३ सौन्दरनन्दम् Click on words to see what they mean. तृतीयः सर्गः ▼ Permalink Bookmark तपसे ततः कपिलवास्तु हयगरथौघसंकुलम् ।श्रीमद् अभयम् अनुरक्तजनं स विहाय विश्चितमना वनं ययौ ॥ १ ॥ ▼ Permalink Bookmark विविधाग्मांस् तपसि तांश् च विविधनियमाश्रयान् मुनीन् ।प्रेक्ष्य स विषयतृआकृपणान् अनवस्थितं तप इति न्यवर्तत ॥ २ ॥ ▼ Permalink Bookmark अथ मोक्षवादिनम् अराडम् उपशममतिं तथोड्रकम् ।तत्त्वकृतमतिर् उपास्य जहावयम् अप्य् अमार्ग इति मागकोविदः ॥ ३ ॥ ▼ Permalink Bookmark स विचारयन् जगति किं नु परमम् इति तं तम् आगमम् ।निश्चयम् अनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ ४ ॥ ▼ Permalink Bookmark अथ नैष मार्ग इति विक्ष्य तद् अपि विपुलं जहौ तपः ।ध्यानविषयम् अवगम्य परं बुभुजे वरान्नम् अमृतत्वबुद्धये ॥ ५ ॥ ▼ Permalink Bookmark स सुवर्णपीनयुगबाहुर् ऋषभगतिर् आयतेक्षणः ।प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चयविधेर् बुभुत्सया ॥ ६ ॥ ▼ Permalink Bookmark उपविश्य तत्र कृतबुद्धिर् अचल्धृतिर् अद्रिराजवत् ।मारबलम् अजयद् उग्रम् अथो बुबुधे पदं शिवम् अहार्यम् अव्ययम् ॥ ७ ॥ ▼ Permalink Bookmark अवगम्य तं च कृतकार्यम् अमृतमनसो दिवौकसः ।हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे ॥ ८ ॥ ▼ Permalink Bookmark सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ ।नेदुर् अपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ ९ ॥ ▼ Permalink Bookmark अवबुध्य चैव परमार्थम् अजरम् अनुकम्पया विभुः ।नित्यम् अमृतम् उपदर्श्यितुं स वराञसीपरिकराम् अयात् पुरीम् ॥ १० ॥ ▼ Permalink Bookmark अथ धर्मचक्रम् ऋतनाभि धृतिमतिसमाधिनेमिमत् ।तत्र विनयनिमारम् ऋषिर् जगतो हिताय परिषद्य् अवर्तयत् ॥ ११ ॥ ▼ Permalink Bookmark इति दुःखम् एतद् इयम् अस्य समुदयलता प्रवर्तिका ।शान्तिर् इयम् अयम् उपाय इति प्रविभागशः परम् इदं चतुष्टयम् ॥ १२ ॥ ▼ Permalink Bookmark अभिधाय च त्रिपरिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् ।द्वादशनियतविकल्पम् ऋषिर् विनिनाय कौण्डिनसगोत्रम् आदितः ॥ १३ ॥ ▼ Permalink Bookmark स हि दोषसागरम् अगाधम् उपधिजलम् आधिजनुत्कम् ।क्रोधमदभयतर्ङ्गचलं प्रततार लोकम् अपि व्यतारयत् ॥ १४ ॥ ▼ Permalink Bookmark स विनीय काशिषु गयेषु बहुजनम् अथो गिरिव्रजे ।पित्र्यम् अपि परमकारुणिको नगरं ययाव् अनुजिघृक्षया तदा ॥ १५ ॥ ▼ Permalink Bookmark विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः ।सूर्यसदृशवपुर् अभ्युदितो विजहार सूर्य इव गौतमस् तमः ॥ १६ ॥ ▼ Permalink Bookmark अभितस् ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् ।वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ १७ ॥ ▼ Permalink Bookmark अपरिग्रहः स हि बभूव नियतमतिर् आत्मनीश्वरः ।नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ १८ ॥ ▼ Permalink Bookmark प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञयागमत् ।निश्चितमतिर् असिचन्दनयोर् न जगाम दुःखसुखयोश् च विक्रियाम् ॥ १९ ॥ ▼ Permalink Bookmark अथ पार्थिवः समुपलभ्य सुतम् उपगतं तथागतम् ।तूर्णम् अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ २० ॥ ▼ Permalink Bookmark सुगतस् तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया ।शेषम् अपि च जनम् अश्रुमुखं विनीषय गगनम् उत्पपात ह ॥ २१ ॥ ▼ Permalink Bookmark स विचक्रमे दिवि भुवीव पुनर् उपविवेश तस्थिवान् ।निश्चलमतिर् अशयिष्ट पुनर् बहुधाभवत् पुनर् अभूत् तथैकधा ॥ २२ ॥ ▼ Permalink Bookmark सलिले क्षिताव् इव चचार जलम् इव विवेष मेदिनीम् ।मेघ इव दिवि ववर्ष पुनः पुनर् अज्वलन् नव इवोदितो रविः ॥ २३ ॥ ▼ Permalink Bookmark युगपज् ज्वलन् ज्वलनवच् च जलम् अवसृहंश् च मेघवत् ।तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ २४ ॥ ▼ Permalink Bookmark तम् उदीक्ष्य हेममणिजालवलयिनम् इवोत्थितं ध्वजम् ।प्रीतिम् अगमद् अतुलां नृपतिर् जनता नताश् च बहुमानम् अभ्ययुः ॥ २५ ॥ ▼ Permalink Bookmark अथ भाजनीकृतम् अवेक्ष्य मनुजपतिम् ऋद्धिसंपदा ।पौरजनम् अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ २६ ॥ ▼ Permalink Bookmark नृपतिस् ततः प्रथमम् आप फलम् अमृतधर्मसिद्धयोः ।धर्मम् अतुलम् अधिगम्य मुनेर् मुनये ननाम स यतो गुराव् इव ॥ २७ ॥ ▼ Permalink Bookmark बहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः ।शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात् प्रवव्रजुः ॥ २८ ॥ ▼ Permalink Bookmark विजहुस् तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया ।तेऽपि नियमविधिमामरणाज् जगृहुश् च युक्तमनसश् च दघ्रिरे ॥ २९ ॥ ▼ Permalink Bookmark न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि परवधोपजीवनः ।किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेर् उपासया ॥ ३० ॥ ▼ Permalink Bookmark अकृशोध्यमः कृशधनोऽपि परपरिभवासहोऽपि सन् ।नान्यधनम् अपजहार तथा भुजगाद् इवान्यविभवाद् धि विव्यथे ॥ ३१ ॥ ▼ Permalink Bookmark विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् ।नैव च परयुवतीर् अगमत् परमं हि ता धनतोऽप्य् अमन्यत ॥ ३२ ॥ ▼ Permalink Bookmark अनृतं जगाद न च कश् चिद् ऋतम् अपि जजल्प नाप्रियम् ।श्लक्ष्णम् अपि च न जगाव् अहितं हितम् अप्य् उवाच न च पैशुनाय यत् ॥ ३३ ॥ ▼ Permalink Bookmark मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।कामसुखम् असुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ ३४ ॥ ▼ Permalink Bookmark न परस्य कश् चिद् अपघातम् अपि च स्गृणो व्यचिन्तयत् ।मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस् परं जनः ॥ ३५ ॥ ▼ Permalink Bookmark नियतं भविष्यति परत्र भवद् अपि च भूतम् अप्य् अथो ।कर्मफलम् अपि च लोकगतिर् नियतेति दर्शनम् अवाप साधु च ॥ ३६ ॥ ▼ Permalink Bookmark इति कर्मञा दशविधेन परमकुशलेन भूरिणा ।भ्रंशिनि शितहिलगुणोऽपि युगे विजहार तत्र मुन्संश्रयज् जनः ॥ ३७ ॥ ▼ Permalink Bookmark न च तत्र कश् चिद् उपपत्तिसुखम् अभिललाष तैर् गुणैः ।सर्वम् अशिवम् अवगम्य भवं भवसंक्षयाय ववृते न जन्मने ॥ ३८ ॥ ▼ Permalink Bookmark अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः ।स्रोतसि हि ववृतिरे बहवो रजसस् तनुत्वम् अपि चक्रिरे परे ॥ ३९ ॥ ▼ Permalink Bookmark ववृतेऽत्र योऽपि विषमेषु विभवदृशेषु कश् चन ।त्यागविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात् ॥ ४० ॥ ▼ Permalink Bookmark अपि च स्वतोऽपि परतोऽपि न भयम् अभवन् न दैवतः ।तत्र च सुसुखसुभिक्षगुणैर् जहृषुः प्रजाः कृतयुगे मनोर् इव ॥ ४१ ॥ ▼ Permalink Bookmark इति मुदितम् अनामयं निरापत् कुरुरघुपुरुपुरोपमं पुरं तत् ।अभवद् अभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ॥ ४२ ॥ ▼ Permalink Bookmark सौन्दरनन्दे महाकाव्ये तथागथवर्णनो नाम तृतीयः सर्गः । ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha