२२ भट्टिकाव्यम् This text does not support clickable word meanings. ततो रामो हनूमन्तमुक्तवान् हृष्टमानसम्"अयोध्यां श्वः प्रयातासि कपे ! भरतपालिताम्। ▼ Permalink Bookmark गाधितासे नभो भूयः स्फुटन्मेघघटावलि,ईक्षितासे ऽम्भसां पत्युः पयः शिशिरशीकरम्। ▼ Permalink Bookmark सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाःव्युत्क्रान्तवर्त्मनो भानोः सहज्योत्स्नाकुमुद्वतीः। ▼ Permalink Bookmark चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाःदर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः। ▼ Permalink Bookmark प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न तेलताः स्तबकशालिन्यो मधुलेहिकुलाकुलाः। ▼ Permalink Bookmark द्रष्टासि प्रीतिमानारात् सखिभिः सह सेविताम्सपक्षपातं किष्किन्धां पूर्वक्रीडां स्मरन् मुहुः। ▼ Permalink Bookmark त्वया सन्दर्शितारौ ते माल्यवद्दण्डकावने,उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्। ▼ Permalink Bookmark आप्तारौ भवता रम्यावाश्रमौ हरिणाकुलौपुण्योदकद्विजाकीर्णौ सुतीक्ष्णशरभङ्गयोः ▼ Permalink Bookmark अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपोवनम्,पवित्रचित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्। ▼ Permalink Bookmark ततः परं भरद्वाजो भवता दर्शिता मुनिः,द्रष्टारश् च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः। ▼ Permalink Bookmark स्यन्त्वा स्यन्त्वा दिवः शम्भोर् मूर्ध्नि स्कन्त्वा भुवं गताम्गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्। ▼ Permalink Bookmark तमसाया महानीलपाषाणसदृशत्विषःवना ऽन्तात् बहु मन्तासे नागराक्रीडशाखिनः। ▼ Permalink Bookmark नगरस्त्रीस्तनन्यस्तधौतकुङ्कुमपिञ्जराम्विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी। ▼ Permalink Bookmark आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम्मातरः सह मैथिल्या, तोष्टा च भरतः परम्। ▼ Permalink Bookmark आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चागामुकान् द्रुतम् ▼ Permalink Bookmark गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव,ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्। ▼ Permalink Bookmark गते त्वयि पथा ऽनेन वयमप्यंहितास्महे,लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे। ▼ Permalink Bookmark गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीवराक्षसौउक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्। ▼ Permalink Bookmark द्रष्टास्थस् तत्र तिस्रो मे मात् स् तुष्टऽन्तरात्मनःआन्त्यन्तीनं सखित्वं च प्राप्तास्थो भरताश्रयम्। ▼ Permalink Bookmark नैवं विरहदुःखेन वयं व्याघानितास्महे,श्रमो नुभविता नैवं भवद्भ्यां च वियोगजः, ▼ Permalink Bookmark एवं युवां मम प्रीत्यै कल्प्तास्थः कपिराक्षसौ !गन्तुं प्रयतितासाथे प्रातः सह मया यदि। ▼ Permalink Bookmark उत्कवन्तौ ततो रामं वचः पौलस्त्यवानरौअनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह। ▼ Permalink Bookmark अनुमन्तास्वहे नावां भवन्तं विरहं त्वयाअपि प्राप्य सुरेन्द्रत्वं, किं नु प्रत्तं, त्वयास्पदम्। ▼ Permalink Bookmark ततः कथाभिः समतीत्य दोषा मारुह्य सैन्यैः सह पुष्पकं तेसम्प्रस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः। ▼ Permalink Bookmark सेतुं, महेन्द्रं, मलयं सविन्ध्यं, समाल्यवन्तं गिरिमृष्यमूकम्,सदण्डकाऽरण्यवातीं च पम्पां रामः प्रियायाः कथयन् जगाम। ▼ Permalink Bookmark एते ते मुनिजनमण्डिता दिगन्ताः, शैलोऽयं लुलितवनः स चित्रकूटः,गङ्गेयं सुतनु! विशालतीररम्या, मैथिल्या रघुतनयो दिशन् ननन्द। ▼ Permalink Bookmark शिञ्जानभ्रमरकुलाकुलाऽग्रपुष्पाः शीताऽम्भःप्रविलयसंप्लवा ऽभिलीनाःएते ते सुतनु ! पुरीजनोपभोग्या दृश्यन्ते नयनमनोरमा वना ऽन्ताः। ▼ Permalink Bookmark स्थानं नः पूर्वजानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुतविविधहविः प्रीणिता ऽशेषदेवा,सो ऽयं देशो, रुदन्तं पुरजनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना ऽन्तं सह धृतधृतिना लक्ष्मणेन क्षपाऽन्ते। ▼ Permalink Bookmark तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्रसदृशां क्ष्मां कम्पयन् सर्वतःसानन्दा ऽश्रुविलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः समारुतिरलं नम्रः समं मातृभिः ▼ Permalink Bookmark अथ ससम्भ्रमपौरजनावृतो भरतपाणिधृतोज्ज्वलचामरःगुरुजनद्विजबन्द्यभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः। ▼ Permalink Bookmark प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्यजघटे तुरगाऽध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम्। ▼ Permalink Bookmark इदमधिगतमुक्तिमार्गचित्रं विवदिषतां वदतां च सन्निबन्धात्जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम्। ▼ Permalink Bookmark दीपतुल्यः प्रबन्धो ऽयं शब्दलक्षणचक्षुषाम्हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणादृते। ▼ Permalink Bookmark व्याख्यागम्यमिदं काव्य मुत्सवः सुधियामलम्,हता दुर्मेघसश् चा ऽस्मिन् विद्वत्प्रियतया मया। ▼ Permalink Bookmark काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननेरन्द्रपालितायाम्,कीर्तिरतो भवतान् नृपस्य, तस्य प्रेमकरः क्षितिपो यतः प्रजानाम्। ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha