Click on words to see what they mean.

नवमः सर्गः

अथैवम् उक्तोऽपि स तेन भिषुणा जगाम नैवोपशमं प्रियां प्रति ।तथा हि ताम् एव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः ॥ १ ॥
यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्नाति मुमूर्षुर् आतुरः ।तथैव मत्तो बलरूपयौवनैर् हितं न जग्राध स तस्य तद्वचः ॥ २ ॥
न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतामनः ।नरस्य पाप्मा हि तदा निवर्तते यदा भवत्य् अन्तगतं तमस् तनु ॥ ३ ॥
ततस् तथाक्षिप्तम् अवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शन्तये ॥ ४ ॥
बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।अहं इव् इदं ते त्रयम् अव्यवस्तितं यथावबुद्धो न तथावबुध्यसे ॥ ५ ॥
इदं हि रोगायतनं जरावशं नदीतटानोकहवच् चलाचलम् ।न वेत्सि देहं जलफेनदुर्बलं बलस्थताम् आत्मनि येन मन्यसे ॥ ६ ॥
यदान्नपानासनयानकर्मणाम् असेवनाद् अप्य् अतिसेवनाद् अपि ।शरीरम् आसन्नविपत्ति दृश्यते बलेऽभिमानस् तव केन हेतुना ॥ ७ ॥
हिमातपव्याधिजराक्षुदादिभिर् यदाप्य् अनर्थैर् उपमीयते जगत् ।जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे ॥ ८ ॥
त्वगस्थिमांसक्षतजात्मकं यद शरीरम् आहारवशेन तिष्ठति ।अजस्रम् आर्तं सततप्रतिक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ॥ ९ ॥
यथा घटं मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् ।समुच्छ्रयं तद्वद् असारम् उद्वहन् बलं व्यवस्येद् विषयार्थम् उद्यतः ॥ १० ॥
शरिरम् आमाद् अपि मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् ।चित्रं हि तिष्ठेद् विधिवद्धृतो घटाद् इदं नु निःसारत्मं मतं मम ॥ ११ ॥
यदाम्बुभूवाय्वनलाश् च धातवः सदा विरुद्धा विषमा इवोरगाः ।भवन्त्य् अनर्थाय शरीरम् आश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ १२ ॥
प्रायन्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास् तु भवन्ति धातवः ।क्व चिच् च किं चिच् च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ॥ १३ ॥
इदं हि शय्यासनपानभोजनैर् गुणैः शरिरं चिरम् अप्य् अवेक्षितम् ।न मर्षयत्य् एकम् अपि व्य्तिक्रमं यतो महाशिविषवत् प्रकुप्यति ॥ १४ ॥
यदा हिमार्तो ज्वलनं निषेवते हिमं निदाघाभिहतोऽभिकाङ्क्षति ।क्षुधानिव्तोऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ॥ १५ ॥
तद् एवम् अज्ञाय शरीरम् आतुरं बलान्वितोऽस्मीति न मन्तुम् अर्हसि ।असारम् अस्वन्तम् अनिश्चितं जगज् जगत्य् अनित्ये बलम् अव्यवस्थितम् ॥ १६ ॥
क्व कार्तवीर्यस्य बलाभिमानिनः स्हस्रबाहोर् बलम् अर्जुनस्य तत् ।चकर्त बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्य् अशनिर् गिरेर् इव ॥ १७ ॥
क्व तद्बलं कंसविकर्षिणो हरेस् तुरङ्गराजस्य पुटावभेदिनः ।यम् एकबाणेन निजघिन्वान् जराः क्रमागता रूपम् इवोत्तमं जरा ॥ १८ ॥
दितेः सुतस्यामररोषकारिणश् चमूरुचेर् वा नमुचेः क्व तद्बलम् ।यम् आहवे क्रुद्धम् इवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ १९ ॥
बलं कुरूणां क्व च तत् तदाभवद् युधि ज्वलित्वा तरसौजसा च ये ।समित्सम्मिधा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥ २० ॥
अतो विदित्वा बल्वीर्यमानिनां बलान्वितानाम् अवमर्दितं बलम् ।जगज् जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुम् अर्हसि ॥ २१ ॥
बलं महद् वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावद् इन्द्रियैः ।जयश् च तेऽत्रास्ति महच् च ते बलं पराजयश् चेद् वितथं च ते बलम् ॥ २२ ॥
तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन् ।यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये ॥ २३ ॥
अहं वपुष्मान् इति यच् च मन्यसे विचक्षणं नैतद् इदं च गृह्यताम् ।क्व तद् वपुः सा च वपुष्मती तनुर् गदस्य साम्यस्य च सारणस्य च ॥ २४ ॥
यथा मयूरश् चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः ।शरीरसंस्कारगुणाद् ऋते तथा बिभर्षि रूपं यदि रूपवान् असि ॥ २५ ॥
