१८ भट्टिकाव्यम् This text does not support clickable word meanings. व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवःविभीषणमसावुच्चै रोदिति स्म दशाननम्। ▼ Permalink Bookmark "भूमौ शेते दशग्रीवो महार्हशयनोचितः,नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति। ▼ Permalink Bookmark विपाकोऽयं दशग्रीव ! संदृष्टो ऽनागतो मया।त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि। ▼ Permalink Bookmark भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदःतान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्। ▼ Permalink Bookmark अपथ्यमायतौ लोभादामनन्त्यनुजीविनःप्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः। ▼ Permalink Bookmark प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च। ▼ Permalink Bookmark लेढि भेषजवन् नित्यं यः पथ्यानि कटून्यपि,तदर्थं सेवते चाप्तान्, कदाचिन् न स सीदति। ▼ Permalink Bookmark सर्वस्य जायते मानः, स्वहिताच् च प्रमाद्यति,वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति। ▼ Permalink Bookmark द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,वैरायते महद्भिश् च शीयते वृद्धिमानपि। ▼ Permalink Bookmark समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्गतःलोकत्रयपतिर् भ्राता यस्य मे स्वपिति क्षितौ ▼ Permalink Bookmark अहो जागर्ति कृच्छ्रेषु दैवं, यद् बलभिज्जितःलुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च। ▼ Permalink Bookmark शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,दशग्रीवसनाभीनां समदन्त्यामिषं खगाः, ▼ Permalink Bookmark येन पूतक्रतोर् मूर्ध्नि स्थीयते स्म महाहवे,तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते। ▼ Permalink Bookmark स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,अभ्युपैति पुनर् भूतिं रामग्रस्तो न कश्चन। ▼ Permalink Bookmark त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम्,दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे। ▼ Permalink Bookmark मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,कथं नाम भवांस् तत्र ना ऽवैति हितमात्मनः ▼ Permalink Bookmark अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,"न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान् ▼ Permalink Bookmark त्वं स्म वेत्थ महाराज ! यत् स्माह न विभीषनः।पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि। ▼ Permalink Bookmark हविर् जक्षिति निःशङ्को मखेषु मधवानसौ,प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः। ▼ Permalink Bookmark धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना। ▼ Permalink Bookmark शाम्यत्यृतुसमाहारस्, तपस्यन्ति वनौकसः,नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः ▼ Permalink Bookmark श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः। ▼ Permalink Bookmark शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,देववन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः। ▼ Permalink Bookmark बिभ्रत्यस्त्राणि साऽमर्षा रणकाम्यन्ति चा ऽमराः,चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति। ▼ Permalink Bookmark चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा ऽप्यतिशेरते,भूमयन्ति स्वसामर्थ्यं, कीर्तिं नः कनयन्ति च। ▼ Permalink Bookmark दिशो व्यष्नुवते दृप्तास् त्वत्कृतां जहति स्थितिम्,क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्गतम्। ▼ Permalink Bookmark शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः ▼ Permalink Bookmark प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मेप्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना। ▼ Permalink Bookmark केन संविद्रतेनाऽन्यस् त्वत्तो बान्धववत्सलः,विरौमि शून्ये, प्रोर्णौमि कथं मन्युसमुद्भवम्। ▼ Permalink Bookmark रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया,प्रमाणं नोपकाराणामवगच्छामि यस्य ते ▼ Permalink Bookmark नेदानीं शक्रयक्षेन्द्रौ बिभीतो, न दरिद्रितः,न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशानन ! ▼ Permalink Bookmark त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम्,कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृतनाशिनीम्। ▼ Permalink Bookmark तृणेह्मि देहमात्मीयं। त्वं वाचं न ददासि चेत्,द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव। ▼ Permalink Bookmark उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,नेदयत्यासनं को मे, को हि मे वदति प्रियम्। ▼ Permalink Bookmark न गच्छामि पुरा लङ्का मायुर् यावद् दधाम्यहम्,कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्। ▼ Permalink Bookmark ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः,मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्। ▼ Permalink Bookmark अन्तःपुराणि पौलस्त्यं पौराश् च भृशदुःखिताःसंश्रुत्य स्मा ऽभिधावन्ति हतं रामेण संयुगे। ▼ Permalink Bookmark मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम्,अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च। ▼ Permalink Bookmark रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च।"भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम् ▼ Permalink Bookmark "दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् न्युद्धाऽभग्नाविपन्नस्य किं दशास्यस्य शोचसि ▼ Permalink Bookmark बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते। ▼ Permalink Bookmark त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या ऽस्य च शोकभङ्गम्,धुर्ये विपन्ने त्वयि राज्यभारो मज्जत्यनूढः क्षणदाचरेन्द्र !" ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha