Click on words to see what they mean.

अष्टमः सर्गः

अथ नन्दम् अधीरलोचनं गृहयानोत्सुकम् उत्सुकोतुस्कम् ।अभिगम्य शिवेन चक्षुषा श्रमणः कश् चिद् उवाच मैत्रया ॥ १ ॥
किम् इदं मुखम् अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः ।धृतिम् एहि नियच्छ विक्रियां न हि बाष्पश् च शमश् च शोभते ॥ २ ॥
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।श्रुतविध्युपचारकोविदा द्विविधा एव तयोश् चिकित्सकाः ॥ ३ ॥
तद् इयं यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् ।विनिगुह्य हि रोगम् आतुरो नचिरात् तीव्रम् अनर्थम् ऋच्छति ॥ ४ ॥
अथ दुःखम् इदं मनोमयं वद वक्ष्यामि यद् अत्र भेषजम् ।मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ॥ ५ ॥
निखिलेन च सत्यम् उच्यतां यदि वाच्यं मयि सौम्य मन्यस्ते ।गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च ॥ ६ ॥
इति तेन स चोदितस् तदा व्यवसायं प्रविवक्षुर् आत्मनः ।अवलम्ब्य करे करेण तं प्रविवक्षुर् आत्मनः ॥ ७ ॥
अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।मृदुभिर् मृदुमारुतेरितैर् उपगूधाव् इव बालपल्लवैः ॥ ८ ॥
स जगाद ततश् चिकीषितम् घननिश्वासगृहीतम् अन्तरा ।श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ ९ ॥
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।अधृतौ यद् इयं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ १० ॥
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।न हि भावम् इमं चलात्मने कथयेयं ब्रुवतेऽप्य् असाधवे ॥ ११ ॥
तद् इदं शृणु मे समासतो न रमे धरविधाव् ऋते प्रियाम् ।गिरिसानुषु कामिनीम् ऋते कृतरेता इव किंनरश् चरन् ॥ १२ ॥
वनवाससुखात् पराङ्मुखः प्रयियासा गृहम् एव येन मे ।न हि शर्म लभे तया विना नृपतिर् हीन इवोत्तमश्रिया ॥ १३ ॥
अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैर् इदम् ॥ १४ ॥
कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः ।प्रविविक्षति वागुरां मृगश् चपलो गीतरवेण वञ्चितः ॥ १५ ॥
विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयम् एव पञ्जरम् ॥ १६ ॥
कलभः करिणा खलूद्धृतो बहुपङ्काद् विषमान् नदीतलात् ।जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति ॥ १७ ॥
शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेञ बोधितः ।तरुणः खलु जातविभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति ॥ १८ ॥
महता खलु जातवेदसा ज्वलिताद् उत्पतितो वनद्रुमात् ।पुनर् इच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः ॥ १९ ॥
अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः ।न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ २० ॥
अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।अशनं खलु वान्तम् आत्मना कृपञः श्वा पुनर् अत्तुम् इच्छति ॥ २१ ॥
इति मन्मथशोककर्षितं तम् अनुध्याय मुहुर् निरीक्ष्य च ।श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यम् उवाच विप्रियम् ॥ २२ ॥
अविचारयतः शुभाशुभं विषयेष्व् एव निविष्टचेतसः ।उपपन्नम् अलब्धचकुसुषो न रतिः श्रेयसि चेद् भवेत् तव ॥ २३ ॥
श्रवणे ग्रहणेऽथ धारणे परमार्थावगमे मनःशमे ।अविषक्तमतेश् चलात्मनो न हि धर्मेऽभिरतिर् विधीयते ॥ २४ ॥
विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेर् अमानिनः ।शमकर्मसु युक्तचेतसः कृतबुद्धेर् न रतिर् न विद्यते ॥ २५ ॥
रमते तृषितो धनश्रिया रमते कामसुखेन् बालिशः ।रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ २६ ॥
अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।सदृशी न गृहाय चेतना प्रणतिर् वायुवशाद् गिरेर् इव ॥ २७ ॥
स्पृह्येत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् ।उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः ॥ २८ ॥
व्यसनाभिहतो यथा विशेत् पर्मुक्तः पुनर् एव बन्धनम् ।समुपेत्य वनं तथा पुनर् गृहसंज्ञं मृगयेत बन्धनम् ॥ २९ ॥
पुरुषश् च विहाय यः कलिं पुनर् इच्छेत् कलिम् एव सेवितुम् ।स विहाय भजेत बालिषः कलिभूताम् अजितेन्द्रियः प्रियाम् ॥ ३० ॥
सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ ३१ ॥
प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः ।इति दोषभयावहाश् च ताः कथम् अर्हन्ति निषेवनं नु ताः ॥ ३२ ॥
स्वजनः स्वजनेन भिद्यते सुहृदश् चापि सुहृज्जनेन यत् ।परदोषविक्षणाः शठास् तदनार्याः प्रचरन्ति योषितः ॥ ३३ ॥