यदि प्रतीपं वृणुयान् न वाससा न शौचकाले यदि संस्पृशेद् अपः ।मृजाविशेषं यदि नाददीत वा वपुर् वपुष्मन् वद कीदृशं भवेत् ॥ २६ ॥
नवं वयश् चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः ।नियच्छ तच् छैलनदीरयोपमं द्रुतं हि गच्छत्य् अन्विरति यौवनम् ॥ २७ ॥
ऋतुर् व्यतीतः परिवर्तते पुनः क्षयङ् प्रयातः पुनर् एति चन्द्रमाः ।गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ २८ ॥
विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् ।यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ २९ ॥
निषेव्य पानं मदनीयम् उत्तमं निशाविवासेषु चिराद् विमाद्यति ।नरस् तु मत्तो बलरूपयौवनैर् न कश् चिद् अप्राप्य जरां विमाद्यति ॥ ३० ॥
यथेक्षुर् अत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।तथा जरायन्त्रनिईडिता तनुर् निपीतसारा मरणाय तिष्ठति ॥ ३१ ॥
यथा हि नृभ्यां करपत्त्रम् ईरितं समुच्छ्रितं दारु भिनत्त्य् अनेकधा ।तथोच्छ्रितां पातयति प्रजाम् इमाम् अहर्निशाभ्याम् उपसंहिता जरा ॥ ३२ ॥
स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।श्रमस्य योनिर् बल्वीर्ययोर् वधो जरासमो नास्ति शरीरिणां रिपुः ॥ ३३ ॥
इदं विदित्वा निधनस्य दैशिकं जराभिदहानं जगतो महद्भयम् ।अहं वपुष्मान् बलवान् युवेति वा न मानम् आरोढुम् अनार्यम् अर्हसि ॥ ३४ ॥
अहं ममेत्य् एव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः ।तम् उत्सृजैवं यदि शाम्यता भवेद् भयं ह्य् अहं चेति ममेति चार्छति ॥ ३५ ॥
यदा शरीरे न वशोऽस्ति कस्य चिन् निरस्यमाने विविधैर् उपप्लवैः ।कथं क्षमं वेत्तुम् अहं ममेति वा शरीरसंज्ञं गृहम् आपदाम् इदम् ॥ ३६ ॥
सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले ।स दुष्टधाताव् अशुचौ चलाचले रमेत काये विपरीत्दर्शनः ॥ ३७ ॥
यथा प्ररोहन्ति तृणान्य् अयत्नतः क्षितौ प्रयत्नात् तु भव्न्ति शालयः ।तथैव दुःखानि तृञान्य् अयत्नतः क्षितौ प्र्यत्नात् तु भवन्ति वा न वा ॥ ३९ ॥
शरीरम् आर्तं परिकर्षतश् चलं न चास्ति किं चित् परमार्थतः सुखम् ।सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यस्वस्यति ॥ ४० ॥
यथानपेक्ष्याग्र्यम् अपीसितं सुखं प्रबाधते दुःखम् उपेतम् अण्व् अपि ।तथानपेक्ष्यात्मनि दुःखम् आगतं न विद्यते किं चन कस्य चित् सुखम् ॥ ४१ ॥
शरीरम् ईदृग्भहुदुःखम् अध्रुवं फलानुरोधाह् अथ नावगच्छसि ।द्रवत् फलेभ्यो धृतिरश्मिभिर् मनो निगृह्यतां गौर् इव शस्यलालसा ॥ ४२ ॥
न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोर् इव ।यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ॥ ४३ ॥
यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान् नैव शमं निगच्छति ।तथेन्द्रियार्थेष्व् अजितेन्द्रियश् चरन् न कामभोगैर् उपशान्तिम् ऋच्छति ॥ ४४ ॥
यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान् न भजेत तत्क्षमम् ।तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया ॥ ४५ ॥
अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।अनर्थमूला विषयाश् च केवला ननु प्रहेया विषमा यथारयः ॥ ४६ ॥
इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् ।परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्य चिच् छिवाः ॥ ४७ ॥
यथोपयुक्तं रसवर्णगन्धवद् वधाय किंपाकफलं न पुष्टये ।निषेव्यमाणा विषयाश् चलात्मनो भवन्त्य् अनर्थाय तथा न भूतये ॥ ४८ ॥
तत् एतद् आज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितम् ।जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयम् उद्गिरन् गिरम् ॥ ४९ ॥
इति हितम् अपि बह्व् अपीदम् उक्तः श्रुतमहता श्रमणेन तेन नन्दः ।न धृतिम् उपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ ५० ॥
नन्दस्य भावम् अवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे ।सत्त्वाशयानुशयभावपर्क्षकाय बुद्धाय तत्त्वदिउषे कथयां चकार ॥ ५१ ॥
सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः ।