९ रघुवंशम् This text does not support clickable word meanings. पितुर् अनन्तरम् उत्तर्कोसलान् समधिगम्य समाधिजितेन्द्रियः ।दशरथः प्रशशास महारथो यमवताम् अवतां च धुरि स्थितः ॥ अधिगतं विधिवद् यद् अपालयत् प्रकृतिमण्डलम् आत्मकुलोचितम् ।अभवद् अस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ उभयम् एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।वलनिषूदनम् अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयम् ॥ जनपदे न गदः पदम् आदधाव् अभिभवः कुत एव सपत्नजः ।क्षितिर् अभूत् फलवत्य् अजनन्दने शमरते ऽमरतेजसि पार्थिवे ॥ दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यद् अजेन ततः परम् ।तम् अधिगम्य तथैव पुनर् बभौ न न मही ऽनम् अहीनपराक्रमम् ॥ समतया वसुवृटिविसर्जनैर् नियमनाद् असतां च नराधिपः ।अनुययौ यमपुण्यजनेश्वरौ सवरुणाव् अरुणाग्रसरं रुचा ॥ न मृगयाभिरतिर् न दुरोदरं न च शशिप्रतिमाभरणं मधु ।तम् उदयाय न वा नवयौवना प्रियतमा यतमानम् अपाहरा ॥ न कृपणा प्रभवत्य् अपि वासवे न वितथा परिहासकथास्व् अपि ।न च सपत्नजनेष्व् अपि तेन वाग् अपरुषा परुषाक्षरम् ईरिता ॥ उदयम् अस्तमयं च रघूद्वहाद् उभयम् आनशिरे वसुधाधिपाः ।स हि निदेशम् अलङ्घयताम् अभूत् सुहृद् अयोहृदयः प्रतिगर्जताम् ॥ अजयद् एकरथेन स मेदिनीम् उदधिनेमिम् अधिज्यशरासनः ।जयम् अघोषयद् अस्य तु केवलं गजवती जवतीरहया चमूः ॥ जघननिर्विषयीकृतमेखलान् अनुचिताश्रुविलुप्तविशेषकान् ।स रिपुदारगणान् अकरोद् बलाद् अनलकान् अलकाधिपविक्रमः ॥ अवनिम् एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।विजयदुन्दुभितां ययुर् अर्णवा घनरवा नरवाहनसंपदः ॥ शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः ।स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ स्फुरितकोटिसहस्रमरीचिना समचिनोत् कुलिशेन हरिर् यशः ।स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः ॥ चरणयोर् नखरागसमृद्धिभिर् मुकुटरत्नमरीचिभिर् अस्पृशन् ।स धनुषा युधि सायकवर्षिणा शतमखं तम् अखण्डितपौरुषम् ॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।समनुकम्प्य सपत्नपरिग्रहान् अनलकान् अलकानवमां पुरीम् ॥ उपगतो ऽपि च मण्डलनाभिताम् अनुदितान्यसितातपवारणः ।अजितम् अस्ति नृपास्पदम् इत्य् अभूद् अनलसो ऽनलसोमसमद्युतिः ॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः ॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।अधिवसंस् तनुम् अध्वरदीक्षिताम् असम्भासम् अभासयद् ईश्वरः ॥ अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।नमयति स्म स केवलम् उन्नतं वनमुचे नमुचेर् अरये शिरः ॥ तम् अपहाय ककुत्स्थकुलोद्भवं पुरुषम् आत्मभुवं च पतिव्रता ।नृपतिम् अन्यम् असेवत देवता सकमला कम् अलाघवम् अर्थिषु ॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।स्वभुजवीर्यम् अगापयद् उच्छ्रितं सुरवधूर् अवधूतभयाः शरैः ॥ असकृद् एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ तम् अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरम् आपगाः ।मगधकोसलकेकयशसिनां दुहितरो ऽहितरोपितमार्गणम् ॥ प्रियतमाभिर् असौ तिऋभिर् बभौ तिसृभिर् एव भुवं सह शक्तिभिः ।उपगतो विनिनीषुर् इव प्रजा हरिहयो ऽरिहयोगविचक्षणः ॥ अथ समाववृते कुसुमैर् नवैस् तम् इव सेवितुम् एकनराधिपम् ।यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुर् अञ्चितविक्रमम् ॥ जिगमिषुर् धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।दिनमुखानि रविर् हिमनिर्ग्रहैर् विमलयन् मलयं नगम् अत्यजत् ॥ हिमविवर्णितचन्दनपल्लवं विरहयन् मलयाद्रिम् उदङ्मुखः ।विहगयोः कृपयेव शनैर् ययौ रविर् अहर्विरहध्रुवभेदयोः ॥ कुसुमजन्म ततो नवपल्लवास् तदनु षट्पदकोकिलकूजितम् ।इति यथाक्रमम् आविरभून् मधुर् द्रुमवतीम् अवतीर्य वनस्थलीम् ॥ सुरभिसंगमजं वनमालया नवपलाशम् अधार्यत भङ्गुरम् ।रमणदत्तम् इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥ उपहितं शिशिरापगमश्रिया मुकुलजालम् अशोभत किंशुके ।प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ परभृता मदनक्षतचेतसां प्रियसखी लघुवाग् इव योषिताम् ।प्रियतमान् अकरोत् कलहान्तरे मृदुरवा दुरवापसमागमान् ॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।न खलु तावद् अशेषम् अपोहितुं रविर् अलं विरलं कृतवान् हिमम् ॥ विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमम् उन्मदकोकिलम् ।तद् उपभोगरसं हिमवर्षिणः परम् ऋतोर् विरलं कृतवान् हिमम् ॥ अभिनयान् परिचेतुम् इवोद्यता मलयमारुतकम्पितपल्लवा ।अमदयत् सहकारलता मनः सकलिका कलिकामजिताम् अपि ॥ नयगुणोपचिताम् इव भूपतेः सदुपकारफलां श्रियम् अर्थिनः ।अभिययुः सरसो मधुसंभृतां कमलिनीम् अलिनीरपत्रिणः ॥ दशनचन्द्रिकया व्यभासितं हसितम् आसवगन्धि मधोर् इव ।बकुलपुष्पम् असेव्यत षट्पदैः शुचिरसं चिरसंचितम् ईप्सुभिः ॥ कुसुमम् एव न केवलम् आर्तवं नवम् अशोकतरोः स्मरदीपनम् ।किसलयप्रसवो ऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ विरचिता मधुनोपवन्श्रियाम् अभिनवा इव पत्त्रविशेषकाः ।मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः ।मधुकरैर् अकरोन् मधुलोलुपैर् बकुलम् आकुलम् आयतपङ्क्तिभिः ॥ सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः ।इति दयात इवाभवद् आयता न रजनी रजनीशवती मधौ ॥ प्रथमम् अन्यभृताभिर् उदीरिताः प्रविरला इव मुग्धवधूकथाः ।सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।उपवनान्तलताः पवनाहतैः किसलयैः सलयैर् इव पाणिभिः ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।पतिषु निर्विविशुर् मधुम् अङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः ।कलम् अगीयत भृङ्गविलासिनां स्मरयुतैर् अयुतैर् अबलासखैः ॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ लघयति स्म न पत्यपराधजं न सहकारतरुस् तरुणीधृतम् ।कुसुमितो नमितो ऽलिभिर् उन्मदैः स्मरसमाधिसमाधिकरोषितम् ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।सदृशम् इष्टसमागमनिर्वृतिं वनितया ऽनितया रजनीवधूः ॥ अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः ।कुसुमचापम् अतेजयद् अंशुभिर् हिमकरो मकरोजितकेतनम् ॥ हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यत् ।युवतयः कुसुमं दधुर् आहितं तद् (?) अलके दलकेसरपेशलम् ॥ अलिभिर् अञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिर् अङ्कितः ।न खलु शोबहयित् स्म वनस्थलीं न तिलकस् तिलकः प्रमदाम् इव ॥ अमदयन् मद्घुगन्धसनाथया किसलयाधरसंगतया मनः ।कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ अनलसान्यभृता ऽनलसान् मनः कमलधूलिभृता मरुतेरिता ।कुसुमभारनताध्वगयोषिताम् असमशोकम् अशोकलता ऽकरोत् ॥ अरुणरागनिषेधिभिर् अंशुकैः श्रवणलब्धपदैश् च यवाङ्कुरैः ।परभृताविरुतैश् च विलासिनः स्मरबलैर् अबलैकरसाः कृताः ॥ उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगम् उपेयुषी ।सदृशकान्तिर् अलक्ष्यत मञ्जरी तिलकजा ऽलकजालकमौक्तिकैः ॥ ध्वजपटं मदनस्य धनुर्भृतश् छविकरं मुखचूर्णम् ऋतुश्रियः ।कुसुमकेसररेणुम् अलिव्रजाः सपवनोपवनोत्थितम् अन्वयुः ॥ अनुभवन् नवदोलम् ऋतूत्सवं पटुर् पै प्रियकण्ठजिगृक्षया ।अनयद् आसनरज्जुपरिग्रहे भुजलतां जडताम् अबलाजनः ॥ त्यजत मानम् अलं बत बिग्रहैर् न पुनर् एति गतं चतुरं वयः ।परभृताभिर् इतीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ अथ यथासुखम् आर्तवम् उत्सवं समनुभूय विलासवतीसखः ।नरपतिश् चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ परिचयं चलक्ष्यनिपातने भयरुषोश् च तदिङ्गितबोधनम् ।श्रमजयात् प्रगुणां च करोत्य् असौ तनुम् अतो ऽनुमतः सचिवैर् ययौ ॥ मृगवनोपगमक्षमवेषभृद् विपुलकण्ठनिषक्तशरासनः ।गगनम् अश्वखुरोद्धुत रेणुभिर् नृसविता सवितानम् इवाकरोत् ॥ ग्रथितमौलिर् असौ वनमालया तरु पलाशसवर्णतनुच्छदः ।तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।ददृषुर् अध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।स्थिरतुरंगमभूमि निपानवन् मृगवयोगवयोपचितं वनम् ॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।धनुर् रधिज्यम् अनाधिर् उपाददे नरवरो रवरोषितकेसरी ॥ तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् व्याहन्यमानहरिणीगमनं पुरस्तात् ।आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारम् ॥ तत् प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।श्यामीचकार वनम् आकुलदृश्टिपातैर् वतेरितोत्पलदलप्रकरैर् इवाम्भः ॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।आकर्णकृष्टम् अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार ॥ तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः कर्णान्तम् एत्य बिभिदे निबिडो ऽपि मुष्टिः ।त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान् मुस्ताप्ररोहकवलावयवानुकीर्णम् ।जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः ॥ तं वाहनाद् अवनतोत्तरकायम् ईषद् विध्यन्तम् उद्धतसटाः प्रतिहन्तुम् ईषुः ।नात्मानम् अस्य विविदुः सहसा वराहा वृकेषु विद्धम् इषुभिर् जघनाश्रयेषु ॥ तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।निर्भिद्य विग्रहम् अशोणितलिप्तपुङ्खस् तं पातयां प्रथमम् आस पपात पश्चात् ॥ प्रायो विषाणपरिमोषलघूत्तमाङ्गान् खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः ।शृण्गं स दृप्तविनयाधिकृतः परेषाम् अभ्युच्छ्रितं न ममृषे न तु दीर्घम् आयुः ॥ व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः फुल्लासनाग्रविटपान् इव वायुरुग्णान् ।शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ निर्घातोग्रैः कुञ्जलीनाञ् जिघांसुर् ज्यानिर्घोषैः क्षोभयाम् आस सिंहान् ।नूनं तेषाम् अभ्यसूयापरो ऽभूद् वीर्योदग्रे राजशब्दे मृगेषु ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥ चमरान् परितः प्रवर्तिताश्वः क्वचिद् आकर्णविकृष्टभल्लवर्षी ।नृपतीन् इव तान् वियोज्य सद्यः सितवालव्यजनैर् जगाम शान्तिम् ॥ अपि तुरगसमीपाद् उत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार ।सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ तस्य कर्कशविहार्संभवं स्वेदम् आननविलग्नजालकम् ।आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ इति विस्मृतान्यकरणीयम् आत्मनः सचिवावलम्बितधुरं नराधिपम् ।परिवृद्धरागम् अनुभन्धसेवया मृगया जहार चतुरेव कामिनी ॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।नरपतिर् अतिवाहयां बभूव क्वचिद् असमेतपरिच्छदस् त्रियामाम् ॥ उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर् विनीतनिद्रः ।अरमत मधुराणि तत्र शृण्वन् विहगविकूजितबन्दिमङ्गलानि ॥ अथ जातु रुरोर् गृहीतवर्त्मा विपिने पार्श्वचरैर् अलक्ष्यमाणः ।श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ कुम्भपूरणभवः पटुर् उच्चैर् उच्चचार नन्दो ऽम्भसि तस्याः ।तत्र स द्विरदबृंहितशङ्की शब्दपातिनम् इषुं विससर्ज ॥ नृपतेः प्रतिषिद्धम् एव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यत् ।अपथे पदम् अर्पयन्ति हि श्रुतवन्तो ऽपि रजोनिमीलिताः ॥ हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् तस्यान्विष्यन् वेतसगूढं प्रभवं सः ।शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि ॥ तेनावतीर्य तुरगात् प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।तस्मै द्विजेतरतपस्विसुतं स्खलद्भिर् आत्मानम् अक्षरपदैः कथयां बभूव ॥ तच्चोदितः च तम् अनुद्ध्रृतशल्यम् एव पित्रोः सकाशम् अवसन्नदृशोर् निनाय ।ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् अज्ञानतः स्वचरितं नृपतिः शशंस ॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातम् उदहारयताम् उरस्तः ।सो ऽभूत् परासुर् अथ भूमिपतिं शशाप हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः ॥ दिष्टान्तम् आप्स्यति भवान् अपि पुत्रशोकाद् अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम् ।आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ शापो ऽप्य् अदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितो ऽयम् ।कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ इत्थं गते गतघृणः किम् अयं विधत्तां वध्यस् तवेत्य् अभितिते वसुधाधिपेन ।एधान् हुताशनवतः स मुनिर् ययाचे पुत्रं परासुम् अनुगन्तुमनाः सदारः ॥ प्रातानुगः सपदि शासनम् अस्य राजा संपाद्य पातकविलुप्तधृतिर् निवृत्तः ।अन्तर्निविष्टपदम् आत्मविनाशहेतुं शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः ॥ तदर्थम् अर्थज्ञगते गतत्रपः किम् एष ते वध्यजनो ऽनुसिष्ठतु ।स वह्निसंस्कारम् अयाचतात्मनः सदारसूनोर् विदधे च तन् नृपः ॥ समेयिवान् रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर् निवर्तितः ।मनोगतं गुरुं ऋषिशापम् उद्वहन् क्षयानलं जलधिर् इवान्तकास्पदम् ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha