दशमः सर्गः
श्रुत्वा ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् ।नन्दं निरानन्दम् अपेतधैर्यम् अभ्युज्जिहीर्षुर् मुनिर् आजुहाव ॥ १ ॥
तं प्राप्तम् अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः ।स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ २ ॥
नन्दं विदित्वा सुगतस् ततस् तं भार्याभिधाने तमसि भ्रमन्तम् ।पाणौ गृहीत्वा वियद् उत्पपात मणिं जले साधुर् इवोज्जिहीर्षुः ॥ ३ ॥
काषायवस्त्रौ कनकावदातौ विरेजतुस् तौ नभसि प्रसन्ने ।अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाव् इव चक्रवाकौ ॥ ४ ॥
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तम् आशु ॥ ५ ॥
तस्मिन् गिरौ चारञसिद्धजुष्टे शिवे हविर् धूमकृत्तोत्तरीये ।आगम्य पारस्य निराश्रयस्य तौ तस्थतुर् द्वीप इवाम्बरस्य ॥ ६ ॥
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।दरीश् च कुञ्जांश् च वनौकसश् च विभूषणं रक्षणम् एव चाद्रेः ॥ ७ ॥
बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः ।भुजे बलस्यायतपीनबाहोर् वैडूर्यकेयूर इवाबभासे ॥ ८ ॥
मनःशिलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः ।संतप्तचामीकरभक्त्चित्रं रूप्याङ्गदं शीर्णम् इवाम्बिकस्य ॥ ९ ॥
व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः ।बभौ गिरेः प्रस्रवणं पिपासुर् दित्सन् पितृभ्योऽम्भ इवावतिर्णः ॥ १० ॥
चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिम् इवार्यवृत्तः ॥ ११ ॥
सुवर्णगौराश् च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः ।सार्दूलपातप्रतिमा गुहाभयो निशेप्तुर् उद्गार इवाचलस्य ॥ १२ ॥
दरीचरीणाम् अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणाम् ।वृद्न्दानि रेजुर् दिशि किंनरीणां पुष्पोत्कचानाम् इव वल्लरीणाम् ॥ १३ ॥
नगान् नगस्योपरि देवदारून् आयासयन्तः कपयो विचेरुः ।तेभ्यः फलं नापुरतोऽपजग्मुर् मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ १४ ॥
तस्मात् तु यूथाद् अपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्राम् ।शाखामृगीम् एकविपन्नदृष्टिं दृष्ट्वा मुनिर् नन्दम् इदं बभाषे ॥ १५ ॥
का नन्द रूपेण च चेष्टया च संपश्यतश् चारुतरा मता ते ।एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ १६ ॥
इत्य् एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिद् इदं जगाद ।क्व चोत्तमस्त्री भगवन् बधूस् ते मृगि नगक्लेश्करी क्व चैषा ॥ १७ ॥
ततो मुनिस् तस्य निशम्य वाक्यं हेत्वन्तरं किं चिद् अवेक्षमाणः ।आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥ १८ ॥
ऋताव् र्ताव् आकृतिम् एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।चित्रां समस्ताम् अपि के चिद् अन्ये षण्णाम् ऋतूनां श्रियम् उद्वहन्ति ॥ १९ ॥
पुष्यन्ति के चित् सुरभीर् उदारा मालाः स्रजश् च ग्रथिता विचित्राः ।कर्णानुकूलान् अवतंसकांष् च प्रत्यर्थिभूतान् इव कुण्डलानाम् ॥ २० ॥
रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा ।प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा ॥ २१ ॥
नानाविरागाण्य् अथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।अतान्तवान्य् एकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा ॥ २२ ॥
हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याण्य् अथ नूपुराणि ।एवंविधान्य् आभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः ॥ २३ ॥
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।स्पर्शक्षमाण्य् उत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ २४ ॥
यत्रायतांश् चैव ततांश् च तांस् तान् वाद्यस्य हेतून् सुषिरान् घनांश् च ।फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास् त्रिदशालयानाम् ॥ २५ ॥
मन्दारवृक्षांश् च कुशेशयांश् च पुष्पानतान् कोकनदांश् च वृक्षान् ।आक्रम्य माहात्म्यगुणैर् विराजन् राजायते यत्र स पारिजातः ॥ २६ ॥
कृष्टे तपःषीलहलैर् अखिन्नैस् त्रिपिष्टपक्षेत्रतले प्रसूताः ।एवंविधा यत्र सआनुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ २७ ॥
मनःशिलाभैर् वदनैर् विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश् च ।शावैश् च पक्षैर् अभिलोहितान्तैर् माञ्जिष्ठकैर् अर्धसितैश् च पादैः ॥ २८ ॥
चित्रैः सुवर्णच्छदनैस् तथान्ये वैडुर्यवर्णाभिर् नयनैः प्रसन्नैः ।विहङ्गमा शिञ्जिरिकाभिधाना रुतैर् मनःश्रोतहरैर् भ्रमन्ति ॥ २९ ॥
रक्ताभिर् अग्रेषु च वल्लरीभिर् मध्येषु चामीकरपिञ्जराभिः ।वैडूर्यवर्णाभिर् उपान्तमध्येष्व् अलङ्कृता यत्र खगाश् चरन्ति ॥ ३० ॥
रोचिष्णवो नाम पत्रत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैर् इवास्यैः ।भ्रमन्ति दृष्टीर् वपुषाक्षिपन्तः स्वनैः शुभैर् अप्सरसो हरन्तः ॥ ३१ ॥
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।स्वैः कर्मभिर् हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥ ३२ ॥
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां ।मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः ॥ ३३ ॥
नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् ।नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ ३४ ॥
ऐन्द्रं वनं तच् च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।हर्षान्विताश् चाप्सरसः परीयुः सगर्वम् अन्योन्यम् अवेक्षमाणाः ॥ ३५ ॥
सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।दिव्याश् च निर्दोषपरिग्रहाश् च तपःफलस्याश्रयणं सुराणाम् ॥ ३६ ॥
तासां जगुर् धीरम् उदात्तम् अन्याः पद्मानि काश् चिल् ललितं लभञ्जुः ।अन्योन्यहर्षान् ननृतुस् तथान्याश् चिराङ्गहाराः स्तनभिन्नभाराः ॥ ३७ ॥
कासां चिद् आसां वदनानि रेजुर् वनान्तरेभ्यश् चलकुण्डलानि ।व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ ३८ ॥
ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस् तडित्पताका इव तोयदेभ्यः ।नन्दस्य रागेण तनुर् विवेपे जले चले चन्द्रमसः प्रभेव ॥ ३९ ॥
वपुश् च दिव्यं ललिताश् च चेष्टास् ततः स तासां मनसा जहार ।कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षाद् इव जातरागः ॥ ४० ॥
स जाततर्षोऽप्सरसः पिपासुस् तत्प्राप्तयेऽधिष्ठितविक्लवार्तः ।लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार ॥ ४१ ॥
यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।मलक्षयार्थं न मलोद्भवार्तं रजस् तथास्मै मुनिर् आचकर्ष ॥ ४२ ॥
दोषांश् च कायाद् भिषगुज् जिहीर्षुर् भूयो यथा क्लेशयितुं यतेत ।रागं तथा तस्य मुनिर् जिघांसुर् भूयस्तरं रागम् उपानिनाय ॥ ४३ ॥
दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेर् उदितस्य दीप्तिः ।मनुष्यलोके द्युतिम् अङ्गनानाम् अन्तर्दधात्य् अप्सरसां तथा श्रीः ॥ ४४ ॥
महच् च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दम् अल्पम् ।गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान् हेतुर् अणोर् वधाय ॥ ४५ ॥
मुनेः प्रभावाच् च शशाक नन्दस् तद्दर्शनं सोढुम् असह्यम् अन्यैः ।अवितरागस्य हि दुर्बलस्य मनो दहेद् अप्सरसां वपुःष्रीः ॥ ४६ ॥
मत्वा ततो नन्दम् उदीर्णरागं भार्यानुरोधाद् अपवृत्तरागम् ।रागेण रागं प्रतिहन्तुकामो मुनिर् विरागो गिरम् इत्य् उवाच ॥ ४७ ॥
एताः स्त्रीयः पश्य दिवौकसस् त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वम् ।एताः कथं रूपगुणैर् मतास् ते स वा जनो यत्र गतं मनस् ते ॥ ४८ ॥
अथाप्सरःस् एव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः ।सगद्गगदं कामविषक्तचेताः कृताञ्जलिर् वाक्यम् उवाच नन्दः ॥ ४९ ॥
हर्यङ्गनासौ मुषितैकदृष्टिर् यदन्तरे स्यात् तव नाथ वध्वाः ।तदन्तरेऽसौ कृपणा वधूस् ते वौष्मतीर् अप्सरसः प्रतीत्य ॥ ५० ॥
आस्था यथा पूर्वम् अभून् न का चिद् अन्यासु मे स्त्रिषु निशाम्य भार्याम् ।तस्यां ततः सम्प्रति का चिद् आस्था न मे निशाम्यैव हि रूपम् आसाम् ॥ ५१ ॥
यथा प्रतप्तो मृदुनातपेन दह्येत कश् चिन् महतानलेन ।रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये ॥ ५२ ॥
वाग्वारिणा मां परिषिञ्च तस्माद् यावन् न दह्ये स इवाह्जशत्रुः ।राराग्निर् अद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रम् इवोत्थितोऽग्निः ॥ ५३ ॥
प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यम् अस्ति मे ।असून् विमोक्ष्यामि विमुक्तमानस प्रय्च्छ वा वागमृतं मुमूर्षवे ॥ ५४ ॥
अनर्थभोगेन विघातय्दृष्तिना प्रमाददंश्ट्रेण तमोविषाग्निना ।अहं हि दष्टो हृदि मन्मथाहिना विधत्स्य तस्माद् अगदं महाभिषक् ॥ ५५ ॥
अनेन दष्टो मदनाहिना हि ना न कश् चिद् आत्मन्य् अनवस्थितः स्थितः ।मुमोह वोध्योर् ह्य् अचलात्मनो मनो बभूव धीमांश् च स शन्तनुस् तनुः ॥ ५६ ॥
स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् ।यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन् मे कुरु शंसतः सतः ॥ ५७ ॥
ततो जिघांसुर् हृदि तस्य तत्तमस् तमोनुदो नक्तम् इवोत्थितं तमः ।महर्षिचन्द्रो जगतस् तमोनुदस् तमःप्रहीणो निजगाद गौतमः ॥ ५८ ॥
धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच् छ्रुतचेतसी शृणु ।इमा यदि प्रार्थयसे त्वम् अङ्गना विधत्स्व शुल्कार्थम् इहोत्तमं तपः ॥ ५९ ॥
इमा हि शक्या न बलान् न सेवया न संप्रदानेन न रूप्तवत्तया ।इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश् चर धर्मम् आदृतः ॥ ६० ॥
इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्य् अजराश् च योषितः ।इदं फलं स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न चाप्य् अहेतुतः ॥ ६१ ॥
क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद् धि लभेत वा न वा ।असंशयं यत् त्व् इह धर्मचर्यया भवेयुर् एता दिवि पुणकर्मणः ॥ ६२ ॥
तद् अप्रमत्तो नियमे समुद्यतो रमस्व यद्य् अप्सरसोऽभिलिप्ससे ।अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिर् नियतं समेष्यसि ॥ ६३ ॥
अतःपरं परमम् इति व्यवस्थितः परां धृतिम् परममुनौ चकार सः ।ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनर् अगमन् महीतलम् ॥ ६४ ॥
सौन्दरनन्दे महाकाव्ये स्वर्गनिदर्शनो नाम दशमः सर्गः ।