कुलजाः कृपणीभवन्ति यद् यद् अयुक्तं प्रचरन्ति साहसम् ।प्रविशन्ति च यच् चमूमुखं रभसास् तत्र निमित्तम् अङ्गनाः ॥ ३४ ॥
वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा ।मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ॥ ३५ ॥
प्रदहन् दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते ।कुपितो भुजगोऽपि गृह्यते प्रदानां तु मनो न गृह्यते ॥ ३६ ॥
न वपुर् विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् ।प्रहरन्त्य् अविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ ३७ ॥
न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् ।कलिता वनितैव चञ्चला तद् इहारिष्व् इव नावलम्ब्यते ॥ ३८ ॥
अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् ।प्रणतेषु भवन्ति गर्विताः प्रमदास् तृप्ततराश् च मानिषु ॥ ३९ ॥
गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् ।धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्य् अवज्ञया ॥ ४० ॥
विषयाद् विषयान्तरं गता प्रचरत्य् एव यथा हृतापि गौः ।अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना ॥ ४१ ॥
प्रविशन्त्य् अपि हि स्त्रियश् चिताम् अनुभध्नन्त्य् अपि मुक्तजीव्ताः ।अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदम् ॥ ४२ ॥
रमयन्ति पतीन् कथं चन प्रमदा याः पतिदेवताः क्व चित् ।चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वन् एव ताः ॥ ४३ ॥
श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती ।मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिर् न विद्यते ॥ ४४ ॥
कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः ।मुनिर् उग्रतपाश् च गौतमः समवापुर् वनितोद्धतं रजः ॥ ४५ ॥
अकृतज्ञम् अनार्यम् अस्थिरं वनितानाम् इद ईदृशं मनः ।कथम् अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ ४६ ॥
अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि ।किमु कायम् असद्गृहं स्रवद् वैन्तानाम् अशुचिं न पश्यसि ॥ ४७ ॥
यद् अहन्य् अहनि प्रधावनैर् वसनैश् चाभरणैश् च संस्कृतम् ।अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ ४८ ॥
अथ वा समवैषि तत्तनूम् अशुभां त्वं न तु संविद् अस्ति ते ।सुरभिं विदधासि हि क्रियाम् अशुचेस् तत्प्रभवस्य शान्तये ॥ ४९ ॥
मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।यदि साधु किम् अत्र योषितां सहजं तासु विचीयतां शुचि ॥ ५० ॥
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।यदि सा तव सुन्दरी भवेन् नियतं तेऽद्य न सुन्दरी भवेत् ॥ ५१ ॥
स्रवतीम् अशुचिं स्पृशेच् च कः सघुणो जर्जरभाण्डवत् स्त्रियम् ।यदि केवलया त्वचावृता न भवेन् मक्षिकपत्त्रमात्रया ॥ ५२ ॥
त्वचवेष्ठितम् अस्तिपञ्जरं यदि कायं समवैषि योषिताम् ।मदनेन च कृष्यसे बलाद् अघृणः कायं सम्वैषि योषिताम् ॥ ५३ ॥
शुभताम् अशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु ।अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् ॥ ५४ ॥
तद् अवेत्य मनःशरीरयोर् वनिता दोषवतीर् विशेषतः ।चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् ॥ ५५ ॥
श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।उपगम्य यथा तथा पुनर् न हि बेह्त्तुं नियमं त्वम् अर्हसि ॥ ५६ ॥
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानम् इच्छतः ।निधनम् अपि वरं स्थिरात्मनश् च्युतविनयस्य न चैव जीवितम् ॥ ५७ ॥
बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्य् अपसृतः समराद् रथस्थः ।भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस् तथा भवति कामर्हृतेन्द्रियाश्वः ॥ ५८ ॥
हास्यो यथा च परमाभरणाम्बरस्रग् भैक्षं चरन् धृतधनुश् चलचित्रमौलिः ।वैरूप्यम् अभ्युपगतः परैण्डभोजी हास्यस् तथा गृहसुखाभिमुखः सतृष्णः ॥ ५९ ॥
यथा स्वन्नं भुक्त्वा परमश्यनीयेऽपि शयितो वराहो निर्मुक्तः पुनर् अशुचि धावेत् परिचितम् ।तथा श्रेयः शृण्वन् प्रशमसुखम् आस्वाद्य गुणवद् वनं शान्तं हित्वा गृहम् अभिलषेत् कामतृषितः ॥ ६० ॥
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।यथा हन्ति व्याघ्रः शिशुर् अपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधम् अनर्थाय भवति ॥ ६१ ॥
तद् विज्ञाय मनःशरीरनियतान् नारिषु दोषान् इमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।दृष्ट्वा दुर्बलम् आमपत्रसदृशं मृत्यूपसृष्टं जगन् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुं नार्हसि ॥ ६२ ॥
सुन्दरनन्दे महाकाव्ये स्त्रीविघातो नामाष्टमः सर्गः ।