अष्टादशः सर्गः
अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः ।जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुम् अभ्यगच्छत् ॥ १ ॥
द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर् हि शिष्यस्य गुरोश् च शिष्यः ।परिश्रमस् ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ॥ २ ॥
यतो हि येनाधिगतो विशेषस् तस्योत्तमाङ्गेऽर्हति कर्तुमिड्याम् ।आर्यः सरागोऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः ॥ ३ ॥
यस्यार्थकामप्रभवा हि भक्तिस् ततोऽस्य सा तिष्ठति रूढमूला ।धर्मान्वयो यस्य तु भक्तिरागस् तस्य प्रसादो हृदयावगाढः ॥ ४ ॥
काषायवासाः कनकावदातस् ततः स मूर्ध्ना गुरवे प्रणेमे ।वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीर् इव कर्णिकारः ॥ ५ ॥
अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव ॥ ६ ॥
या दृष्टिशल्यो हृदयावगाढः प्रभो भृशं माम् अतुदत् सुतीक्ष्णः ।त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ ७ ॥
कथङ्कथाभावगतोऽस्मि येन छिन्नः स निःसंशय संशयो मे ।त्वच्छासनात् सत्पथम् आगतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ ८ ॥
यत् पीतम् आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् ।तन् मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ ९ ॥
क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्याम् उषितोऽस्मि सम्यक् ।कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतोऽस्मि न लोकधर्मा ॥ १० ॥
मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।तवास्मि गां साधु निपीय तृप्तस् तृषेव गाम् उत्तमवत्सवर्णः ॥ ११ ॥
यत् पश्यतश् चाधिगमो ममायं तन् मे समासेन मुने निबोध ।सर्वज्ञ कामं विदितम् तवैतत् स्वं तूपचरां प्रविवक्षुर् अस्मि ॥ १२ ॥
अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य ।मुक्तस्य रोगाद् इव रोगवन्तस् तेनैव मार्गेण सुखं घटान्ते ॥ १३ ॥
उर्व्यादिकान् जन्मनि वेद्मि धातून् नात्मानम् उर्व्यादिषु तेषु किं चित् ।यस्माद् अतस् तेषु न मेऽस्ति सक्तिर् बहिश् च कायेन समा मतिर् मे ॥ १४ ॥
स्कन्धांश् च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच् चपलान् असारान् ।अनात्मकांश् चैव वधात्मकांश् च तस्माद् विमुक्तोऽस्म्य् अशिवेभ्य एभ्यः ॥ १५ ॥
यस्माच् च पश्याम्य् उदयं व्ययं च सर्वास्व् अवस्थास्व् अहम् इन्द्रियाणाम् ।तस्माद् अनित्येषु निरात्मकेषु दुःखेषु मे तेष्व् अपि नास्ति संगः ॥ १६ ॥
यतश् च लोकं सम्जन्मनिष्ठं पश्यामि निःसारम् असच् च सर्वम् ।अतो धिया मे मनसा विबद्धम् अस्मीति मे नेञ्जितम् अस्ति येन ॥ १७ ॥
चतुर्विधे नैकविधप्रसंगे यतोऽहम् आहारवैधाव् असक्तः ।अमूर्छितश् चाग्रथितश् च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ॥ १८ ॥
अनिश्रितश् चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे ।यस्मात् समात्मानुगतश् च तत्र तस्माद् विसंयोगगतोऽस्मि मुक्तः ॥ १९ ॥
इत्य् एवम् उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे ॥ २० ॥
ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।धर्मान्वयं चानुगतं प्रसादं मेघस्वरस् तं मुनिर् आबभाषे ॥ २१ ॥
उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर् मे पतितोऽसि मूर्ध्ना ।अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिर् एव ॥ २२ ॥
अद्यासि सुप्रव्रजितो जितात्मन्न् ऐश्वर्यम् अप्य् आत्मनि येन लब्धम् ।जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्व् अजितेन्द्रियस्य ॥ २३ ॥
अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत् ते ।अतः पुनश् चाप्रयताम् असौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ २४ ॥
अद्यार्थवत् ते श्रुतवच् छ्रुतं तच् छ्रुतानुरूपं प्रतिपद्य धर्मम् ।कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ २५ ॥
अहो धृतिस् तेऽविषयात्मकस्य यत् त्वं मतिं मोक्षविधाव् अकार्षीः ।यास्यामि निष्ठाम् इति बालिशो हि जन्मक्षयात् त्रासम् इहाभ्युपैति ॥ २६ ॥
दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः ।उदेति दुःखेन गतो ह्य् अधस्तात् कूर्मो युगच्छिद्र इवार्ञवस्थः ॥ २७ ॥
निर्जित्य मारं युधि दुर्निवारम् अद्यासि लोके रणशीर्षूरः ।शूरोऽप्य् आसूरः स हि वेदितव्यो दोषैर् अमित्रैर् इव हन्यते यः ॥ २८ ॥
निर्वाप्य रागाग्निम् उदीर्णम् अद्यासि लोके रणशीर्षशूरः ।दुःखं हि शेते शयनेऽप्य् उदारे क्लेशाग्निना चेतसि धयमानः ॥ २९ ॥
अभ्युच्छ्रितो द्रव्यमदेन पूर्वम् अद्यासि तृष्नोपरमात् समृद्धः ।यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धोऽपि सदा दरिद्रः ॥ ३० ॥
अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति ।भ्रष्टस्य धर्मात् पितृभिर् निपाताद् अश्लाघनियो हि कुलापदेशः ॥ ३१ ॥
दिष्ट्यासि शान्तिं परमाम् उपेतो निस्तीर्णकान्तार इवाप्तसारः ।सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस् तथैव ॥ ३२ ॥
आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति ।आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ ३३ ॥
भवत्य् अरूपोऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर् गुणैः स्वैः ।दोषैः परीतो मलिनीकरैस् तु सुदर्शनीयोऽपि विरूप एव ॥ ३४ ॥
अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतम् आत्मकार्यम् ।श्रुतोन्नतस्यापि हि नास्ति बुद्धिर् नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ ३५ ॥
उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।प्रज्ञामयं यस्य हि नास्ति चक्षुश् चक्षुर् न तस्यास्ति सचक्षुषोऽपि ॥ ३६ ॥
दुःखप्रतीकारनिमित्तम् आर्तः कृष्यादिभिः खेदम् उपैति लोकः ।अजस्रम् आगच्छति तच् च भूयो ज्ञानेन यस्याद्य कृतस् त्वयान्तः ॥ ३७ ॥
दुःखं न मे स्यात् सुखम् एव मे स्याद् इति प्रवृत्तः स्ततं हि लोकः ।न वेत्ति तच् चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यतावत् ॥ ३८ ॥
इत्य् एवमादि स्थिरबुद्धिचित्तस् तथागतेनाभिहितो हिताय ।स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर् वाक्यम् उवाच नन्दः ॥ ३९ ॥
अहो विशेषेण विषेषदर्शिंस् त्वयानुकम्पा मयि दर्षितेयम् ।यत् कामपण्के भगवन् निमग्नस् त्रातोऽस्मि संसारभयाद् अकामः ॥ ४० ॥
भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन ततैव मात्रा ।हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः ॥ ४१ ॥
शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य ।प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वम् असक्तबुद्धेः ॥ ४२ ॥
अतो हि तत्त्वं परिगम्य सम्यञ् निर्धूय दोषान् अधिगम्य शान्तिम् ।स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ ४३ ॥
इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखम् ।महार्हम् अप्य् अन्नम् अदैवाहृतं दिवौकसो भुक्तवतः सुधाम् इव ॥ ४४ ॥
अहोऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् ।सुधीरम् अध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थम् ऋच्छति ॥ ४५ ॥
यथा हि रत्नाकरम् एत्य दुर्मतिर् विहाय रत्नान्य् असतो मणिन् हरेत् ।अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत् कामसुखोपअब्धये ॥ ४६ ॥
अहो हि सत्तेष्व् अतिमैत्रचेतसस् तथागतस्यानुजिघृक्षुता परा ।अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ ४७ ॥
मया न शक्यं प्रतिकर्तुम् अद्य किं गुरौ हितैषिण्य् अनुकम्पके त्वयि ।समुद्धृतो येन भवार्णवाद् अहं महार्णवाच् चूर्णितनौर् इवोर्मिभिः ॥ ४८ ॥
ततो मुनिस् तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः ।इदं बभाषे वदताम् अनुत्तमो यद् अर्हति श्रीघन एव भाषितुम् ॥ ४९ ॥
इदं कृतार्थः परमार्थवित् कृती त्वम् एव धीमन्न् अभिधातुम् अर्हसि ।अतीत्य कान्तारम् अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ ५० ॥
अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्न् उप्शान्तमानसः ।न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमान् अपि ॥ ५१ ॥
रजस्तमोभ्यां परिमुक्तचेतसस् तवैव चेयं सदृसी कृतज्ञता ।रजःप्रकर्षेण जगत्य् अवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ ५२ ॥
सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादोऽधिगमे च कौशलम् ।अतोऽस्ति भूयस् त्वयि मे विवक्षितं नतो हि भक्तश् च नियोगम् अर्हसि ॥ ५३ ॥
अवाप्तकार्योऽसि परां गतिं गतो न तेऽस्ति किं चित् करणीयम् अण्व् अपि ।अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परान् अपि ॥ ५४ ॥
इहार्थम् एवारभते नरोऽधमो विमध्यमस् तूभयलौकिकीं क्रियाम् ।क्रियाम् अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनर् अप्रवृत्तये ॥ ५५ ॥
इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्मम् अवाप्य नैष्ठिकम् ।अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्य् उपदेष्टुम् इच्छति ॥ ५६ ॥
विहाय तस्माद् इह कार्यम् आत्मनः कुरु स्थिरात्मन् परकार्यम् अप्य् अथो ।भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यताम् अयम् ॥ ५७ ॥
ब्रवीतु तावत् पुरि विस्मितो जनस् त्वयि स्थिते कुर्वति धर्मदेशनाः ।अहो बताश्चर्यम् इदं विमुक्तये करोति रागी यद् अयम् कथाम् इति ॥ ५८ ॥
ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर् मनोरथैः ।वधूर् गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ ५९ ॥
त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।मनसि शमदमात्मैके विविक्ते मतिर् इव कामसुखैः परीक्षकस्य ॥ ६० ॥
इत्य् अर्हतः परमकारुणिकस्य शास्तुर् मूर्ध्ना वचश् च चरणौ च समं गृहीत्वा ।स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान् मुनेः प्रतिययौ विमदः करीव ॥ ६१ ॥
भिक्षर्थं समये विवेश स पुरं दृष्टीर् जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः ।निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन् नात्मानम् उत्कर्षयन् ॥ ६२ ॥
इत्य् एषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतॄणां ग्रहणार्थम् अन्यमनसां काव्योपचारात् कृता ।यन् मोक्षात् कृतम् अन्यद् अत्र हि मया तत् काव्यधर्मात् कृतं पातुं तिक्तम् इवौषधं मधुयुतं हृद्यं कथं स्याद् इति ॥ ६३ ॥
प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात् प्रतिहतं काव्यवाजेन तत्त्वं कथितम् इह मया मोक्षः परम् इति ।तद् बुद्ध्वा शामिकं यत् तद् अवहितम् इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतम् उपकरं चामीकरम् इति ॥ ६४ ॥
सौन्दरनन्दे महाकाव्य आज्ञाव्याकरणो नामाष्टादशः सर्गः ।
आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोर् आचार्यभदन्ताश्वघोषस्य महाकवेर् महावादिनः कृतिर् इयम् ॥