This text does not support clickable word meanings.

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षाद् इव देवसेनाम् ।स्वसारम् आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥
सेनानिवेशान् पृथिवीक्षितो ऽपि जग्मुर् विभातग्रहमन्दभासः ।भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः ॥
सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृताम् अभावः ।काकुत्स्थम् उद्दिश्य समत्सरो ऽपि शशाम तेन क्षितिपाललोकः ॥
तावत् प्रकीर्णाभिनवोपचारम् इन्द्रायुधद्योतिततोरणाङ्कम् ।वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥
ततस् तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।बभूवुर् इत्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।बद्धुं न संभावित एव तावत् करेण रुद्धो ऽपि हि केशपाशः ॥
प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।उत्षृषृअलीलागतिर् आ गवाक्षाद् ययौ शलाकाम् अपरा वहन्ती ॥
विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥
जालान्तरप्रेषितदृष्टिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥
अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमाउलार्पितसूत्रशेषा ॥
स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती ।संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित् पयस्ऽऽ; आ गवाक्षात् ॥
तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥
ता राघवं दृष्टिभिर् आपिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुम् अमंस्त भोज्या ।पद्मेव नारायणम् अन्यथासौ लभेत कान्तं कथम् आत्मतुल्यम् ॥
परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथो ऽभविष्यत् ॥
रतिस्मरौ नूनम् इमाव् अभूतां राज्ञां सहरेषु तथा हि बाला ।गतेयम् आत्मप्रतिरूपम् एव मनो हि जन्मान्तरसंगतिज्ञम् ॥
इत्य् उद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोतसुखाः कुमारः ।उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥
ततो ऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।वैदर्भनिर्दिष्टम् अथो विवेश नारीमनांसीव चतुष्कम् अन्तः ॥
महार्हसिंहासनसंस्थितो ऽसौ सरत्नम् अर्घ्यं मधुपर्कमिश्रम् ।भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।वेलासाक्शं स्फुटपेहराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः ।तम् एव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार ॥
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे ।अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥
आसीद् वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी ।वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य ॥
तयोर् अपाङ्गप्रतिसारितानि क्रियासमापत्तिवर्तितानि ।ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् अन्योन्यलोलानि विलोचनानि ॥
प्रदक्षिणप्रक्रमणात् कृषानोर् उदर्चिषस् तन् (?) मिथुनं चकाशे ।मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर् विधातृप्रतिमेन तेन ।चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गम् अग्नौ ॥
हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोर् उदियाय धूमः ।कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥
तद् अञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरम् ।वधूमुखं पाटलगण्डलेखम् आचारधूमग्रहणाद् बभूव ॥
तौ स्नातकैर् बन्धुमता च राज्ञा पुरंध्रिभिश् च क्रमशः प्रयुक्तम् ।कन्याकुमारौ कनकासनस्थाव् आर्द्राक्षतारोपणम् अन्वभूताम् ॥
इति स्वसुर् भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतान् अधिश्रीः ॥
लिङ्गैर् मुदः संवृतविक्रियास् ते ह्रदाः प्रसन्ना इव गूढनक्राः ।वैदर्भम् आमन्त्र्य ययुस् तदीयां प्रत्यर्प्य पूजाम् औप्दाछलेन ॥
स राजलोकः कृतपूर्वसंविद् आरम्भसिद्धौ समयोपलभ्यम्) ।आदास्यमानः प्रम्दामिषं तद् आवृत्य पन्थानम् अजस्य तस्थौ ॥
भर्तापि तावत् क्रथकैषिकानाम् अनुष्ठितानन्तरजाविवाहः ।सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद् राघवम् अन्वगाच् च ॥
तिस्रस् त्रिलोकी प्रथितेन सार्धम् अजेन मार्गे वसतीर् उषित्वा ।तस्माद् अपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥
प्रमन्यवः प्राग् अपि कोसलेन्द्रे प्रत्येकम् आत्तस्वतया बभूवुः ।अतो नृपाश् चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥
तम् उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।बलिप्रदिष्टं श्रियम् आददानं त्रैविक्रमं पादम् इवेन्द्रशत्रुः ॥
तस्यः स रक्षार्थम् अनल्पयोधम् आदिष्य पित्र्यं सचिवं कुमारः ।प्रत्यग्रहीत् पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ॥
पत्तिः पदातिं रथिनं रथेशस् तुरंगसादी तुरगाधिरूढम् ।यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥
नदत्सु तूर्येष्व् अविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।बाणाक्षरैर् एव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥
उत्थापितः संयति रेणुर् अश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।चिस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥
मत्स्यध्वजा वायुवशाद् विदीर्णैर् मुखैः प्रवृद्धद्वजिनीरजांसि ।बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।स्वभर्तृनामग्रहणाद् बभूव सान्द्रे रजस्य् आत्मपरावबोधः ॥
आवृण्वतो लोचनमार्गम् आजौ रजोऽन्धकारस्य विजृम्भितस्य ।शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणो ऽभूद् रुधिरप्रवाहः ॥
स च्छिन्नमूलः क्षतजेन रेणुस् तस्योपरिष्टात् पवनावधूतः ।अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥
प्रहारमूर्छापगमे रथस्थान् यन्त्ःन् उपालभ्य निवर्तिताश्वाः ।यैः सादिता लक्षितपूर्वकेतूंस् तान् एव सामर्षतया निजघ्नुः ॥
अप्य् अर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।संप्रापुर् एवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥
आधोरणानां गजसंनिपाते शिरांसि चक्रैर् निशितैः क्षुराग्रैः ।हतान्य् अपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमम् अश्वसादी ।तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥
तनुत्यजां वर्मभृतां विकोशैर् बृहत्सु दन्तेष्व् असिभिः पतद्भिः ।रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण ॥
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश् चषकोत्तरेव ।रणक्षितिः शोणितमद्यकुल्या रराज मृत्योर् इव पानभूमिः ॥
उपान्तयोर् निष्कुषितं विहंगैर् आक्षिप्य तेभ्यः पिशितप्रियापि ।केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदम् अपाचकार ॥
कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुताम् उपेत्य ।वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरे ददर्श ॥
अन्योन्यसूतोन्मथनाद् अभूतां ताव् एव सूतौ रथिनौ च कौचित् ।व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ ॥
परस्परेण क्षतयोः प्रहर्त्रोर् उत्क्रान्तवाय्वोः समकालम् एव ।अमर्त्यभावे ऽपि कयोश्चिद् आसीद् एकासरःप्रार्थितयोर् विवादः ॥
व्यूहाव् उभौ ताव् इतरेतरस्माद् भङ्गं जयं चापतुर् अव्यवस्थम् ।पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥
परेण भग्ने ऽपि बले महौजा ययाव् अजः प्रत्य् अरिसैन्यम् एव ।धूमो निवर्तेत समीरणेन यतो हि कक्षस् तत एव वह्निः ॥
रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकम् एकवीरः ।निवारयाम् आस महावराहः कल्पक्षयोद्धूतम् इवार्णवाम्भः ॥
स दक्षिणं तूणमुखेन वामं व्यापारयन् हस्तम् अलक्ष्यताजौ ।आकर्णकृष्टा सकृद् अस्य योद्धुर् मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥
स रोषदष्टाधिकलोहितोष्ठैर् व्यक्तोर्ध्वरेका भृकुटीर् वहद्भिः ।तस्तार गां भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥
सर्वैर् बलाङ्गैर् द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश् च ।सर्वप्रयत्नेने च भूमिपालास् तस्मिन् प्रजह्रुर् युधि सर्व एव ॥
सो ऽस्त्रव्रजैश् छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥
प्रियंवदात् प्रापम् असौ कुमारः प्रायुङ्क्त राजस्व् अधिराजसूनुः ।गान्धर्वम् अस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः ॥
ततो धनुष्कर्षणमूढहस्तम् एकांसपर्यस्तशिरस्त्रजालम् ।तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥
ततः प्रियोपात्तरसे ऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः ।येन स्वहस्तार्जितम् एकवीरः पिबन् यशो मूर्तम् इवाभासे ॥
शङ्खस्वनाभिज्ञतया निवृत्तास् तं सन्नशत्रुं ददृशुः स्वयोधाः ।निमीलितानाम् इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥
सशोणितैस् तेन शिलीमुखाग्रैर् निक्षेपिताः केतुषु पार्थिवानाम् ।यशो हृतम् संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥
स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः ।ललाटबद्धश्रमवारिबिन्दुर् भीतां प्रियाम् एत्य वचो बभाषे ॥
इतः परान् अर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि ।एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः ॥
तस्याः प्रतिद्वन्द्विभवाद् विषादात् सद्यो विमुक्तं मुखम् आबभासे ।निश्वासबाष्पापगमात् प्रपन्नः प्रसादम् आत्मीयम् इवात्मदर्षाः ॥
हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियम् अभ्यनन्दत् ।स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिर् इवाभ्रवृन्दम् ॥
इति शिरसि स वामं पादम् आधाय राज्ञाम् उदवहद् अनवद्यां ताम् अवद्याद् अपेतह् ।रथतुरगरजोभिस् तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव ॥
प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम् ।तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥
« »