This text does not support clickable word meanings.

चारुसमीरणरमणे हरिणकलङ्ककिरणावलीसविलासाआबद्धराममोहा वेलामूले विभावरी परिहीणा।
बद्धो वासरसङ्गे भीमो रामेण लवणसलिलावासेसहसा संरम्भरसो दूरारूढरविमण्डलसमो लोले।
गाढगुरुपुङ्खपीडा सधूमसलिलाऽरिसंभवमहाबाणेआरुढा संदेहं रामे समहीधार मही सफणिसभा।
घोरजलदन्तिसंकुल मट्टमहापङ्ककाहलजलावासम्आरीणं लवणजलं समिद्धफलबाणविद्धिघोरफणिवरम्
सभयं परिहरमाणो महाऽहिसंचारभासुरं सलिलगणम्आरूढो लवणजलो जलतीरं हरिबलागमविलोलगुहम्
चञ्चलतरुहरिणगणं बहुकुसुमाबन्धबद्धरामावासम्हरिपल्लवतरुजालं तुङ्गोरुसमिद्धतरुवरहिमच्छायम्
वरवारनं सलिलभरेण गिरिमहीमण्डलसंवरवारणम्वसुधार्यं तुङ्गतरङ्गसङ्गपरिहीणलोलवसुधारयम्

कुलकम् एतानि सप्त संकीर्णानि

प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर् वारीणाम्गङ्गाऽवलम्बिबाहू रामं बहलोरुहरितमालच्छायम्।

पूर्वाऽर्धं निरवद्यम्

"तुङ्गा गिरिवरदेहा, अगमं सलिलं, समीरणो रसहारी,अहिमो रविकिरणगणो, माया संसारकारणं ते परमा।
आयाससंभवारुण ! संहर संहारहिमहरसमच्छायम्बाणं, वारिसमूहं संगच्छ पुराणचारुदेहावासम्।
असुलभहरिसंचारं जलमूलं बहलपङ्करुद्धायामम्भण किं जलपरिहीणं सुगमं तिमिकम्बुवारिवारणभीमम्।
गन्तुं लङ्कातीरं बद्धमहासलिलसंचरेण सहेलम्तरुहरिणा गिरिजालं वहन्तु गिरिभारसंसहा गुरुदेहम्।
हरहासरुद्धविगमं परकण्ठगणं महाहवसमारम्भेछिन्दन्तु रामबाणा गम्भीरे मे जले महागिरिबद्धे।
गच्छन्तु चारुहासा वीररसाबन्धरुद्धभयसंबन्धम्हन्तुं बहुबाहुबलं हरिकरिणो गिरिवरोरुदेहं सहसा।

एतानि षट् संकीर्णानि

जिगमिषया संयुक्ता बहूव कपिवाहिनी मते दाशरथेःबुद्धजलालयचित्ता गिरिहरणारम्भसंभवसमालोला।

पूर्वाऽर्धं निरवद्यम्

गुरुगिरिवरहरणसहं संहारहिमारिपिङ्गलं रामबलम्आरूढं सहसा खं वरुणालयविमलसलिलगणगम्भीरम्
अवगाढं गिरिजालं तुङ्गमहाभित्तिरुद्धसुरसंचारम्अभयहरिरासभीमं करिपरिमलचारुबहलकन्दरसलिलम्।
अलिगणविलोलकुसुमं सकमलजलमत्तकुररकारण्डवगणम्फणिसंकुलभीमगुहं करिदन्तसमूढसरसवसुधाखण्डम्
अरविन्दरेणुपिञ्जर सारसरवहारिविमलबहुचारुजलम्रविमणिसंभवहिमहर समागमाबद्धबहुलसुरतरुधूपम्
हरिरवविलोलवारण गम्भीराबद्धसरसपुरुसंरावम्घोणासंगमपङ्का विलसुबलभरमहोरुवराहम्।

एतानि पञ्च संकीर्नानि

उच्चख्नुः परिरब्धान् कपिसङ्घा बाहुभिस् ततो भूमिभृतःनिष्पष्टशेषमूर्ध्नः शृङ्गविकीर्णोष्णरश्मिनक्षत्रगणान्।

सर्वं निरवद्यम्

तुङ्गमहागिरिसुभरा बाहुसमारुद्धभिदुरटङ्का बहुधालवणजलबन्धकामा आरूढा अम्बरं महापरिणाहम्
बहुधवलवारिवाहं विमलायसमहाऽसिदेहच्छायम्बद्धविहङ्गममालं हिमगिरिमिव मत्तकुरररवसंबद्धम्
चारुकलहंस्संकुल सचण्डसंचारसारसाबद्धरवम्सकुसुमकणगन्धवहं समयागमवारिसङ्गविमलायामम्।
सहसा ते तरुहरिणा गिरिसुभरा लवणसलिलबन्धारम्भेतीरगिरिमारूढा रामागमरुद्धसभयरिपुसंचारम्।

एतानि चत्वारि संकीर्णानि

ततः प्राणीताः कपियूथमुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक्अकम्प्रब्राध्नाऽग्रनितम्बभागा महाऽर्णवं भूमिभृतो ऽवगाढाः

निराख्यातं निरवद्यं च

तेने ऽद्रिबन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः।

एकान्तराख्यातं निरवद्यं च

भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः।

आख्यात-माला

गिरिपङ्कचारुदेहं कक्कोललवङ्गबधसुरभिपरिमलम्बहुबहलोरुतरङ्गं परिसरसारूढमुद्धरं लवणजलम्।
लोलं कूलाऽभिगमे खे तुङ्गामलनिबद्धपुरुपरिणाहम्सुरगङ्गाभरणसहं गिरिबन्धवरेण लवणसलिलं रुद्धम्।
आरूढं च सुवेलं तरुमालाबन्धहारिगिरिवरजालम्रावणचित्तभयङ्कर मापिङ्गललोलकेसरं रामबलम्
लङ्कालयतुमुलारव सुभरगभीरोरुकुञ्जकन्दरविवरम्वीणारवरससङ्गम सुरगणसंकुलमहातमालच्छायम्
सरसबहुपल्लवाविल केसरहिन्तालबद्धबहलच्छायम्ऐरावणमदपरिमल गन्धवहाबद्धदन्तिसंरम्भरसम्
तुङ्गतरुच्छायारुह कोमलहरिहारिलोलपल्लवजालम्हरिणभयंकरसकुसुम दावसमच्छविविलोलदाडिमकुञ्जम्
कलहरिकण्ठविरावं सलिलमहाबन्धसंकुलमहासालम्चलकिसलयसंबद्धं मणिजालं सलिलकणमयंविवहन्तम्
तुङ्गमणिकिरणजालं गिरिजलसंघट्टबद्धगम्भीररवम्चारुगुहाविवरसभं सुरपुरसमममरचारणसुसंरावम्
विमलमहामणिटङ्कं सिन्दूरकलङ्कपिञ्जरसहाभित्तिम्वीरहरिदन्तिसङ्गम भयरुद्धविभावरीविहारसमीहम्
समहाफणिभीमबिलं भूरिविहङ्गमतुमुलोरुघोरविरावम्वारणवराहहरिवर गोगणसारङ्गसंकुलमहासालम्
चलकिसलयसविलासं चारुमहीकमलरेणुपिञ्जरवसुधम्सकुसुमकेसरबाणं लवङ्गतरुतरुणवल्लरीवरहासम्
अमलमणिहेमटङ्कं तुङ्गमहाभित्तिरुद्धरुरुपङ्कगमम्अमरारूढपरिसर मेरुमिवाविलसरसमन्दारतरुम्
फलभरमन्थरतरुवर मविदूरविरूढहारिकुसुमापीडम्हरिणकलङ्कमणिसंभव बहुवारिभरसुगम्भीरगुहम्।
जलकामदन्तिसंकुल सहेमरसचारुधवलकन्दरदेहम्अङ्कुरतोहसमच्छवि रुरुगणसंलीढतरलहरिमणिकिरणम्
गाढसमीरणसुसहं भीमरवोत्तुङ्गवारिधरसंघट्टम्धवलजलवाहमाला संबन्धाबद्धहिमधराधरलीलम्।
लवणजलबन्धसरसं तरुफलसंपत्तिरुद्धदेहायासम्लङ्कातोरणवारण मारूढं समरलालसंरामबलम्।
गुरुपणववेणुगुञ्जा भेरीपेलोरुझल्लरीभीमरवम्ढक्काघण्टातुमुलं सन्नद्धं परबलं रणायाससहम्
आरूढबाणघोरं विमलायसजालगूढपीवरदेहम्चञ्चलतुरङ्गवारण संघट्टाबद्धचारुपरिणाहगुणम्
असितोमरकुन्तमहा पट्टिशभल्लवरबाणगुरुपुरुमुसलम्वीररसाऽलङ्कारं गुरुसंचारहयदन्तिसमहीकम्पम्
ते रामेण सरभसं परितरला हरिगणा रणसमारम्भेरुद्धा लङ्कापरिसर भूधरपरिभङ्गलालसा धीररवम्।
युग्मकम् जलतीरतुङ्गतरुवर कन्गरगिरिभित्तिकुञ्जविवरावासम्भीमं तरुहरिणबलं सुसमिद्धहिमारिकिरणमालालोलम्।
रावणबलमवगन्तुं जलभरगुरुसलिलवाहगणसमच्छायम्अट्टतरुमञ्चमन्द्रिर तोरणमालासभासु समारूढम्।