This text does not support clickable word meanings.

अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिर् इत्य् उवाच ॥
वैदेहि पश्य्ऽ; आ मलयाद् विभक्तं मत्सेतुना फेनिलम् अम्बुराशिम् ।छायापथेनेव शरत्प्रसन्नम् आकाशम् आविष्कृतचारुतारम् ॥
गुरोर् यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।तदर्थम् उर्वीम् अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥
गर्भं दधत्य् अर्कमरीचयो ऽस्माद् विवृद्धिम् अत्राश्नुवते वसूनि ।अबिन्धनं वह्निम् असौ बिभर्ति प्रह्लादनं ज्योतिर् अजन्य् अनेन ॥
तां ताम् अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।विष्णोर् इवास्यानवधारणीयम् ईदृक्तया रूपम् इयत्तया वा ॥
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान् पुरुषो ऽधिशेते ॥
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यम् एनं शतशो महीध्राः ।नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमम् आश्रयन्ते ॥
रसातलाद् आदिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।अस्याच्छम् अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव ॥
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः ।अनन्यसामान्यकलत्रवृत्तिः पिबत्य् असौ पाययते च सिन्धूः ॥
ससत्त्वम् आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् ।अमी शिरोभिस् तिमयः सरन्ध्रैर् ऊर्ध्वं वितन्वन्ति जलप्रवाहान् ॥
मातङ्गनक्रैः सहसोत्पतद्भिर् भिन्नान् द्विधा पश्य समुद्रफेनान् ।कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वम् ॥
वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः ।सूर्यांशुसंपर्कसमृद्धरागैर् व्यज्यन्त एते मणिभिः फणस्थैः ॥
तवाधरस्परधिषु विद्रुमेषु पर्यस्तम् एतत् सहसोर्मिवेगात् ।ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित् क्लेशद् अपक्रामति शङ्खयूथम् ॥
प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन ।आभाति भूयिष्ठम् अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥
दूराद् अयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।आभाति वेला लवणाम्बुराशेर् धारानिबद्धेव कलङ्कलेखा ॥
वेलानिलः केतकरेणुभिस् ते संभावयत्य् आननम् आयताक्षि ।माम् अक्षमं मण्डनकालहानेर् वेत्तीव बिम्बाधरबद्धतृष्णम् ॥
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।प्राप्ता मुहूर्तेन विमानवेगात् कूलं फलावर्जितपूगमालम् ॥
कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातम् ।एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः ॥
क्वचित् पथा संचरते सुराणां क्वचिद् घनानां पततां क्वचिच् च ।यथाविधो मे मन्सो ऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥
असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः ।आकाशवायुर् दिनयौवनोत्थान् आचामति स्वेदलवान् मुखे ते ॥
करेण वातायनलम्बितेन स्पृष्टस् त्वया चण्डि कुतूहलिन्या ।आमुञ्चतीवाभरणं द्वितीयम् उद्भिन्नविद्युद्वलयो घनस् ते ॥
अमी जनस्थानम् अपोढविघ्नं मत्वा समारब्धनवोटजानि ।अध्यासते चीरभृतो यथास्वं चिरोज्झितान्य् आश्रममण्डलानि ॥
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरम् एकम् उर्व्याम् ।अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखाद् इव बद्धमौनम् ॥
त्वं रक्षसा भीरु यतो ऽपनीता तं मार्गम् एताः कृपया लता मे ।अदर्शयन् वक्तुम् अशक्नुवत्यः शाखाभिर् आवर्जितपल्लवाभिः ॥
मृग्यश् च दर्भाङ्कुरनिर्व्यपेक्षास् तवागतिज्ञं समबोधयन् माम् ।व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि ॥
एतद् गिरेर् मालयवतः पुरस्ताद् आविर्भवत्य् अम्बर्लेखि शृङ्गम् ।नवं यत्र घनैर् मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥
गन्धश् च धाराहतपल्वलानां कादम्बम् अर्धोद्गतकेसरं च ।स्निग्धाश् च केकाः शिखिनां बभूवुर् यस्मिन् असह्यानि विना त्वया मे ॥
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम् ।गुहाविसारीण्य् अतिवाहितानि मया कथंचिद् घनगर्जितानि ॥
आसारसिक्तक्षितिबाष्पयोगान् माम् अक्षिणोद् यत्र विभिन्नकोशैः ।विडम्ब्यमाना नवकन्दलैस् ते विवाहधूमारुणलोचनश्रीः ॥
उपान्तवानीरवनोपगूधान्य् आलक्ष्यपारिप्लवसारसानि ।दूरावतीर्णा पिबतीव खेदाद् अमूनि पम्पासलिलानि दृष्टिः ॥
अत्रावियुक्तानि रथाङ्गनाम्नाम् अन्योन्यदत्तोत्पलकेसराणि ।द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहम् ईक्षितानि ॥
इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।त्वत्प्राप्तिबुद्ध्या परिरिप्समानः सौमित्रिणा सास्रम् अहं निषिद्धः ॥
अमूर् विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।प्रत्युद्व्रजन्तीव खम् उत्पतन्त्यो गोदावरीसारसपङ्क्तयस् त्वाम् ॥
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।आह्लादयत्य् उन्मुखकृष्णसारा दृष्ट चिरात् पञ्चवटी मनो मे ॥
अत्रानुगोदं मृगयानिवृत्तस् तरङ्गवातेम विनीतखेदः ।रहस् त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥
भ्रूभेद मात्रेण पदान् मघोनः प्रभ्रंशयां यो नहुषं चकार ।तस्याविलाम्भःपरिशुद्धिहेतोर् भौमो मुनेः स्थानपरिग्रहो ऽयम् ॥
त्रेताग्निधूमाग्रम् अनिन्द्यकीर्तेस् तस्येदम् आक्रान्तविमानमार्गम् ।घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानम् आत्मा ॥
एतन् मुनेर् मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।आभाति पर्यन्तवनं विदूरान् मेघान्तरालक्ष्यम् इवेन्दुबिम्बम् ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश् चरन् मृगैः सार्धम् ऋषिर् मघोना ।समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धम् ॥
तस्यायम् अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति ॥
हविर्भुजाम् एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।असौ तपस्यत्य् अपरस् तपस्वी नाम्ना सुतीक्ष्णश् चरितेन दान्तः ॥
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥
एषो ऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।सभाजने मे भुजम् ऊर्ध्वबाहुः सव्येतरं प्राध्वम् इतः प्रयुङ्क्ते ॥
वाचंयमत्वात् प्रणतिं ममैष कम्पेन किंचित् प्रतिगृह्य मूर्ध्नः ।दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते ॥
अदः शरण्यं शरभङ्गनाम्नस् तपोवनं पावनम् आहिताग्नेः ।चिराय संतर्प्य समिधिर् अग्निं यो मन्त्रपूतां तनुम् अप्य् अहौषीत् ॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्व् अमीषु ।तस्यातिथीनाम् अधुना सपर्या स्थिता सुपुत्रेष्व् इव पादपेषु ॥
धारास्वनोद्गारिदरीमुखो ऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।बध्नाति मे बन्धुरगात्रि चक्षुर् दृप्तः ककुद्मान् इव चित्रकूटः ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद् विदूरान्तरभावतन्वी ।मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥
अयं सुजातो ऽनुगिरं तमालः प्रवालम् आदाय सुगन्धि यस्य ।कर्णार्पितेन्ऽ त् आकरवं कपोलम् अपार्थ्यकालागुरुपत्त्रलेखम् व्त् ॥
अनिग्रहत्रासविनीतसत्त्वम् अपुष्पलिङ्गात् फलबन्धिवृक्षम् ।वनं तपःसाधनम् एतद् अत्रेर् आविष्कृतोदग्रतरप्रभावम् ॥
अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्माम् ।प्रवर्तयाम् आस किल्ऽ; आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥
वीरासनैर् ध्यानजुषाम् ऋषीनाम् अमी समाध्यासितवेदिमध्याः ।निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनो ऽपि ॥
त्वया पुरस्ताद् उपयाचितो यः सो ऽयं वटः श्याम इति प्रतीतः ।राशिर् मणीनाम् इव गारुडानां सपद्मरागः फलितो विभाति ॥
क्वचित् प्रभा चान्द्रमसी तमोभिश् मुक्तामयी यष्टिर् इवानुविद्धा ।अन्यत्र माला सितपङ्कजानाम् इन्दीवरैर् उत्खचितान्तरेव ॥
क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव ।अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर् भुवश् चन्दनकल्पितेव ॥
क्वचित् प्रभा चान्द्रमसी तमोभिश् छायाविलीनैः शबलीकृतेव ।अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्व् इवालक्ष्यनभःप्रदेशा ॥
क्वचिच् च कृष्णोरगभूषणेव भस्माङ्गरागा तनुर् ईश्वरस्य ।पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥
तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रग् इन्दीवरमालयेव ।कृत्तिर् हरेः कृष्णमृगत्वचेव भूतिः स्मरारेर् इव कण्ठभासा ॥
दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव ।गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥
तुषारसंघातशिला हिमाद्रेर् जात्याञ्जनप्रस्तरशोभयेव ।पतत्रिणां मनसगोचराणां त् श्रेणीव कादम्बविहंगपङ्क्त्या ॥
नितान्तशुद्धस्फुटिकाशयोगाद् वैडूर्यकान्त्या रशनावलीव ।गङ्गा रवेर् आत्मजया समेता पुष्प्यत्य् उदारं परभागलेखा ॥
समुद्रपत्न्योर् जलसंनिपाते पूतात्मनाम् अत्र किलाभिषेकात् ।तत्त्वावबोधेन विनापि भूयस् तनुत्यजां नास्ति शरीरबन्धः ॥
पुरं निषादाधिपतेर् इदं तद् यस्मिन् मया मौलिमणिं विहाय ।जटासु बद्धास्व् अरुदत् सुमन्त्रः कैकेयि कामाः फलितास् तवेति ॥
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।ब्राह्मं सरः कारणम् आप्तवाचो बुद्धेर् इवाव्यक्तम् उदाहरन्ति ॥
जलानि या तीरनिखातयूपा वहत्य् अयोध्याम् अनु राजधानीम् ।तुरंगमेधावभृतवतीर्णैर् इक्ष्वाकुभिः पुण्यतरीकृतानि ॥
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।सामान्यधात्रीम् इव मानसं मे संभावयत्य् उत्तरकोसलानाम् ॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर् वियुक्ता ।दूरे वसन्तं शिशिरानिलैर् मां तरङ्गहस्तैर् उपगूहतीव ॥
विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवम् उज्जिहीते ।शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्य् अनघां स साधुः ।हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वाम् इव लक्ष्मणो मे ॥
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।वृद्धैर् अमात्यैः सह चीरवासा माम् अर्घ्यपाणिर् भरतो ऽभ्युपैति ॥
पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्य् अङ्कगताम् अभोक्ता ।इयन्ति वर्षाणि तया सहोग्रम् अभ्यस्यतीव व्रतम् आसिधारम् ॥
एतावद् उक्तवति दाशरथौ तदीयाम् इच्छां विमानम् अधिदेवतया विदित्वा ।द्योतिष्पथाद् अवततार सविस्मयाभिर् उद्वीक्षितं प्रकृतिभिर् भरतानुगाभिः ॥
तस्मात् पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः ।यानाद् अवातरद् अदूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतम् अर्घ्यपरिग्रहान्ते ।पर्यश्रुर् अस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके ॥
श्मश्रुप्रवृद्धिजनिताननविक्रियांश् च प्लक्षान् प्ररोहजटिलान् इव मन्त्रिवृद्धान् ।अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर् वार्त्तानुयोगमधुराक्षरया च वाचा ॥
दुर्जातबन्धुर् अयम् ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।इत्य् आदृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणम् उभौ भरतो ववन्दे ॥
सौमित्रिणा तदनु संससृजे स चैनम् उत्थाप्य नम्रशिरसं भृशम् आलिनिङ्ग ।रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्न् इवास्य भुजमध्यम् उरःस्थलेन ॥
रामाज्ञया हरिचमूपतयस् तदानीं कृत्वा मनुष्यवपुर् आरुरुहुर् गजेन्द्रान् ।तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्य् उपलेभिरे ते ॥
सानुप्लवः प्रभुर् अपि क्षणदाचराणां भेजे रथान् दशरथप्रभवानुशिष्टः ।मायाविकल्परचितैर् अपि ये तदीयैर् न स्यन्दनैस् तुलितकृत्रिमभक्तिशोभाः ॥
भूयस् ततो रघुपतिर् विलसत्पताकम् अध्यास्त कामगति सावरजो विमानम् ।दोषातनं बुधबृहस्पतियोगदृश्यस् तारापतिस् तरलविद्युद् इव्ऽआभ्रवृन्दम् ॥
तत्रेश्वरेण जगतां प्रलयाद् इवोर्वीं वर्षात्ययेन रुचम् अभ्रघनाद् इवेन्दोः ।रामेण मैथिलसुतां दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे ॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद् (?) वन्द्यं युगं चरणयोर् जनकात्मजायाः ।ज्येष्ठानुवृत्तिजटिलं च शिरो ऽस्य साधोर् अन्योन्यपावनम् अभूद् उभयं समेत्य ॥
क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण ।शत्रुघ्नप्रतिविहितोपकार्यम् आर्यः साकेतोपवनम् उदारम् अध्युवास ॥
« »