We're performing server updates until 1 November. Learn more.

This text does not support clickable word meanings.

व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवःविभीषणमसावुच्चै रोदिति स्म दशाननम्।
"भूमौ शेते दशग्रीवो महार्हशयनोचितः,नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति।
विपाकोऽयं दशग्रीव ! संदृष्टो ऽनागतो मया।त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि।
भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदःतान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्।
अपथ्यमायतौ लोभादामनन्त्यनुजीविनःप्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः।
प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च।
लेढि भेषजवन् नित्यं यः पथ्यानि कटून्यपि,तदर्थं सेवते चाप्तान्, कदाचिन् न स सीदति।
सर्वस्य जायते मानः, स्वहिताच् च प्रमाद्यति,वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति।
द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,वैरायते महद्भिश् च शीयते वृद्धिमानपि।
समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्गतःलोकत्रयपतिर् भ्राता यस्य मे स्वपिति क्षितौ
अहो जागर्ति कृच्छ्रेषु दैवं, यद् बलभिज्जितःलुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च।
शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,दशग्रीवसनाभीनां समदन्त्यामिषं खगाः,
येन पूतक्रतोर् मूर्ध्नि स्थीयते स्म महाहवे,तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते।
स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,अभ्युपैति पुनर् भूतिं रामग्रस्तो न कश्चन।
त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम्,दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे।
मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,कथं नाम भवांस् तत्र ना ऽवैति हितमात्मनः
अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,"न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान्
त्वं स्म वेत्थ महाराज ! यत् स्माह न विभीषनः।पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि।
हविर् जक्षिति निःशङ्को मखेषु मधवानसौ,प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः।
धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना।
शाम्यत्यृतुसमाहारस्, तपस्यन्ति वनौकसः,नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः
श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः।
शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,देववन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः।
बिभ्रत्यस्त्राणि साऽमर्षा रणकाम्यन्ति चा ऽमराः,चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति।
चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा ऽप्यतिशेरते,भूमयन्ति स्वसामर्थ्यं, कीर्तिं नः कनयन्ति च।
दिशो व्यष्नुवते दृप्तास् त्वत्कृतां जहति स्थितिम्,क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्गतम्।
शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः
प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मेप्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना।
केन संविद्रतेनाऽन्यस् त्वत्तो बान्धववत्सलः,विरौमि शून्ये, प्रोर्णौमि कथं मन्युसमुद्भवम्।
रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया,प्रमाणं नोपकाराणामवगच्छामि यस्य ते
नेदानीं शक्रयक्षेन्द्रौ बिभीतो, न दरिद्रितः,न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशानन !
त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम्,कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृतनाशिनीम्।
तृणेह्मि देहमात्मीयं। त्वं वाचं न ददासि चेत्,द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव।
उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,नेदयत्यासनं को मे, को हि मे वदति प्रियम्।
न गच्छामि पुरा लङ्का मायुर् यावद् दधाम्यहम्,कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्।
ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः,मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्।
अन्तःपुराणि पौलस्त्यं पौराश् च भृशदुःखिताःसंश्रुत्य स्मा ऽभिधावन्ति हतं रामेण संयुगे।
मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम्,अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च।
रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च।"भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्
"दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् न्युद्धाऽभग्नाविपन्नस्य किं दशास्यस्य शोचसि
बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते।
त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या ऽस्य च शोकभङ्गम्,धुर्ये विपन्ने त्वयि राज्यभारो मज्जत्यनूढः क्षणदाचरेन्द्र !"