङ्गितैर् गत्वरतां जनाना मेकां शयित्वा रजनीं सपौरःरक्षन् वनेवासकृताद् भयात् तान् प्रातश् छलेना ऽपजगाम रामः
अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्,हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्मुखैस् ते न्यवृतन् मनोभिः
सूतो ऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युःससीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश।
प्रतीय सा पूर् ददृशे जनेन द्यौर् भानुशीतांशुविनाकृतेवराजन्यनक्षत्रसमन्विता ऽपि शोकाऽन्धकारक्षतसर्वचेष्टा।
विलोक्य रामेण विना सुमन्त्र मच्योष्ट सत्वान् नृपतिश् च्युताशःमधूनि नैषीद् व्यलिपन् न गन्धैर्, मनोरमे न व्यवसिष्ट वस्त्रे।
आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षितिपालभाग्भ्यः,स चन्दनोशीरमृणालदिग्धः शोकाग्निना ऽगाद् द्युनिवासभूयम्।
विचुक्रुशुर् भूमिपतेर् महिष्यः, केशांल् लुलुञ्चुः, स्ववपूंषि जघ्नुः,विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव।
ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले,दूतांश्च राजात्मजमानिनीषून् प्रास्थापयन् मन्त्रिमतेन यूनः।
"सुप्तो नभस्तः पतितं निरीक्षां चक्रे विवस्वन्तमधः स्फुरन्तम्,"आख्यद् वसन् मातृकुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः।
अशिश्रवन्नात्ययिकं तमेत्य दूता यदा ऽर्थं प्रयियासयन्तः,आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा वुत्कण्ठमानो भरतो गुरूणाम्।
बन्धूनशाङ्किष्ट समाकुलुत्वा दासेदुषः स्नेहवशादपायम्,गोमायुसारङ्गगणाश् च सम्यङ् ना ऽयासिषुर्, भीममरासिषुश्च।
स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्,आकर्णयामास न वेदनादान्, न चोपलेभे वणिजां पणाऽयान्।
चक्रन्दुरुच्चैर् नृपतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः,पुरोहिताऽमात्यमुखाश् च योधा विवृद्धमन्युप्रतिपूर्णमन्या।
दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च,रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै।
आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रःउच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्।
नृपात्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवत्यः,शोच्या वयं, भूरनृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्।
नैतन् मतं मत्कमिति ब्रुवाणः सहस्रशो ऽसौ शपथानशप्यत्उद्वाश्यमानः पितरं सरामं लुठ्यन् सशोको भुवि रोरुदावान्।
तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्अन्त्याहुतिं हावयितुं सविप्राश् चिचीषयन्तोऽध्वरपात्रजातम्।
उदक्षिपन् पट्टदुकूलकेतू नवादयन् वेणुमृदङ्गकांस्यम्,कम्बूंश् च तारानधमन् समन्तात्, तथानयन् कुङ्कुमचन्दनानि।
श्रोत्राऽक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राक्शिरसं निधायसञ्चित्य पात्राणि यथाविधान मृत्विग् जुहाव ज्वलितं चिताऽग्निम्
कृतेषु पिण्डोदकसञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिःप्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः सपौरः।
शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैरपन्थानमुपेत्य सृप्तैःशोकादभूषैरपि भूश् चकासा ञ्चकार नागेन्द्ररथाऽश्वमिश्रैः।
उच्चिक्यिरे पुष्पफलं वनानि, सस्नुः पित् न् पिप्रियुरापगासु,आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च।
संप्राप्य तीरं तमसापगाया गङ्गाऽम्बुसम्पर्कविशुद्धिभाजःविगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्धश्रमवृत्तयस् ते।
ईयुर् भरद्वाजमुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामःच्युताऽशनायः फलवद्विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः।
वाचंयमान् स्थण्डिलशायिनश् च युयुक्षमाणाननिशं मुमुक्षून्अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाजमुनिः सशिष्यं।
आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः,धामप्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिमवन्त्युदूहुः
आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः सहावम्,सविभ्रमं नेमुरुदारमुचुस् तिलोत्तमाद्या वनिताश्च तस्मिन्।
वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिसंप्रक्wxल्क़्क़्प्तम्तान् प्रीतिमानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्।
ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभातेद्रुतं समध्वा रथवाजिनागैर् मन्दाकिनीं रम्यवनां समीयुः।
वैखानसेभ्यः श्रुतरामवार्तास् ततो विशिञ्जानपतक्त्रिसङ्घम्अभ्रंलिहाऽग्रं रविमार्गभङ्गम् आनंहिरे ऽद्रिं प्रति चित्रकूटम्।
दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्यतस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः
शुक्लोत्तरासङ्गभृतो विशस्त्रान् पादैः शनैरापततः प्रमन्यून्औहिष्ट तान् वीतविरुद्धबुद्धीन् विवन्दिषून् दाशरथिः स्ववर्ग्यान्
समूलकाषं चकषू रुदन्तो रामाऽन्तिकं बृंहितमन्युवेगाःआवेदयन्तः क्षितिपालमुच्चैः कारं मृतं रामवियोगशोकात्
चिरं रुदित्वा करुणं सशब्दं गोत्राऽभिधायं सरितं समेत्यमध्येजलाद् राघवलक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्।
"अरण्ययाने सुकरे पिता मा प्रायुङ्क्त, राज्ये बत दुष्करे त्वाम्,मा गाः शुचं वीर !, भरं वहा ऽमुम्," आभाषि रामेण वचः कनीयान्।
"कृती श्रुती वृद्धमतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः,विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या।
अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,जिह्रेष्यतिष्ठन् यदि तातवाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्।"
"वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय,मा मां प्रयुक्थाः कुलकीर्तिलोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्।
"ऊर्जस्वलं हस्तितुरङ्गमेतद्, अमूनि रत्नानि च राजभाञ्जि,राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्।"
इति निगदितवन्तं राघवस् तं जगाद "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारया ऽस्मन्मतेन"