३ भट्टिकाव्यम् This text does not support clickable word meanings. वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या ऽभिभवेन चैवआढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नासीत्। ▼ Permalink Bookmark ततः सुचेतीकृतपौरभृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्यनीचैःआघोषयन् भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार। ▼ Permalink Bookmark आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम्सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्। ▼ Permalink Bookmark प्रास्थापयत् पूगकृतान् स्वपोषं पृष्टान् प्रयत्नाद् दृढगात्रबन्धान्सभर्मकुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थजलाऽर्थमाशु। ▼ Permalink Bookmark उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः खधूपान्,दिशश्च पुष्पैश्चकरुर् विचित्रै रर्थेषु राज्ञा निपुणा नियुक्ताः ▼ Permalink Bookmark मातामहावासमुपेयिवांसं मोहादपृष्ट्वा भरतं तदानीम्तत् केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम्। ▼ Permalink Bookmark कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्नारामप्रवासे व्यमृशन् न दोषं जनाऽपवादं सनरेन्द्रमृत्युम् ▼ Permalink Bookmark वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एवतया ऽवजज्ञे, भरताऽभिशेको विषादशङ्कुश्च मतौ निचख्ने। ▼ Permalink Bookmark ततः प्रविव्राजयिषुः कुमार मादिक्षदस्या ऽभिगमं वनायसौमित्रिसीताऽनुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्। ▼ Permalink Bookmark केचिन् निनिन्दुर् नृपमप्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद। ▼ Permalink Bookmark "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता ऽतिमात्रम्,धीरास् तु तत्र च्युतमन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि। ▼ Permalink Bookmark प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्,"किं शोचतेहा ऽभ्युदये बता ऽस्मान् नियोगलाभेन पितुः कृताऽर्थान्, ▼ Permalink Bookmark असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्वपोषम्,महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः, ▼ Permalink Bookmark विद्युत्प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्वशोषं तृणवद् विशुष्कः,अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्। ▼ Permalink Bookmark पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम् ▼ Permalink Bookmark ज्ञात्वेङ्गितैर् गत्वरतां जनाना मेकां शयित्वा रजनीं सपौरःरक्षन् वनेवासकृताद् भयात् तान् प्रातश् छलेना ऽपजगाम रामः ▼ Permalink Bookmark अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्,हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्मुखैस् ते न्यवृतन् मनोभिः ▼ Permalink Bookmark सूतो ऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युःससीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश। ▼ Permalink Bookmark प्रतीय सा पूर् ददृशे जनेन द्यौर् भानुशीतांशुविनाकृतेवराजन्यनक्षत्रसमन्विता ऽपि शोकाऽन्धकारक्षतसर्वचेष्टा। ▼ Permalink Bookmark विलोक्य रामेण विना सुमन्त्र मच्योष्ट सत्वान् नृपतिश् च्युताशःमधूनि नैषीद् व्यलिपन् न गन्धैर्, मनोरमे न व्यवसिष्ट वस्त्रे। ▼ Permalink Bookmark आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षितिपालभाग्भ्यः,स चन्दनोशीरमृणालदिग्धः शोकाग्निना ऽगाद् द्युनिवासभूयम्। ▼ Permalink Bookmark विचुक्रुशुर् भूमिपतेर् महिष्यः, केशांल् लुलुञ्चुः, स्ववपूंषि जघ्नुः,विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव। ▼ Permalink Bookmark ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले,दूतांश्च राजात्मजमानिनीषून् प्रास्थापयन् मन्त्रिमतेन यूनः। ▼ Permalink Bookmark "सुप्तो नभस्तः पतितं निरीक्षां चक्रे विवस्वन्तमधः स्फुरन्तम्,"आख्यद् वसन् मातृकुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः। ▼ Permalink Bookmark अशिश्रवन्नात्ययिकं तमेत्य दूता यदा ऽर्थं प्रयियासयन्तः,आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा वुत्कण्ठमानो भरतो गुरूणाम्। ▼ Permalink Bookmark बन्धूनशाङ्किष्ट समाकुलुत्वा दासेदुषः स्नेहवशादपायम्,गोमायुसारङ्गगणाश् च सम्यङ् ना ऽयासिषुर्, भीममरासिषुश्च। ▼ Permalink Bookmark स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्,आकर्णयामास न वेदनादान्, न चोपलेभे वणिजां पणाऽयान्। ▼ Permalink Bookmark चक्रन्दुरुच्चैर् नृपतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः,पुरोहिताऽमात्यमुखाश् च योधा विवृद्धमन्युप्रतिपूर्णमन्या। ▼ Permalink Bookmark दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च,रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै। ▼ Permalink Bookmark आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रःउच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्। ▼ Permalink Bookmark नृपात्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवत्यः,शोच्या वयं, भूरनृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्। ▼ Permalink Bookmark नैतन् मतं मत्कमिति ब्रुवाणः सहस्रशो ऽसौ शपथानशप्यत्उद्वाश्यमानः पितरं सरामं लुठ्यन् सशोको भुवि रोरुदावान्। ▼ Permalink Bookmark तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्अन्त्याहुतिं हावयितुं सविप्राश् चिचीषयन्तोऽध्वरपात्रजातम्। ▼ Permalink Bookmark उदक्षिपन् पट्टदुकूलकेतू नवादयन् वेणुमृदङ्गकांस्यम्,कम्बूंश् च तारानधमन् समन्तात्, तथानयन् कुङ्कुमचन्दनानि। ▼ Permalink Bookmark श्रोत्राऽक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राक्शिरसं निधायसञ्चित्य पात्राणि यथाविधान मृत्विग् जुहाव ज्वलितं चिताऽग्निम् ▼ Permalink Bookmark कृतेषु पिण्डोदकसञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिःप्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः सपौरः। ▼ Permalink Bookmark शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैरपन्थानमुपेत्य सृप्तैःशोकादभूषैरपि भूश् चकासा ञ्चकार नागेन्द्ररथाऽश्वमिश्रैः। ▼ Permalink Bookmark उच्चिक्यिरे पुष्पफलं वनानि, सस्नुः पित् न् पिप्रियुरापगासु,आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च। ▼ Permalink Bookmark संप्राप्य तीरं तमसापगाया गङ्गाऽम्बुसम्पर्कविशुद्धिभाजःविगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्धश्रमवृत्तयस् ते। ▼ Permalink Bookmark ईयुर् भरद्वाजमुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामःच्युताऽशनायः फलवद्विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः। ▼ Permalink Bookmark वाचंयमान् स्थण्डिलशायिनश् च युयुक्षमाणाननिशं मुमुक्षून्अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाजमुनिः सशिष्यं। ▼ Permalink Bookmark आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः,धामप्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिमवन्त्युदूहुः ▼ Permalink Bookmark आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः सहावम्,सविभ्रमं नेमुरुदारमुचुस् तिलोत्तमाद्या वनिताश्च तस्मिन्। ▼ Permalink Bookmark वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिसंप्रक्wxल्क़्क़्प्तम्तान् प्रीतिमानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्। ▼ Permalink Bookmark ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभातेद्रुतं समध्वा रथवाजिनागैर् मन्दाकिनीं रम्यवनां समीयुः। ▼ Permalink Bookmark वैखानसेभ्यः श्रुतरामवार्तास् ततो विशिञ्जानपतक्त्रिसङ्घम्अभ्रंलिहाऽग्रं रविमार्गभङ्गम् आनंहिरे ऽद्रिं प्रति चित्रकूटम्। ▼ Permalink Bookmark दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्यतस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः ▼ Permalink Bookmark शुक्लोत्तरासङ्गभृतो विशस्त्रान् पादैः शनैरापततः प्रमन्यून्औहिष्ट तान् वीतविरुद्धबुद्धीन् विवन्दिषून् दाशरथिः स्ववर्ग्यान् ▼ Permalink Bookmark समूलकाषं चकषू रुदन्तो रामाऽन्तिकं बृंहितमन्युवेगाःआवेदयन्तः क्षितिपालमुच्चैः कारं मृतं रामवियोगशोकात् ▼ Permalink Bookmark चिरं रुदित्वा करुणं सशब्दं गोत्राऽभिधायं सरितं समेत्यमध्येजलाद् राघवलक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्। ▼ Permalink Bookmark "अरण्ययाने सुकरे पिता मा प्रायुङ्क्त, राज्ये बत दुष्करे त्वाम्,मा गाः शुचं वीर !, भरं वहा ऽमुम्," आभाषि रामेण वचः कनीयान्। ▼ Permalink Bookmark "कृती श्रुती वृद्धमतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः,विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या। ▼ Permalink Bookmark अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,जिह्रेष्यतिष्ठन् यदि तातवाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्।" ▼ Permalink Bookmark "वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय,मा मां प्रयुक्थाः कुलकीर्तिलोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्। ▼ Permalink Bookmark "ऊर्जस्वलं हस्तितुरङ्गमेतद्, अमूनि रत्नानि च राजभाञ्जि,राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्।" ▼ Permalink Bookmark इति निगदितवन्तं राघवस् तं जगाद "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारया ऽस्मन्मतेन" ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha