एकादशः सर्गः
ततस् ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः ।बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥ १ ॥
सोऽनिश्टनिऐष्क्रम्यरसो म्लानतामरसोपमः ।चचार विरसो धर्मं निवेश्याप्सरसो हृदि ॥ २ ॥
तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः ।इन्द्रियार्थवशाद् एव बभूव नियतेन्द्रियः ॥ ३ ॥
कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ॥ ४ ॥
संवृतेन च शान्तेन तीव्रेण मदनेन च ।जलाग्नेर् इव संसर्गाच् छशाम च शुशोष च ॥ ५ ॥
स्वभावदर्शनीयोऽपि वैरूप्यम् अगमत् परम् ।चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ ६ ॥
प्रस्तवेष्व् अपि भार्यायां प्रियभार्यस् तथापि सः ।वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे ॥ ७ ॥
तं व्यवस्थितम् आज्ञाय भार्यारागात् पराङ्मुखम् ।अभिगम्याभ्रवीन् नन्दम् आनन्दः प्रणयाद् इदम् ॥ ८ ॥
अहो सदृशम् आरब्धं श्रुतस्याभिजनस्य च ।निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ ९ ॥
अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।यद् इयं संविद् उत्पन्ना नेयम् अल्पेन हेतुना ॥ १० ॥
व्याधिर् अल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।प्रबलः प्रबलैर् एव यत्नैर् नश्यत्ति वा न वा ॥ ११ ॥
दुर्हरो मानसो व्याधिर् बलवांश् च तवाभवत् ।विनिवृत्तो यदि स ते सर्वथा धृतिमानसि ॥ १२ ॥
दुष्करं साध्व् अनार्येण मानिना चैव मार्दवम् ।अतिसर्गश् च लुब्धेन ब्रमचर्यं च रागिणा ॥ १३ ॥
एकस् तु मम संदेहस् तवास्यां नियमे धृतौ ।अत्रानुनयम् इच्छामि वक्तव्यं यदि मनसे ॥ १४ ॥
आर्जवाभिहितं वाक्यं न च गन्तव्यम् अन्यथा ।रूक्षम् अप्य् आशये शुद्धे रूक्षतो नैति सज्जनः ॥ १५ ॥
स्प्रियं हि हितं स्निग्धम् अस्निग्धम् अहितं प्रियं ।दुर्लभं तु प्रियहितं स्वादु पथ्यम् इवौषधम् ॥ १६ ॥
विश्वासश् चार्थचर्या च सामान्यं सुखदुःखयोः ।मर्षणं प्रणयश् चैव मित्रवृत्तिर् इयं सताम् ॥ १७ ॥
तद् इदं त्वा विवक्षामि प्रणयान् न जीघांसया ।त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्य् उपेक्षितुम् ॥ १८ ॥
अप्सरोभृतको धर्मं चरसीत्य् अभिदीयसे ।किम् इदं भूतम् आहोस्वित् प्ररिहासोऽयम् ईदृशः ॥ १९ ॥
यदि तावद् इदं सत्यं वक्ष्याम्य् अत्र युदषधम् ।औद्धत्यम् अथ वक्तॄमा अभिदास्यामि तत्त्वतः ॥ २० ॥
श्लक्ष्णपूर्वम् अथो तेन हृदि सोऽभिहतस् तदा ।ध्यात्वा दीर्घं निशश्वास किं चिच् चावाञ्मुखोऽभवत् ॥ २१ ॥
ततस् तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् ।बभाषे वाक्यम् आनन्दो मधुरोदर्कम् अप्रियम् ॥ २२ ॥
आकारेणावगच्छामि तव धर्मप्रयोजनम् ।यज् ज्ञात्वा त्वयि जातं मे हास्यं काउण्यम् एव च ॥ २३ ॥
यथासनार्थं स्कन्धेन कश् चिद् गुर्वीं शिलां वहेत् ।तद्वत् त्वम् अपि कामार्थं नियमं वोढुम् उद्यतः ॥ २४ ॥
तिताडयिषयासृप्तो यथा मेषोऽपसर्पति ।तद्वद् अब्रह्मचर्याय ब्रह्मचर्यम् इदं तव ॥ २५ ॥
चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ २६ ॥
यथा फलविशेषार्थं बीजं वपति कार्षकः ।तद्वद् विषयकार्पण्याद् विषयांस् त्यक्तवान् असि ॥ २७ ॥
आकाङ्क्षेच् च यथा रोगं प्रतीकारसुखेप्सया ।दुःखम् अन्विच्छति भवांस् तथा विषयतृश्णया ॥ २८ ॥
यथा पश्यति मध्व् एव न प्रपातम् अवेक्षते ।पश्यस्य् अप्सरसस् तद्वद् भ्रंशम् अन्ते न पश्यसि ॥ २९ ॥
हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् ।किम् इदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः ॥ ३० ॥
संसारे वर्तमानेन यदा चाप्सरसस् त्वया ।प्राप्तास् त्यक्ताश् च शतशस् ताभ्यः किम् इति ते स्पृहा ॥ ३१ ॥
तृप्तिर् नास्तीन्धनैर् अग्नेर् नाम्भसा लवणाम्भसः ।नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये ॥ ३२ ॥
अतृप्तौ च कुतः शान्तिर् अशान्तौ च कुतः सुखम् ।असुखे च कुतः पृतिर् अप्रीतौ च कुतो रतिः ॥ ३३ ॥
रिरंसा यदि ते तस्माद् अध्यात्मे धीयतां मनः ।प्रशान्त चानवद्या च नास्त्य् अध्यात्मसमा रतिः ॥ ३४ ॥
