७ सौन्दरनन्दम् Click on words to see what they mean. सप्तमः सर्गः ▼ Permalink Bookmark लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन् न तु चेतसा तत् ।भार्यागतैर् एव मनोवितकैर् जेह्रीयमाणो न ननन्द नन्दः ॥ १ ॥ ▼ Permalink Bookmark स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ २ ॥ ▼ Permalink Bookmark स्थितः स दीनः सहकारवीथ्याम् आलीनसंमूर्छितषत्पदायाम् ।भृशं जजृम्भे युगदीर्घबाहुर् ध्यात्वा प्रियां चापम् इवाचकर्ष ॥ ३ ॥ ▼ Permalink Bookmark स पितक्षोदम् इव प्रतीच्छन् चूतद्रुम्भेयस् तनुपुष्पवर्षम् ।दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ॥ ४ ॥ ▼ Permalink Bookmark शोकस्य हर्ता शरणागतानां शोकस्य कर्ता प्रतिगर्वितानाम् ।अशोकम् आलम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच ॥ ५ ॥ ▼ Permalink Bookmark प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीताम् इव निष्पतन्तिम् ।सस्मार ताम् अश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम् ॥ ६ ॥ ▼ Permalink Bookmark पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् ।संकल्पयाम् आस शिखां प्रियायाः शुक्लांशुकेऽट्टालम् अपास्रितायाः ॥ ७ ॥ ▼ Permalink Bookmark लतां प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् ।निशाम्य चिन्ताम् अगमत् तदैवं श्लिष्टाभवन् माम् अपि सुन्दरीति ॥ ८ ॥ ▼ Permalink Bookmark पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैर् इव हेमगर्भैः ।कान्तारवृक्षा इव दुःखितस्य न चक्षुर् आचिक्षिपुर् अस्य तत्र ॥ ९ ॥ ▼ Permalink Bookmark गन्धं वसन्तोऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः ।तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर् हृदयं प्रतेपुः ॥ १० ॥ ▼ Permalink Bookmark संरक्तकण्ठैश् च विनीलकण्ठैस् तुष्टैः प्रहृष्टैर् अपि चान्यपुष्टैः ।लेलिह्यमानैश् च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद ॥ ११ ॥ ▼ Permalink Bookmark स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन ।कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत् तत् ॥ १२ ॥ ▼ Permalink Bookmark अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।त्यक्त्वा प्रियाम् अश्रुमुखीं तपो ये चेरुश् चरिष्यन्ति चरन्ति चैव ॥ १३ ॥ ▼ Permalink Bookmark तावद् दृढं बन्धनम् अस्ति लोके न दारवं तान्तवम् आयसं वा ।यावद् दृढं बन्धनम् एतद् एव मुखं चल्श्क्षं ललितं च वाक्यम् ॥ १४ ॥ ▼ Permalink Bookmark छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच् चैव सुहृद्बलाच् च ।ज्ञानाच् च रौक्ष्याच् च विना विमोक्तुं न शक्यते स्नेहमयस् तु पाशः ॥ १५ ॥ ▼ Permalink Bookmark ज्ञानं न मे तच् च शमाय यत् स्यान् न चास्ति रौक्ष्यं करुणात्मकोऽस्मि ।कामात्मकश् चास्मि गुरुश् च बुद्धः स्थितोऽन्तरे चक्रगतेर् इवास्मि ॥ १६ ॥ ▼ Permalink Bookmark अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विर्गुरुणानुशिष्टः ।सर्वास्व् अवस्थासु लभे न शान्तिं प्रियावियोगाद् इव चक्रवाकः ॥ १७ ॥ ▼ Permalink Bookmark अद्यापि तन् मे हृदि वर्तते च यद् दर्पणे व्याकुलिते मया सा ।कृतानृतक्रोधकम् अब्रवीन् मां कथं कृतोऽसीति शठं हसन्ती ॥ १८ ॥ ▼ Permalink Bookmark यथैष्य् अनाश्यानविशेषकायां मयीति यन् माम् अवदच् च साश्रु ।पारिप्लवाक्षेण मुखेन बाला तन् मे वचोऽद्यापि मनो रुणद्धि ॥ १९ ॥ ▼ Permalink Bookmark बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुर् एषः ।सक्तः क्व चिन् नाहम् इवैष नूनं शान्तस् तथा तृप्त इवोपविष्टः ॥ २० ॥ ▼ Permalink Bookmark पुंस्कोकिलानाम् अविचिन्त्य घोषं वसन्तलक्ष्म्याम् अविचार्य चक्षुः ।शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥ २१ ॥ ▼ Permalink Bookmark अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।शान्तात्मनेऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ २२ ॥ ▼ Permalink Bookmark निरीक्षमाणाय जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् ।कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ २३ ॥ ▼ Permalink Bookmark भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद् धि नास्मद्विधम् आषिपेयुः ॥ २४ ॥ ▼ Permalink Bookmark कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवान् अहल्याम् ।सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहम् ॥ २५ ॥ ▼ Permalink Bookmark सूर्यः सरण्यूं प्रति जातरागस् तत्प्रीतये तष्ट इति श्रुतं नः ।याम् अश्वभूतोऽश्ववधुं समेत्य यतोऽश्विनौ तौ जनयां बभूव ॥ २६ ॥ ▼ Permalink Bookmark स्त्रीकारणं वैरविषक्तबुद्ध्योर् वैवस्वताग्न्योश् चलितात्मधृत्योः ।बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेद् इहान्यः ॥ २७ ॥ ▼ Permalink Bookmark भेजे श्वपाकीं मुनिर् अक्षमालां कामाद् वैष्ठश् च स सद्वरिष्टः ।यस्यां विवस्वान् इव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ॥ २८ ॥ ▼ Permalink Bookmark पराशः शापशरस् तहर्षिः कालीं सिषेवे झषगर्भयोनिम् ।सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता ॥ २९ ॥ ▼ Permalink Bookmark द्वैपायनो धर्मपरायञश् च रेमे समं काशिषु वेश्यवध्व ।यया हतोऽभूच् चलनूपुरेञ पादेन विद्युल्लतयेव मेघः ॥ ३० ॥ ▼ Permalink Bookmark तथाञ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥ ३१ ॥ ▼ Permalink Bookmark तथा नृपर्षेर् दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।स्रुचं गृहीत्वा स्रवद् आत्मतेजश् चिक्षेप वह्नाव् असितो यतोऽभूत् ॥ ३२ ॥ ▼ Permalink Bookmark तथाङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनाम् अगच्छत् ।धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव ॥ ३३ ॥ ▼ Permalink Bookmark निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः ।चचाल धैर्यान् मुनिर् ऋष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः ॥ ३४ ॥ ▼ Permalink Bookmark ब्रह्मर्षिभावार्थम् अपास्य राज्यं भेजे वनं यो विषयेष्व् अनास्थः ।स गाधिजश् चापहृतो घृताच्या समा दशैकं दिवसं विवेद ॥ ३५ ॥ ▼ Permalink Bookmark तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ ।यः कामरोषात्मतयानपेक्षः शशाप ताम् अप्रतिगृह्यमाणः ॥ ३६ ॥ ▼ Permalink Bookmark प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् ।संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष ॥ ३७ ॥ ▼ Permalink Bookmark नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर् विभुधप्रभावः ।तथोर्वशीम् अप्सरसं विचिन्त्य राजर्षिर् उन्मादम् अगच्छद् ऐडः ॥ ३८ ॥ ▼ Permalink Bookmark रक्तो गिरेर् मूर्धनि मेनकायां कामात्मकत्वाच् च स ताल्जङ्घः ।पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ ३९ ॥ ▼ Permalink Bookmark नाशं गतायां परमाङ्गनायां गङ्गाजलेऽनङ्गपरीतचेताः ।जह्नुश् च गङ्गां नृपतिर् भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ ४० ॥ ▼ Permalink Bookmark नृपश् च गङ्गाविरहाज् जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः ।कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुर् अस्वतन्त्रः ॥ ४१ ॥ ▼ Permalink Bookmark हृतां च सौनन्दकिनानुशोचन् प्राप्ताम् इन्वोर्वीं स्त्रियम् उर्वशीं ताम् ।सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोधवभिन्नवर्मा ॥ ४२ ॥ ▼ Permalink Bookmark भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः ।बलेन सेनाक इति प्रकाशः सेनापतिर् देव इवात्तसेनः ॥ ४३ ॥ ▼ Permalink Bookmark स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन् जनमेजयः सः ।अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्म्हथम् उत्ससर्जे ॥ ४४ ॥ ▼ Permalink Bookmark शप्तश् च पाण्डुर् मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः ।जगाम माद्रीं न महर्षिशापाद् असेव्यसेवी विममर्श मृत्युम् ॥ ४५ ॥ ▼ Permalink Bookmark एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः ।धिया च सारेण च दुर्बलः सन् प्रियाम् अपश्यन् किमु विक्लवोऽहम् ॥ ४६ ॥ ▼ Permalink Bookmark यास्यामि तस्माद् गृहम् एव भूयः कामं करिष्ये विधिवत् सकामम् ।न ह्य् अन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच् च्युतस्य ॥ ४७ ॥ ▼ Permalink Bookmark पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः ।यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥ ४८ ॥ ▼ Permalink Bookmark यो निःसृतश् च न च निःसृतकामरागः काषायम् उद्वहति यो न च निष्कसायः ।पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः ॥ ४९ ॥ ▼ Permalink Bookmark न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति योऽपि हि मे विचारः ।सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः ॥ ५० ॥ ▼ Permalink Bookmark शाल्वाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध्व एव स च सांकृतिर् अन्तिदेवः ।चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा जटाष् च कुटिला मुकुटानि बभ्रुः ॥ ५१ ॥ ▼ Permalink Bookmark तस्माद् भिक्षार्थं मम गुरुर् इतो यावद् एव प्रयातस् त्यक्त्वा काषायं गृहम् अहम् इतस् तावद् एव प्रयास्ये ।पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्याद् उपहतमतेर् नाप्य् अयं जीवलोकः ॥ ५२ ॥ ▼ Permalink Bookmark सौन्दरनन्द महाकाव्ये नन्दिव्लापो नाम सप्तमः सर्गः । ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha