Click on words to see what they mean.

सप्तदशः सर्गः

अथैवम् आदेसिततत्त्वमार्गो नन्दस् तदा प्राप्तविमोक्षमार्गः ।सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ १ ॥
तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तम् ।निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या ॥ २ ॥
स पादयोस् तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले ।मोक्षाय बद्ध्वा व्यवसायकषां पर्यङ्कम् अङ्कावहितम् बबन्ध ॥ ३ ॥
ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय ।सर्वेन्द्रियाण्य् आत्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे ॥ ४ ॥
ततः स तत्त्वं निखिलं चिकीषुर् मोक्षानुकूलांश् च विधींश् चिकीर्षन् ।ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ ॥ ५ ॥
संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् ।प्रशान्तचेता नियमस्थचेताः स्वस्थस् ततोऽभूद् विषयेष्व् अनास्थः ॥ ६ ॥
आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावाद् अथ कामसंज्ञा ।पर्याकुलं तस्य मनश् चकार प्रावृट्सु विद्युज् अलम् आगतेव ॥ ७ ॥
स पर्यवस्थानम् अवेत्य सद्यश् चिक्षेप तां धर्मविघात्गकर्त्रीम् ।प्रियाम् अपि क्रोधपारितचेता नारीम् इवोद्वृत्तगुणां मनस्वी ॥ ८ ॥
आरब्धवीर्यस्य मनःशमाय भूयस् तु तस्याकुशलो वितर्कः ।व्याधिप्रणाशाय निविष्टबुद्धेर् उपद्रवो घोर इवाजगाम ॥ ९ ॥
स तद्विघाताय निमित्तम् अन्यद् योगानुकूलं कुशलं प्रपेदे ।आर्तायनं स्क्षीणबलो बल्स्थं निरस्यमानो बलिनारिणेव ॥ १० ॥
पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विघृह्य ।राजा यथाप्नोति हि गाम् अपूर्वां नीतिर् मुकुक्षोर् अपि सैव योगे ॥ ११ ॥
विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्णानविधिश् च दण्डः ।गुणाश् च मित्राण्य् अरयश् च दोषा भूमिर् विमुक्तिर् यतते यदर्थम् ॥ १२ ॥
स दुःखजालान् महतो मुकुक्षुर् विमोक्षमार्गाधिगमे विविक्षुः ।पन्थानम् आर्यं परमं दिदृक्षुः शमं ययौ किं चिद् उपात्तचक्षुः ॥ १३ ॥
यः स्यान् निकेतस् तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः ।यस्मात् तु मोक्षाय स पात्रभूतस् तस्मान् मनः स्वात्मनि संजहार ॥ १४ ॥
संभारतः प्रत्ययतः स्वभावाद् आस्वादतो दोषविशेषतश् च ।अथात्मवान् निःसरणात्मतश् च धर्मेषु चक्रे विधिवत् परीक्षाम् ॥ १५ ॥
स रूपिणं कृत्स्नम् अरूपिणं च सारं दिदृक्षुर् विचिकाय कायम् ।अथाशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं चैव चिकाय कायम् ॥ १६ ॥
अनित्यतस् तत्र हि शून्यतश् च निरात्मतो दुःखत एव चापि ।मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार ॥ १७ ॥
यस्माद् अभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्य् अवश्यम् ।सहेकुतं च क्षयिहेतुमच् च तस्माद् अनित्यं जगद् इत्य् अविन्दत् ॥ १८ ॥
यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखम् इति व्यपश्यत् ॥ १९ ॥
यतश् च संस्करागतं विविक्तं न कारकः कश् चन वेदको वा ।सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकम् इमं ददर्श ॥ २० ॥
यस्मान् निरीहं जगद् अस्वतन्त्रं नैश्वर्यम् एकः कुरुते क्रियासु ।तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ २१ ॥
ततः स वातं व्यजनाद् इवोष्णे काष्ठाश्रितं निर्मथनाद् इवाग्निम् ।अन्तःक्षितिस्थं खननाद् इवाम्भो लोकत्तरं वर्तिम दुरापम् आप ॥ २२ ॥
सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।क्लेशारिभिश् चित्तरणाजिरस्थैः सार्धं युयुस्त्सुर् विजयाय तस्थौ ॥ २३ ॥
ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे ॥ २४ ॥
स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन ।दुःखस्य हेतूंश् चतुरश् चतुर्भिः स्वैः स्वैः प्रचारायतनैर् ददार ॥ २५ ॥
आर्यैर् बलैः पञ्चभिर् एव पञ्च चेतःखिलान्य् अप्रतिमैर् बभञ्ज ।मिथ्याञ्गनागांश् च तथाङ्गनागैर् विनिर्दुधावाष्टभिर् एव सोऽष्टौ ॥ २६ ॥
अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्व् अकथं कथः सन् ।विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिम् आप ॥ २७ ॥
स दर्शनाद् आर्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् ।प्रत्यात्मिकाच् चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव ॥ २८ ॥
दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्व् असंमूढतया चतुर्षु ।शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ॥ २९ ॥
कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतम् अवेक्षमाणः ।ज्ञानाश्रयां प्रीतिम् उपाजगाम भूयः प्रसादं च गुराव् इयाय ॥ ३० ॥
यो हि प्रवृत्तिं नियताम् अवैति नैवान्यहेतोर् इह नाप्य् अहेतोः ।प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकं पश्यति यश् च धर्मम् ।तस्योपदेष्टारम् अथार्यवर्यं स प्रेक्षते बुद्धम् अवाप्तचक्षुङ् ॥ ३२ ॥
यथोपदेशेन शिवेन मुक्तो रोगाद् अरोगो भिषजं कृतज्ञः ।अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ ३३ ॥
आर्येण मार्गेण तथैव मुक्तस् तथागतं तत्त्वविद् आर्यतत्त्वः ।अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः ॥ ३४ ॥
स नाशकैर् दृष्टिगतैर् विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य ।भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर् न तत्रास न दुर्गतिभ्यः ॥ ३५ ॥
त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् ।ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्व् अपि नोपलेभे ॥ ३६ ॥
स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।कृत्वा महोरस्कतनुस् तनू तौ प्राप द्वितीयं फलम् आर्यधर्मे ॥ ३७ ॥
स लोभचापं परिकल्पबाणं रागं महावैरिणम् अल्पशेषम् ।कायस्वभावाधिगतैर् बिभेद योगायुधास्त्रैर् अशुभापृषत्कैः ॥ ३८ ॥
द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नम् ।मैत्रीपृषत्कैर् धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर् जघान ॥ ३९ ॥
मूलान्य् अथ त्रीण्य् आसुधस्य वीरस् त्रिभिर् विमोक्षायतनैश् चकर्त ।चमूमुखस्थान् धृतकार्मुकांस् त्रीन् अरीन् इवारिस् त्रिभिर् आयसाग्रैः ॥ ४० ॥
स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस् तान् अभिभूय शत्रून् ।योगाद् अनागामिफलं प्रपद्य द्वारीव निर्वाञपुरस्य तस्थौ ॥ ४१ ॥
कामैर् विकितं मलिनैश् च धर्मैर् वितर्कवच् चापि विचारवच् च ।विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ ४२ ॥
कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखाद् अवाप ।सुखं विगाह्याप्स्व् इव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः ॥ ४३ ॥
तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् ।बुद्ध्वा मनःक्षोभकरान् अशान्तांस् तद्विप्रयोगाय मतिं चकार ॥ ४४ ॥
क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।एकाग्रभूतस्य तह्तोर्मिभूताश् चित्ताम्भसः क्षोभकरा वितर्काः ॥ ४५ ॥
खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः ।अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ ४६ ॥
अथावितर्कं क्रमशोऽविचारम् एकाग्रभावान् मनसः प्रसन्नम् ।समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तद् आध्यात्मशिवं स दध्यौ ॥ ४७ ॥
तद् ध्यानम् आगम्य च चित्तमौनं लेभे परां प्रीतिम् अलब्धपूर्वाम् ।प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्व् अभवत् तथैव ॥ ४८ ॥
प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तर दुःखम् ।प्रीताव् अतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगम् उपारुरोह ॥ ४९ ॥
प्रीतेद्र् विरागात् सुखम् आर्यजुष्टं कायेन विन्दन्न् अथ संप्रजानन् ।उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ ५० ॥
यस्मात् परं तत्र सुखं सुखेभ्यस् ततः परं नास्ति सुखप्रवृत्तिः ।तस्माद् बभाषे शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या ॥ ५१ ॥
ध्यानेऽपि तत्राथ ददर्श दोषं मेने परं शान्तम् अनिञ्जम् एव ।आभोगतोऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखम् इत्य् अजस्रम् ॥ ५२ ॥
यत्रेञ्जितं स्पन्दितम् अस्ति तत्र यत्रास्ति च स्पन्दितम् अस्ति दुःखम् ।यस्माद् अतस् तत् सुखम् इञ्जकत्वात् प्रशान्तिकामा यतयस् त्यजन्ति ॥ ५३ ॥
अथ प्रहाणात् सुखदुःखयोश् च मनोविकारस्य च पूर्वम् एव ।दध्याव् उपेक्षामृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् ॥ ५४ ॥
यस्मात् तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तद् अर्थचारि ।तस्माद् उपेक्षास्मृतिपारिशुद्धिर् निरुच्यते ध्यानविधौ चतुर्थे ॥ ५५ ॥
ध्यानं स निश्रित्य ततश् चतुर्थम् अर्हत्त्वलाभाय मतिं चकार ।संधाय मैत्रं बलवन्तम् आर्यं राजेव देशान् अजितान् जिगीषुः ॥ ५६ ॥
चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।ऊर्ध्वङ्गमान्य् उत्तमबन्धनानि संयोजनान्य् उत्तमबन्धनानि ॥ ५७ ॥
बोध्यङ्गनागैर् अपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द ।द्वीपान् इवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिर् एव सप्त ॥ ५८ ॥
अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणाम् ।दोषेषु तां वृत्तिम् इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ ५९ ॥
इति त्रिवेगं त्रिझषं त्रिवीचम् एकाम्भसं पञ्चरयं द्विकूलम् ।द्विग्राहम् अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरम् उत्ततार ॥ ६० ॥
अर्हत्त्वम् आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः ।विभीर् विषुग् वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ ६१ ॥
भ्रातुश् च शास्तुश् च तयानुशिष्ट्या नन्दस् ततः स्वेन च विक्रमेण ।प्रशान्तचेताः परिपूर्णकार्यो वाणीम् इमाम् आत्मगतां जगाद ॥ ६२ ॥
नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन ।बहूनि दुःखान्य् अपवर्तितानि सुखानि भूयांस्य् उपसंहृतानि ॥ ६३ ॥
अहं ह्य् अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।निवर्तितस् तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन ॥ ६४ ॥
तस्याज्ञया कारुणिकस्य शास्तुर् हृदिस्थम् उत्पाट्य हि रागशल्यम् ।अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य ॥ ६५ ॥
निर्वाप्य कामाग्निम् अहं हि दीप्तं धृत्यम्बुना पावकम् अम्बुनेव ।ह्लादं परं सांप्रतम् आगतोऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ॥ ६६ ॥
न मे प्रियं किं चन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः ।तयोर् अभावात् सुखितोऽस्मि सद्यो हिमातपाभ्याम् इव विप्रमुक्तः ॥ ६७ ॥
महाभयात् क्षेमम् इवोपलभ्य महावरोधाद् इव विप्रमोक्षम् ।महार्णवात् पारम् इवाप्लवः सन् भीमान्धकाराद् इव च प्रकाशम् ॥ ६८ ॥
रोगाद् इवारोग्यम् असह्यरूपाद् ऋणाद् इवानृण्यम् अनन्तसंख्यात् ।द्विषत्सकाशद् इव चापयानं दुर्छिक्षयोगाच् च यथा सुभिक्षम् ॥ ६९ ॥
तद्वत् परां शान्तिम् उपागतोऽहं यस्यानुभावेन विनायकस्य ।करोमि ब्ःऊयः पुनर् उक्तम् अस्मै नमो नमोऽर्हाय तथागताय ॥ ७० ॥
येनाहं गिरिम् उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन ।कामात्मा त्रिदिवचरीभिर् अङ्गनाभिर् निष्कृष्टो युवतिमये कलौ निमग्नः ॥ ७१ ॥
तस्माच् च व्यसनपराद् अनर्थपङ्काद् उत्कृष्य क्रमशिथिलः करीव पङ्कात् ।शान्तेऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ ७२ ॥
तं वन्दे परम् अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञम् आशयज्ञम् ।संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनर् अपि चास्मि संनतस् तम् ॥ ७३ ॥
महाकाव्ये सौन्दरनन्देऽमृताधिगमो नाम सप्तदशः सर्गः ।