ततो रामो हनूमन्तमुक्तवान् हृष्टमानसम्"अयोध्यां श्वः प्रयातासि कपे ! भरतपालिताम्।
गाधितासे नभो भूयः स्फुटन्मेघघटावलि,ईक्षितासे ऽम्भसां पत्युः पयः शिशिरशीकरम्।
सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाःव्युत्क्रान्तवर्त्मनो भानोः सहज्योत्स्नाकुमुद्वतीः।
चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाःदर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः।
प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न तेलताः स्तबकशालिन्यो मधुलेहिकुलाकुलाः।
द्रष्टासि प्रीतिमानारात् सखिभिः सह सेविताम्सपक्षपातं किष्किन्धां पूर्वक्रीडां स्मरन् मुहुः।
त्वया सन्दर्शितारौ ते माल्यवद्दण्डकावने,उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्।
आप्तारौ भवता रम्यावाश्रमौ हरिणाकुलौपुण्योदकद्विजाकीर्णौ सुतीक्ष्णशरभङ्गयोः
अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपोवनम्,पवित्रचित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्।
ततः परं भरद्वाजो भवता दर्शिता मुनिः,द्रष्टारश् च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः।
स्यन्त्वा स्यन्त्वा दिवः शम्भोर् मूर्ध्नि स्कन्त्वा भुवं गताम्गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्।
तमसाया महानीलपाषाणसदृशत्विषःवना ऽन्तात् बहु मन्तासे नागराक्रीडशाखिनः।
नगरस्त्रीस्तनन्यस्तधौतकुङ्कुमपिञ्जराम्विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी।
आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम्मातरः सह मैथिल्या, तोष्टा च भरतः परम्।
आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चागामुकान् द्रुतम्
गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव,ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्।
गते त्वयि पथा ऽनेन वयमप्यंहितास्महे,लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे।
गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीवराक्षसौउक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्।
द्रष्टास्थस् तत्र तिस्रो मे मात् स् तुष्टऽन्तरात्मनःआन्त्यन्तीनं सखित्वं च प्राप्तास्थो भरताश्रयम्।
नैवं विरहदुःखेन वयं व्याघानितास्महे,श्रमो नुभविता नैवं भवद्भ्यां च वियोगजः,
एवं युवां मम प्रीत्यै कल्प्तास्थः कपिराक्षसौ !गन्तुं प्रयतितासाथे प्रातः सह मया यदि।
उत्कवन्तौ ततो रामं वचः पौलस्त्यवानरौअनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह।
अनुमन्तास्वहे नावां भवन्तं विरहं त्वयाअपि प्राप्य सुरेन्द्रत्वं, किं नु प्रत्तं, त्वयास्पदम्।
ततः कथाभिः समतीत्य दोषा मारुह्य सैन्यैः सह पुष्पकं तेसम्प्रस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः।
सेतुं, महेन्द्रं, मलयं सविन्ध्यं, समाल्यवन्तं गिरिमृष्यमूकम्,सदण्डकाऽरण्यवातीं च पम्पां रामः प्रियायाः कथयन् जगाम।
एते ते मुनिजनमण्डिता दिगन्ताः, शैलोऽयं लुलितवनः स चित्रकूटः,गङ्गेयं सुतनु! विशालतीररम्या, मैथिल्या रघुतनयो दिशन् ननन्द।
शिञ्जानभ्रमरकुलाकुलाऽग्रपुष्पाः शीताऽम्भःप्रविलयसंप्लवा ऽभिलीनाःएते ते सुतनु ! पुरीजनोपभोग्या दृश्यन्ते नयनमनोरमा वना ऽन्ताः।
स्थानं नः पूर्वजानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुतविविधहविः प्रीणिता ऽशेषदेवा,सो ऽयं देशो, रुदन्तं पुरजनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना ऽन्तं सह धृतधृतिना लक्ष्मणेन क्षपाऽन्ते।
तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्रसदृशां क्ष्मां कम्पयन् सर्वतःसानन्दा ऽश्रुविलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः समारुतिरलं नम्रः समं मातृभिः
अथ ससम्भ्रमपौरजनावृतो भरतपाणिधृतोज्ज्वलचामरःगुरुजनद्विजबन्द्यभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः।
प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्यजघटे तुरगाऽध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम्।
इदमधिगतमुक्तिमार्गचित्रं विवदिषतां वदतां च सन्निबन्धात्जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम्।
दीपतुल्यः प्रबन्धो ऽयं शब्दलक्षणचक्षुषाम्हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणादृते।
व्याख्यागम्यमिदं काव्य मुत्सवः सुधियामलम्,हता दुर्मेघसश् चा ऽस्मिन् विद्वत्प्रियतया मया।
काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननेरन्द्रपालितायाम्,कीर्तिरतो भवतान् नृपस्य, तस्य प्रेमकरः क्षितिपो यतः प्रजानाम्।