त्रयोदशः सर्गः
अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना ।परिक्षिक्तोऽमृतेनेव युयुजे परया मुदा ॥ १ ॥
कृतार्थम् इव तं मेने संबुद्धः श्रद्धया तया ।मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः ॥ २ ॥
श्लक्ष्णेन वचसा कांश् चित् कांश् चित् परुषया गिरा ।कांश् चिद् आभ्याम् उपायाभ्यां स विनिन्ये विनायकः ॥ ३ ॥
पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि ।स्थितं पांसुष्व् अपि यथा पांसुदोषैर् न लिप्यते ॥ ४ ॥
पद्मपर्णं यथा चैव जले जातं जले स्थिथम् ।उपरिष्टाद् अधस्ताद् वा न जलेन्दोपलिप्यते ॥ ५ ॥
तद्वल् लोके मुनिर् जातो लोकस्यानुग्रहं चरन् ।कृतित्वान् निर्मलत्वाच् च लोकधर्मैर् न लियते ॥ ६ ॥
श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानम् एव च ।मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥ ७ ॥
अतश् च संदधे दायं महाकरुणया तया ।मोचयेयं कथं दुःखात् सत्त्वानीत्य् अनुकम्पकः ॥ ८ ॥
अथ संहर्षणान् नदं विदित्वा भाजनीकृतम् ।अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ ९ ॥
अतः प्रभृति भूयस् त्वं श्रद्धेन्द्रियपुरःसरः ।अमृतस्याप्तये सौम्य वृत्तं रक्षितुम् अर्हसि ॥ १० ॥
प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।उत्तानो निवृतो गुप्तोऽनवच्छिद्रस् तथा कुरु ॥ ११ ॥
उत्तानो भावकरञाद् विवृतश् चाप्य् अगूहनात् ।गुप्तो रक्षणतात्पर्याद् अच्छिद्रश् चानवद्यतः ॥ १२ ॥
शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि ।आजीवसमुदाचारं शौचात् संस्कर्तुम् अर्हसि ॥ १३ ॥
दोषानां कुहनादीनां पञ्चानाम् अनिषेवणात् ।त्यागाच् च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ १४ ॥
प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् ।भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ १५ ॥
पर्तिउष्टः शुचिर् मञ्जुश् चौक्षया जीवसंपदा ।कुर्या दुःखप्रतीकारं यावद् एव विमुक्तये ॥ १६ ॥
कर्मञो हि यथादृष्तात् कायवाक्प्रभवाद् अपि ।आजीवः पृथग् एवोक्तो दुःषोधत्वाद् अयं मया ॥ १७ ॥
गृहस्थेन हि दुःशोब्धा दृष्टिर् विविधदृष्टिना ।आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना ॥ १८ ॥
एतावच् छीलम् इत्य् उक्तम् आचाअरोऽयं समासतः ।अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता ॥ १९ ॥
तस्माच् चारित्रसंपन्नो ब्रह्मचर्यम् इदं चर ।अणुमात्रेष्व् अवद्येषु भयदर्शि दृढव्रतः ॥ २० ॥
शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ २१ ॥
मोक्षस्योपनिषत् सौम्य वैराग्यम् इति गृह्यताम् ।वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनम् ॥ २२ ॥
ज्ञानस्योपनिषच् चैव समाधिर् उपधार्यताम् ।समाधेर् अप्य् उपनिषत् सुखं शरीरमानसम् ॥ २३ ॥
पश्रब्धिः कायमनसः सुखस्योपनिषत्परा ।प्रशब्धेर् अप्य् उपनिषत् प्रामोद्यं परमं ममतम् ॥ २४ ॥
तथः प्रीतेर् उपनिषत् प्रामोद्यं परमं मतम् ।प्रामोद्यस्याप्य् अहृल्लेखः कुकृतेष्व् अकृतेषु वा ॥ २५ ॥
अहृल्लेखस्य मनसः शीलं तूपनिषच् छुचि ।अतः शीलं नयत्य् अग्र्यम् इति शीलं विशोधय ॥ २६ ॥
शीलनाच् छीलम् इत्य् उक्तं शीलनं सेवनाद् अपि ।सेवनं तन्निदेशाच् च निदेशश् च तदाश्रयात् ॥ २७ ॥
शीलं हि शरणं सौम्य कान्तार इव दैशिकः ।मित्रं बन्धुश् च रक्षा च धनं च बलम् एव च ॥ २८ ॥
यतः शीलम् अतः सौम्य शीलं संस्कर्तुम् अर्हसि ।एतत् स्थानम् अथान्ये च मोक्षारम्भेषु योगिनां ॥ २९ ॥
ततः स्मृतिम् अधिष्ठाय चपलानि स्वभावतः ।इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुम् अर्हसि ॥ ३० ॥
भेतव्यं न तथा शत्रोर् नाग्नेर् नाहेर् न चाशनेः ।इन्द्रियेभ्यो यथा स्वेभ्यस् तैर् अजस्रं हि हन्यते ॥ ३१ ॥
द्विषब्धिः शत्रुभिः कश् चित् कदा चित् पीड्यते न वा ।इन्द्रियैर् बाध्यते सर्वः सर्वत्र च सदैव च ॥ ३२ ॥
न च प्रयाति नरकं शत्रुप्रभृथिभिर् हतः ।कृष्यते तत्र निघ्नस् तु चपलैर् इन्द्रियैर् हतः ॥ ३३ ॥
हन्यमानस्य तैर् दुःखं हार्दं भवति वा न वा ।इन्द्रियैर् बाध्यमानस्य हार्दं शारीरम् एव च ॥ ३४ ॥
संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः ।चिन्तापुङ्खा रैफला विषयाकाशगोचराः ॥ ३५ ॥
मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि ।विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ ३६ ॥
नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।निपतन्तो निवार्यास् ते महता स्मृतिवर्मणा ॥ ३७ ॥
इन्द्रियाणाम् उपशमाद् अरीणां निग्रहाद् इव ।सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ ३८ ॥
तेषां हि सततं लोके विषयाण् अभिकाङ्क्षताम् ।संविन् नैवास्ति कार्पण्याच् छुनाम् आशावताम् इव ॥ ३९ ॥
विषयैर् इन्द्रियग्रामो न तृप्तिम् अधिगच्छति ।अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैर् इव ॥ ४० ॥
अवश्यं गोचरे स्वे स्वे वर्तितव्यम् इहेन्द्रियैः ।निमित्तं तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च ॥ ४१ ॥
आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।स्त्री वेति पुरुषो वेति न कल्पयितुम् अर्हसि ॥ ४२ ॥
सचेत् स्त्रीपुरुषग्राहः क्व चिद् विद्येत कास् चन ।शुभतः केशदन्तादीन् नानुप्रस्थातुम् अर्हसि ॥ ४३ ॥
नापनेयं भूततो भूतं शश्वद् इन्दियगोचरे ।द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत् ॥ ४४ ॥
एवं ते पश्यतस् तत्त्वं शश्वद् इन्द्रियगोचरे ।भविष्यति पदस्थानं नाभियादौर्मनस्ययोः ॥ ४५ ॥
अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।अरिर् मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ ४६ ॥
दौर्मनस्याभिधानस् तु प्रतिघो विषयाश्रितः ।मोहाद् येनानुवृत्तेन परत्रेह च हन्यते ॥ ४७ ॥
अनुरोधविरोधाभ्यां शितोष्णाभ्याम् इवार्दितः ।शर्म नाप्नोति न श्रेयश् चलेन्द्रिचम् अतो जगत् ॥ ४८ ॥
नेन्द्रियं विषये तावत् प्रवृत्तम् अपि सज्जते ।यावन् न मनसस् तत्र परिकल्पः प्रवर्तते ॥ ४९ ॥
इन्धने सति वायौ च यथा ज्वलति पावकः ।विषयात् परिकल्पाच् च क्लेशाग्निर् जायते तथा ॥ ५० ॥
अभूतपरिकल्पेन विषयस्य हि बध्यते ।तम् एव विषयं पश्यन् भूततः परिमुच्यते ॥ ५१ ॥
दृष्ट्वैकं रूपम् अन्यो हि रज्यतेऽन्यः प्रदुष्यति ।कश् चिद् भवति मध्यस्थस् तत्रैवान्यो घृणायते ॥ ५२ ॥
अतो न विषयो हेतुर् बन्धाय न विमुक्तये ।परिकल्पविषेषेण संगो भवति वा न वा ॥ ५३ ॥
कार्यः परमयत्नेन तस्माद् इन्दियसंवरः ।इन्द्रियाणि ह्य् अगुप्तानि दुःखाय च भवाय च ॥ ५४ ॥
कामभोगभोगवद्भिर् आमदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः ।इन्द्रियोरगैर् मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टम् अस्ति यच् चिकित्सेत् ॥ ५५ ॥
तस्माद् एषाम् अकुषलकराणाम् अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानाम् ।सर्वावस्थं भव विनियमाद् अप्रमत्तो मास्मिन्न् अर्थे क्षणम् अपि कृथास त्वं प्रमादं ॥ ५६ ॥
सौन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः ।