४ सौन्दरनन्दम् Click on words to see what they mean. चतुर्थः सर्गः ▼ Permalink Bookmark मुनौ ब्रुवाञेऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु ।प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ॥ १ ॥ ▼ Permalink Bookmark स चक्रवाक्येव हि चक्रवाकस् तया समेतः प्रियया प्रियार्हः ।नाचिन्तयद् वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मम् ॥ २ ॥ ▼ Permalink Bookmark लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति ।दीप्त्या च मानेन च भामिनीति यतो बभाषे त्रिविधेन नाम्ना ॥ ३ ॥ ▼ Permalink Bookmark सा हासहंसा नयन्द्विरेफा पीनस्तनात्युन्नतपद्मकोशा ।भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ॥ ४ ॥ ▼ Permalink Bookmark रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन ।मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ ५ ॥ ▼ Permalink Bookmark सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश् च नन्दः ।अतीत्य मर्त्यान् अनुपेत्य देवान् सृष्टाव् अभूताम् इव भूतधात्रा ॥ ६ ॥ ▼ Permalink Bookmark तां सुन्दरीं चेन् न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः ।द्वन्दं ध्रुवं तद् विकलं न शोभेतान्योन्यहीनाव् इव रात्रिचन्द्रौ ॥ ७ ॥ ▼ Permalink Bookmark कन्दर्परत्योर् इव लक्ष्यभूतं प्रमोदनान्द्योर् इव नीडभूतम् ।प्रहर्षतुष्ट्योर् इव पात्रभूतं द्वन्दं सहारंस्त मदान्धभूतम् ॥ ८ ॥ ▼ Permalink Bookmark परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् ।परस्पराश्लेषहृताण्गरागं परस्परं तन् मिथुनं जहार ॥ ९ ॥ ▼ Permalink Bookmark भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाव् इवोभौ ।चिक्रीडतुश् चाभिविरेजतुश् च रूपश्रियान्योन्यम् इवाक्षिपन्तौ ॥ १० ॥ ▼ Permalink Bookmark अन्योन्यसंरागविवर्धनेन तद् द्वन्द्वम् अन्योन्यम् अरीरमच् च ।क्लमान्तरेऽन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदच् च ॥ ११ ॥ ▼ Permalink Bookmark विभूषयाम् आस ततः प्रियां स सिषेविषुस् तां न मृजावहार्थम् ।स्वेनैव रूपेण विभूषिता हि विभूषणानाम् अपि भुषणं सा ॥ १२ ॥ ▼ Permalink Bookmark दत्त्वाथ सा दर्पणम् अस्य हस्ते ममाग्रतो धारय तावद् एनम् ।विशेषकं यावद् अहं करोमीत्य् उवाच कान्तं स च तं बभार ॥ १३ ॥ ▼ Permalink Bookmark भर्तुस् ततः श्मश्रु निरीक्षमाणा विशेषकङ् सापि चकार तादृक् ।निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः ॥ १४ ॥ ▼ Permalink Bookmark सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास ।भवेच् च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ॥ १५ ॥ ▼ Permalink Bookmark चिक्षेप कर्णोत्पलम् अस्य चांसे करेञ सव्येन मदालसेन ।पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य ताम् एव विनिर्दुधाव ॥ १६ ॥ ▼ Permalink Bookmark ततश् चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोधासितराङ्गुलिभ्याम् ।पध्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान् नाम ननाम नदः ॥ १७ ॥ ▼ Permalink Bookmark स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे ।सुवर्णवेद्याम् अनिलावभग्नः पुष्पातिभाराद् इव नागवृक्षः ॥ १८ ॥ ▼ Permalink Bookmark सा तं स्तनोद्वर्तितहारष्टिर् उत्थापयाम् आस निपीड्य दोर्भ्याम् ।कथं कृतोऽसीति जहास चोच्चैर् मुखेन साचीकृतकुण्डलेन ॥ १९ ॥ ▼ Permalink Bookmark पत्युस् ततो दर्पणसक्तपाणेर् मुहुर्मुहुर् वक्त्रम् अवेक्षमाणा ।तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ २० ॥ ▼ Permalink Bookmark तस्या मुखङ् तत् सतमालपत्त्रङ् ताम्राधरौष्ठं चिकुरायताक्षम् ।रक्ताधिकाग्रं पतितद्विरेफङ् सशैवलङ् पद्मम् इवाबभासे ॥ २१ ॥ ▼ Permalink Bookmark नन्दस् ततो दर्पणम् आदरेण बिभ्रत् तदामण्डनसाक्षिभूतम् ।विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श ॥ २२ ॥ ▼ Permalink Bookmark तत् कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् इवारविन्दम् ।नन्दः प्रियाया मुखम् ईक्षमाणो भूयः प्रियानन्दकरो बभूव ॥ २३ ॥ ▼ Permalink Bookmark विमानकल्पे स विमानगर्भे ततस् तथा चैव नन्दन नन्दः ।तथागतश् चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म ॥ २४ ॥ ▼ Permalink Bookmark अवाङ्मुखो निष्प्रणयश् च तस्थौ भ्रातु गृहेऽन्यस्य गृहे यथैव ।तस्माद् अथो प्रेष्यजनप्रमादाद् भिक्षाम् अलब्धैव पुनर् जगाम ॥ २५ ॥ ▼ Permalink Bookmark का चित् पिपेषाङ्गविलेपनं हि वासोऽङ्गना का चिद् अवासयच् च ।अयोजयत् स्नानविधिं तथान्या जग्रन्थुर् अन्याः सुरभीः स्रजश् च ॥ २६ ॥ ▼ Permalink Bookmark तस्मिन् गृहे भर्तुर् अतश् चरन्त्यः क्रीडानुरूपं ललितं नियोगम् ।काश् चिन् न बुद्धं ददृशुर् युवत्यो बुद्धस्य वैषा नियतङ् मनीषा ॥ २७ ॥ ▼ Permalink Bookmark का चित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।विनिष्पतन्तं सुगतं ददर्श पयोदगर्भाद् इव दीप्तम् अर्कम् ॥ २८ ॥ ▼ Permalink Bookmark सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश् च ।नन्दस्य तस्थौ पुरतो विवक्षुस् तदाज्ञया चेति तदाचचक्षे ॥ २९ ॥ ▼ Permalink Bookmark अनुग्रहायास्य जनस्य शङ्के गुरुर् गृहं नो भगवान् प्रविष्टः ।भिक्षाम् अलब्ध्वा गिरम् आसनं वा सून्याद् अरण्याद् इव याति भूयः ॥ ३० ॥ ▼ Permalink Bookmark श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनःप्रयाणम् ।चचाल चित्राभरणाम्बरस्रक् कल्पद्रुमो धूत इवानिलेन ॥ ३१ ॥ ▼ Permalink Bookmark कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।कर्तुं गमिष्यामि गुरौ प्रणामं माम् अभ्यनुज्ञातुम् इहार्हसीति ॥ ३२ ॥ ▼ Permalink Bookmark सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचोऽभ्युवाच ॥ ३३ ॥ ▼ Permalink Bookmark नाहं यियासोर् गुरुदर्शनार्थम् अर्हामि कर्तुं तव धर्मपीडाम् ।गच्छार्यपुत्रैहि च शीघ्रम् एव विशेषको यावद् अयङ् न शुष्कः ॥ ३४ ॥ ▼ Permalink Bookmark सचेद् भवेस् त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयम् ।मुहुर्मुहुस् त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ ३५ ॥ ▼ Permalink Bookmark अथाप्य् अनाश्यानविशेषकायां मय्य् एष्यसि त्वं त्वरितं ततस् त्वाम् ।निपीडयिष्यामि भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन ॥ ३६ ॥ ▼ Permalink Bookmark इत्य् एवम् उक्तश् च निपीडितश् च तयासवर्णस्वनया जगाद ।एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर् दूरगतो न मे सः ॥ ३७ ॥ ▼ Permalink Bookmark ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर् बभार ॥ ३८ ॥ ▼ Permalink Bookmark सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी ।स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तस्ं मृगं भ्रान्तं मृगङ् भ्रान्तं मुखी मृगीव ॥ ३९ ॥ ▼ Permalink Bookmark दिदृक्षयाक्षिप्तमना मुनेस् तु नन्दः प्रयाणं प्रति तत्वरे च ।विवृत्तदृष्टिश् च शनैर् ययौ तां करीव पश्यन् स लडत्करेञुम् ॥ ४० ॥ ▼ Permalink Bookmark छातोदरिं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीम् इवाद्रेः ।काक्षेण पश्यन् न ततर्प नन्दः पिबन्न् इवैकेन जलं करेण ॥ ४१ ॥ ▼ Permalink Bookmark तङ् गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनर् आचकर्ष ।सऽनिश्चयान् नापि ययौ न तस्थौ तुरंस् तरङ्गेष्व् इव राजहंसः ॥ ४२ ॥ ▼ Permalink Bookmark अदर्शनं तूपगतश् च तस्या हर्म्यात् ततश् चावततार तूर्णम् ।श्रुत्वा ततो नूपुरनिस्वनं स पुनर् ललम्बे हृदये गृहीतः ॥ ४३ ॥ ▼ Permalink Bookmark स कामरागेञ निगृह्यमाणो धर्मानुरागेञ च कृष्यमाणः ।जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः ॥ ४४ ॥ ▼ Permalink Bookmark ततः क्रमैर् दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर् भवेद् इति ।स्वजेय तां चैव विशेषकप्रियां कथं प्रियाम् आर्द्रविशेषकाम् इति ॥ ४५ ॥ ▼ Permalink Bookmark अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथागताभिमानम् ।दशबलम् अभितो विलम्बमानं ध्वजम् अनुयान इवैन्द्रम् अर्च्यमानम् ॥ ४६ ॥ ▼ Permalink Bookmark सौन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः । ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha