तम् अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥
स मृन्मये वीतहिरण्मयत्वात् पात्रे निधायार्गह्यम् अनर्घ्यशीलः ।श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिम् आतिथेयः ॥
तम् अर्चयित्वा विधिवद् विधिज्ञस् तपोधनं मानधनाग्रयायी ।विशांपतिर् विष्टरभाजम् आरात् कृताञ्जलिः कृत्यविद् इत उवाच ॥
अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां कुशाग्रबुद्धे कुशली गुरुस् ते ।यतस् त्वया ज्ञानम् अशेषम् आप्तम् लोकेन चैतन्यम् इवोष्णरश्मेः ॥
कायेन वाचा मनसापि शश्वद् यत् संभृतं वासवधैर्यलोपि ।आपाद्यते न व्ययम् अन्तरायैः कच्चिन् महर्षेस् त्रिविधं तपस् तत् ॥
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।कच्चिन् न वाय्वादिर् उपप्लवो वः श्रमच्छिदं आश्रमपादपानाम् ॥
क्रियानिमित्तेष्व् अपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु ।तदङ्कशय्याच्युतनाभिनाला कच्चिन् मृगीणाम् अनघा प्रसूतिः ॥
निर्वर्त्यते यैर् नियमाभिषेको येभ्यो निवापाञ्जलयः पित्ःणाम् ।तान्य् उञ्छषष्ठाङ्कितसैकतानि शिवानि वस् तीर्थजलानि कच्चित् ॥
नीवारपाकादि कडम्गरीयैर् आमृश्यते जानपदैर् न कच्चित् ।कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः ॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग् विनीयानुमतो गृहाय ।कालो ह्य् अयं संक्रमितुं द्वितीयं सर्वोपकारक्षमम् आश्रमं ते ॥
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।अप्य् आज्ञया शासितुर् आत्मना वा प्राप्तो ऽसि संभावयितुं वनान् माम् ॥
इत्य् अर्घ्यपात्रानुमितव्ययस्य रघोर् उदाराम् अपि गां निशम्य ।स्वार्थोपपत्तिं प्रति दुर्बलाशस् तम् इत्य् अवोचद् वरतन्तुशिष्यः ॥
सर्वत्र नो वार्त्तम् अवेहि राजन् नाथे कुतस् त्वव्य् अशुभं प्रजानाम् ।सूर्ये तपत्य् आवरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान् महाभाग तया ऽतिशेषे ।व्यतीतकालस् त्व् अहम् अभ्युपेतस् त्वाम् अर्थिभावाद् इति मे विषादः ॥
शरीरमात्रेण नरेन्द्र तिष्ठन्न् आभासि तीर्थप्रतिपादितर्द्धिः ।आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥
स्थाने भवान् एकनराधिपः सन्न् अकिंचनत्वं मखजं व्यनक्ति ।पर्यायपीतस्य सुरैर् हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥
तदन्यतस् तावद् अनन्यकार्यो गुर्वर्थम् आहर्तुम् अहं यतिष्ये ।स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥
एतावद् उक्त्वा प्रतियातुकामं शिष्यं महर्षेर् नृपतिर् निषिध्य ।किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद् वेति तम् अन्वयुङ्क्त ॥
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतम् आचचक्षे ॥
समाप्तविद्येन मया महर्षिर् विज्ञापितो ऽभूद् गुरुदक्षिणायै ।स मे चिरायास्खलितोपचारां तां भक्तिम् एवागणयत् पुरस्तात् ॥
निर्बन्धसंजातरुषार्थकार्श्यम् अचिन्तयित्वा गुरुणाहम् उक्तः ।वित्तस्य विद्यापरिसंख्यया मे कोटीष् चतस्रो दश चाहरेति ॥
सो ऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषम् ।अभ्युत्सहे संप्रति नोपरोद्धुम् अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य ॥
इत्थं द्विजेन द्विजराकान्तिर् आवेदितो वेदविदां वरेण ।एनोनिवृत्तेन्द्रियवृत्तिर् एनं जगाद भूयो जगदेकनाथः ॥
गुर्वर्थम् अर्थी श्रुतपारदृश्वा रघोः सकाशाद् अनवाप्य कामम् ।गतो वदायान्तरम् इत्य् अयं मे मा भूत् परीवादनवावतारः ॥
स त्वं प्रशस्ते महिते मदीये वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे ।द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् यावद् यते साधयितुं त्वदर्थम् ॥
तथेति तस्य्ऽ; आवितथं प्रतीतः प्रत्यग्रहीत् संगरम् अग्रजन्मा ।गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य निष्कष्टुम् अर्थं चकमे कुबेरात् ॥
वसिष्ठमन्त्रोक्षणजात् प्रभावाद् उदन्वदाकाशमहीधरेषु ।मरुत्सखस्येव बलाहकस्य गतिर् विजघ्ने न हि तद्रथस्य ॥
अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः ।हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥
तं भूपतिर् भासुरहेमराशिं लब्धं कुबेराद् अभियास्यमानात् ।दिदेश कौतस्य समस्तम् एव पादं सुमेरोर् इव वज्रभिन्नम् ॥
जनस्य साकेतनिवासिनस् तौ द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ ।गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी नृपो ऽर्थिकामाद् अधिकप्रदश् च ॥
अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः ।स्पृषन् करेणानतपूर्वकायं संप्रस्थितो वाचम् उवाच कौत्सः ॥
किम् अत्र चित्रं यदि कामसूर् भूर् वृत्ते स्थितस्याधिपतेः प्रजानाम् ।अचिन्तनीयस् तु तव प्रभावो मनीषितं द्यौर् अपि येन दुग्धा ॥
आशास्यम् अन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते ।पुत्रं लभस्वात्मगुणानुरूपं भवन्तम् ईडं भवतः पितेव ॥
इत्थं प्रयुज्याशिषम् अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।राजापि लेभे सुतम् आशु तस्माद् आलोकम् अर्काद् इव जीवलोकः ॥
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।अतः पिता ब्रह्मण एव नाम्ना तम् आत्मजन्मानम् अजं चकार ॥
रूपं तद् ओजस्वि तद् एव वीर्यं तदैव नैसर्गिकम् उन्नतत्वम् ।न कारणात् स्वाद् बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥
उपात्तविद्यं विधिवद् गुरुभ्यस् तं यौवनोद्भेदविशेषकान्तम् ।श्रीर् गन्तुकामापि गुरोर् अनुज्ञां धीरेव कन्या पितुर् आचकाङ्क्ष ॥
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुर् इन्दुमत्याः ।आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥
तं श्लाघ्यसंबन्धम् असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।प्रस्थापयाम् आस ससैन्यम् एनम् ऋद्धां विदर्भाधिपराजधानीम् ॥
तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः ।मार्गे निवासा मनुजेन्द्रसूनोर् बभूवुर् उद्यानविहारकल्पाः ॥
स नर्मदारोधसि शीकरार्द्रैर् मरुद्भिर् आनर्तितनक्तमाले ।निवेशयाम् आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥
अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः ।निर्धौत दानामलगण्डभित्तिर् यन्यः सरित्तो गज उन्ममज्ज ॥
निःशेषविक्षालितधातुनापि वप्रक्रियाम् ऋक्षवतस् तटेषु ।नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।बभौ स भिन्दन् बृहतस् तरङ्गान् वार्यर्गलाभङ्ग इव प्रवृत्तः ॥
स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम् ।संवर्धितार्त्धप्रहितेन दीर्घान् चिक्षेप वारीपरिघान् इवोर्मीन् ॥
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्न् उरसा स पश्चात् ।पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस् तटम् उत्ससर्प ॥
कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः ।कर्षन् स शैवाललता नदीषः स्कन्धावलग्नास् तटम् उत्ससर्प ॥
तस्यैकनागस्य कपोलभित्त्योर् जलावगाहक्षणमात्रशान्ता ।वन्येतरानेकपदर्शनेन पुनर् दिदीपे मददुर्दिनश्रीः ॥
सप्तच्छदक्षीरकटुप्रवाहम् असह्यम् आघ्राय मदं तदीयम् ।विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
तम् आपतन्तं नृपतेर् अवध्यो वन्यः करीति श्रुतवान् कुमारः ।निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥
स विद्धमात्रः किल नागरूपम् उत्सृज्य तद्विस्मितसैन्यदृष्टः ।स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर् व्योमचरं प्रपेदे ॥
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः ।उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥
मतङ्गशापाद् अवलेपमूलाद् अवाप्तवान् अस्मि मतङ्गजत्वम् ।अवेहि गन्धर्वपतेस् तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
स चानुनीतः प्रणतेन पश्चान् मया महर्षिर् मृदुताम् अगच्छत् ।उष्णत्वम् अग्न्यातपसंप्रयोगाच् छैत्यं हि यत् सा प्रकृतिर् जलस्य ॥
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्य् अजः कुम्भम् अयोमुखेन ।संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्य् अवोचत् स तपोनिधिर् माम् ॥
संमोचितः सत्त्ववता त्वयाहं शापाच् चिरप्रार्थितदर्शनेन ।प्रतिप्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात् स्वपदोपलब्धिः ॥
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् न चारिहिंसा विजयश् च हस्ते ॥
अलं ह्रिया मां प्रति यन् मुहूर्तं दयापरो ऽभुः प्रहरन्न् अपि त्वम् ।तस्माद् उपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यम् ॥
तथेत्य् उपस्पृश्य पयः पवित्रं सोमोध्बवायाः सरितो नृसोमः ।उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं जग्राह तस्मान् निगृहीतशापात् ॥
एवं तयोर् अध्वनि दैवयोगाद् आसेदुषोः सख्यम् अचिन्त्यहेतु ।एको ययौ चैत्ररथपदेशान् सौराज्यरम्यान् अपरो विदर्भान् ॥
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।प्रत्युज्जगाम क्रथकैशिकेन्द्रश् चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली ॥
प्रवेश्य चैनं पुरम् अग्रयायी नीचैस् तथोपाचरद् अर्पितश्रीः ।मेने यथा तत्र जनः समेतो वैदर्भम् आगन्तुम् अजं गृहेशम् ॥
तस्य्ऽ; आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् ।मेने यथा तत्र जनः समेतो बाल्यात् पराम् इव दशां मदनो ऽध्युवास ॥
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयम् अजस्य लिप्सोः ।भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः ॥
रात्रिर् गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर् जगतो विभक्ता ।ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् तस्या भवान् अपरधुर्यपदावलम्बी ॥
निद्रावशेन भवताप्य् अनपेक्षमाणा पर्युत्सुकत्वम् अबला निशि खण्डितेव ।लक्ष्मीर् विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥
तद् वल्गुना युगपदुन्मिषितेन तावत् सद्यः परपरतुलाम् अधिरोहतां द्वे ।प्रस्पन्दमानपरुषेतरतारम् अन्तश् चक्षुस् तव प्रचलितभ्रमरं च पद्मम् ॥
वृन्ताच् छ्लथं हरति पुष्पम् अनोकहानां संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः ।स्वाभाविकं परगुणेन विभातवायुः सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य ॥
ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः ।आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिर् इव त्वदीयम् ॥
यावत् प्रतापनिधिर् आक्रमते न भानुर् अह्नाय तावद् अरुणेन तमो निरस्तम् ।आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति ॥
शय्यां जहत्य् उभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते ।येषां विभान्ति तरुणारुणरागयोगाद् भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥
दीर्घेष्व् अमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः ।वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥
भवति विरलभक्तिर् म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः ।अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः ॥
इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस् तल्पम् उज्झां चकार ।मदपटु निनदद्भिर् बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥
अथ विधिम् अवसाय्य शास्त्रदृष्टं दिवसमुखोचितम् अञ्चिताक्षिपक्ष्मा ।कुशलविरचितानुकूलवेषः क्षितिपसमाजम् अगात् स्वयंवरस्थम् ॥