न तत्र कार्यं तूर्यैस् ते न स्त्रीभिर् न विभूषनैः ।एकस् त्वं यत्रत्रस्थस् तया रत्याभिरंस्यसे ॥ ३५ ॥
मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति ।तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ ३६ ॥
संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा ।कामेषु हि सटृष्ञस्य न शान्तिर् उपदद्यते ॥ ३७ ॥
कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर् न विद्यते ।वियोगान् नियतः शोको वियोगश् च ध्रुवो दिवि ॥ ३८ ॥
कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् ।नृलोकं पुनर् एवैति प्रवासात् स्वगृहं यथा ॥ ३९ ॥
यदा भ्रष्टस्य कुशलं शिष्टं किं चिन् न विद्यते ।त्रियक्षु पितृलोके वा नरके वोपपद्यते ॥ ४० ॥
तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि ।भ्रष्टस्यार्तस्य दुःखेन किम् आस्वादः करोति सः ॥ ४१ ॥
श्येनाय प्राणिवात्सल्यात् स्वमांसान्य् अपि दत्तवान् ।शिभिः स्वर्गात् परिभ्रष्टस् तादृक् कृत्वापि दुष्करम् ॥ ४२ ॥
शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः ।सदेवतं गते काले मान्धाताधः पुनर् ययौ ॥ ४३ ॥
राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते ॥ ४४ ॥
तथैवेलिविलो राज राजवृत्तेन संस्कृतः ।स्वर्गं गत्वा पुनर् भ्रष्टः कूर्मीभूतः किलार्णवे ॥ ४५ ॥
भूर्दियुम्नो ययातिश् च ते चान्ये च नृपर्षभाः ।कर्मभिर् द्याम् अभिक्रीय तत्क्षयात् पुनर् अत्यजन् ॥ ४६ ॥
असुराः पूर्वद्वास् तु सुरैर् अपहृतश्रियः ।श्रियं समनुशोचन्तः पातालं शरञं ययुः ॥ ४७ ॥
किं च राजर्षिभिस् तावद् असुरैर् वा सुरादिभिः ।महेन्द्राः शतशः पेतुर् माहात्म्यम् अपि न स्थिरम् ॥ ४८ ॥
संसदं शोभयित्वैन्द्रीम् उपेन्द्रश् च त्रिविक्रमः ।क्षीणकर्मा पपातोव्रिं मध्याद् अप्सरसां रसन् ॥ ४९ ॥
हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये ।इत्य् आर्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ॥ ५० ॥
तीव्रं ह्य् उप्तद्यते दुःखम् इह तावन् मुमूर्षताम् ।किं पुनः पततां स्वर्गाद् एवान्ते सुखसेविनाम् ॥ ५१ ॥
रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।गात्रेभ्यो जायते स्वेदो रतिर् भवति नासने ॥ ५२ ॥
एतान्य् आदौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् ।अनिष्टानिव मर्त्यानाम् अरिष्टानि मुमूर्षताम् ॥ ५३ ॥
सुखम् उत्पद्यते यच् च दिवि कामान् उपाश्नताम् ।यच् च दुःखं निपततां दुःखम् एव विषिष्यते ॥ ५४ ॥
तस्माद् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकम् ।विज्ञाय क्षयिणं स्वर्गम् अपवर्गे मतिं कुरु ॥ ५५ ॥
अशरीरं भवाग्रं हि गत्वापि मुनिर् उद्रकः ।कर्मणोऽन्ते च्युतस् तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥
मैत्रया स्प्तवार्षिक्या ब्रह्मलोकम् इतो गतः ।सुनेत्रः पुनर् आवृत्तो गर्भवासम् उपेयिवान् ॥ ५७ ॥
यद चैश्व्चर्यवन्तोऽपि क्षयिञः स्वर्गवासिनः ।को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः ॥ ५८ ॥
सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतोऽपि भूयः ।अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनर् एति लोकः ॥ ५९ ॥
कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्य् अतीत्य समयं भूयो विशेद् बन्धनम् ।तद्वद् द्यां प्रतिभूवद् आत्मनियमैर् ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्व् आकृष्यते गां पुनः ॥ ६० ॥
अन्तर्जालगताः प्रमत्तमनसो मिनास् तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश् चरन्त्य् अम्भसि ।अन्तर्लोकगताः कृतार्थमतयस् तद्वद् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतं ध्रुवम् इति स्वं स्थानम् आवर्तकम् ॥ ६१ ॥
तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगद् इदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च ।यत् त्राणं निर्भयं यच् छिवम् अमरजरं निःषोकम् अमृतं तद्धेतोर् ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिम् ॥ ६२ ॥
सौन्दरनन्दे महाकाव्ये स्वर्गापवादो नामैकदशः सर्गः ।