१२ सौन्दरनन्दम् Click on words to see what they mean. द्वादशः सर्गः ▼ Permalink Bookmark अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः ।आनन्देन तदा नन्दः परं व्रीडम् उपागमत् ॥ १ ॥ ▼ Permalink Bookmark तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् ।अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ २ ॥ ▼ Permalink Bookmark कामरागप्रधानोऽपि परिहाससमोऽपि सन् ।परिपाकगते हेतौ न स तन् ममृषे वचः ॥ ३ ॥ ▼ Permalink Bookmark अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् ।तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान् ॥ ४ ॥ ▼ Permalink Bookmark तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः ।महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः ॥ ५ ॥ ▼ Permalink Bookmark स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् ।मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः ॥ ६ ॥ ▼ Permalink Bookmark विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा ।तथानित्यतयोद्विग्नस् तत्याजाप्सरसोऽपि सः ॥ ७ ॥ ▼ Permalink Bookmark महताम् अपि भूतानाम् आवृत्ति इति चिन्तयन् ।संवेगाच् च सरागोऽपि वीतराग इवाभवत् ॥ ८ ॥ ▼ Permalink Bookmark बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये ।धातुर् एधिर् इवाख्याते पठितोऽक्षरचिन्तकैः ॥ ९ ॥ ▼ Permalink Bookmark न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः ।त्रिषु कालेषु सर्वेषु निपातोऽस्तिर् इव स्मृतः ॥ १० ॥ ▼ Permalink Bookmark खेलगामी महाबाहुर् गजेन्द्र इव निर्मदः ।सोऽभ्यगच्छद् गुरुं कले विवक्षुर् भावम् आत्मनः ॥ ११ ॥ ▼ Permalink Bookmark प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् अवाञ्मुखः ॥ १२ ॥ ▼ Permalink Bookmark अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि ।नाप्सरोभिर् ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्य् अहम् ॥ १३ ॥ ▼ Permalink Bookmark श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् ।न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते ॥ १४ ॥ ▼ Permalink Bookmark यदि प्राप्य दिवं यत्नान् नियमेन दमेन च ।अवितृप्ताः पतनत्य् अन्ते स्वर्गाय त्यागिने नमः ॥ १५ ॥ ▼ Permalink Bookmark अतश् च निखिलं लोकं विदिबा सचराचरम् ।सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ १६ ॥ ▼ Permalink Bookmark तस्माद् व्यासमासाभ्यां तन् मे व्याख्यातुम् अर्हसि ।यच् छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् ॥ १७ ॥ ▼ Permalink Bookmark ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।श्रेयश् चैवामुखीभूतं निजगाद तथागतः ॥ १८ ॥ ▼ Permalink Bookmark अहो प्रत्यवमर्शोऽयं श्रेयसस् ते पुरोजवः ।अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः ॥ १९ ॥ ▼ Permalink Bookmark चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः ।अवतिर्णोऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया ॥ २० ॥ ▼ Permalink Bookmark अद्य ते सफलं जन्म लाभोऽद्य सुमहांस् तव ।यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ २१ ॥ ▼ Permalink Bookmark लोकेऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः ।व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः ॥ २२ ॥ ▼ Permalink Bookmark दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः ।अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते ॥ २३ ॥ ▼ Permalink Bookmark ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु ।कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम् ॥ २४ ॥ ▼ Permalink Bookmark सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव ।विषं पीत्वा यद् अगदं समये पातुम् इच्छसि ॥ २५ ॥ ▼ Permalink Bookmark अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् ।रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः ॥ २६ ॥ ▼ Permalink Bookmark रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।सदोषम् सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ २७ ॥ ▼ Permalink Bookmark ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् ।रजसा चण्डवातेन विवस्वत इव प्रभा ॥ २८ ॥ ▼ Permalink Bookmark सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते ।तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ २९ ॥ ▼ Permalink Bookmark युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः ।यत् ते स्यान् नैष्ठिके सूक्ष्मे श्रेयसि श्रक़्द्दधानता ॥ ३० ॥ ▼ Permalink Bookmark धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि ।सर्वधर्मा हि धर्मज्ञ नियमाच्x छन्दहेतवः ॥ ३१ ॥ ▼ Permalink Bookmark सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ ३२ ॥ ▼ Permalink Bookmark अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा ।अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम् ॥ ३३ ॥ ▼ Permalink Bookmark नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ ।मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते ॥ ३४ ॥ ▼ Permalink Bookmark सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि ॥ ३५ ॥ ▼ Permalink Bookmark अतश् च हस्त इत्य् उक्ता मया श्रद्धा विशेषतः ।यस्माद् गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः ॥ ३६ ॥ ▼ Permalink Bookmark प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः ।गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता ॥ ३७ ॥ ▼ Permalink Bookmark रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता ।लोकेऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् अभिहाषिता ॥ ३८ ॥ ▼ Permalink Bookmark पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा ।पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः ॥ ३९ ॥ ▼ Permalink Bookmark यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् ।मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा ॥ ४० ॥ ▼ Permalink Bookmark श्रद्धाञ्कुरम् इमं तस्मात् संवर्धयितुम् अर्हसि ।तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ ४१ ॥ ▼ Permalink Bookmark व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ॥ ४२ ॥ ▼ Permalink Bookmark यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा ।दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च ॥ ४३ ॥ ▼ Permalink Bookmark सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः । ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha