This text does not support clickable word meanings.

अथेप्सितं भर्तुर् उपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।निदानम् इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥
शरीरसादाद् असमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥
ततो विशांपत्युर् अनन्यसंततेर् मनोरथं किंचिद् इवोदयोन्मुखम् ।अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा ॥
मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा ।स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥
तदाननं मृत्सुरभि क्षितीश्वरो रहस्य् उपाघ्राय न तृप्तिम् आययौ ।करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥
दिवं मरुत्वान् इव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत् सुतः ।अतो ऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान् विलङ्घ्य सा ॥
न मे ह्रिया शंसति किंचिद् ईप्सितं स्पृहावती वस्तुषु केषु मागधी ।न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् प्रियासखीर् उत्तरकोसलेश्वरः ॥
उपेत्य सा दोहददुःखशीलतां यद् एव वव्रे तद् अपश्यद् आहृतम् ।न हीष्टम् अस्य त्रिदिवे ऽपि भूपतेर् अभूद् अनासाद्यम् अधिज्यधन्वनः ॥
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा ।पुराणपत्त्रापगमाद् अनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥
दिनेषु गच्छत्सु नितान्तपीवरं तदीयम् आनीलमुखं स्तनद्वयम् ।तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्) ॥
निधानगर्भाम् इव सागराम्बरां शमीम् इवाभ्यन्तरलीनपावकाम् ।नदीम् इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीम् अमन्यत ॥
प्रियानुरागस्य मनःसमुन्नतेर् भुजार्जितानां च दिगन्तसंपदाम् ।यथाक्रमं पुंसवनादिकाः क्रिया धृतेश् च धीरः सदृशीर् व्यधत्त सः ॥
सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः ।तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥
कुमारभृत्याकुशलैर् अनुष्ठिते भिषग्भिर् आप्तैर् अथ गर्भभर्मणि ।पतिः प्रतीतः प्रसवोन्मुखीम् प्रियां ददर्श काले दिवम् अभ्रीतम् इव ॥
ग्रहैस् ततः पञ्चभिर् उच्चसंश्रयैर् असूर्यगैः सूचितभाग्यसंपदम् ।असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिर् इवार्थम् अक्षयम् ॥
दिशः प्रसेदुर् मरुतो ववुः सुखाः प्रदक्षिणार्चिर् हविर् अग्निर् आददे ।बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥
अरिष्टशय्यां परितो विसारिणा सुजन्मनस् तस्य निजेन तेजसा ।निशीथदीपाः सहसा हतत्विषो बभूवुर् आलेख्यसमर्पिता इव ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।अदेयम् आसीत् त्रयम् एव भूपतेः शशिप्रभं छत्त्रम् उभे च चामरे ॥
समीक्ष्य पुत्रस्य चिरान् मुखं पिता निधानकुम्भस्य युवेव दुर्गतः ।मुदा शरीरे प्रबभूव नात्मनः पयोधिर् इन्दूदयमूर्छितो यथा ॥
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् ।महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥
स जातकर्मण्य् अखिले तपस्विना तपोवनाद् एत्य पुरोधसा कृते ।दिलीपसूनुर् मणिर् आकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसाम् अपि ॥
न संयतस् तस्य बभूव रक्षितुर् विसर्जयेद् यं सुतजन्महर्षितः ।ऋणाभिधानात् स्वयम् एव केवलं तदा पित्ःणां मुमुचे स बन्धनात् ॥
शुतस्य यायाद् अयम् अन्तम् अर्भकस् तथा परेषां युधि चेति पार्थिवः ।अवेक्ष्य धातोर् गमनार्थम् अर्थविच् चकार नाम्ना रघुम् आत्मसंभवम् ॥
पितुः प्रयत्नात् स समग्रसंपदः शुभैः शरीरावयवैर् दिने दिने ।पुपोष वृद्धिं हरिदश्वदीधितेर् अनुप्रवेशाद् इव बालचन्द्रमाः ॥
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।तथा नृपः सा चु सुतेन मागधी ननन्दतुस् तत्सदृशेन तत्समौ ॥
रथाङ्गनाम्नोर् इव भावबन्धनं बभूव यत् प्रेम परस्पराश्रयम् ।विभक्तम् अप्य् एकसुतेन तत् तयोः परस्परस्योपरि पर्यचीयत ॥
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् ।अभूच् च नम्रः प्रणिपातशिक्षया पितुर् मुदं तेन ततान सो ऽर्भकः ॥
तम् अङ्कम् आरोप्य शरीरयोगजैः सुखैर् निषिञ्चन्तम् इवामृतं त्वचि ।उपान्तसंमीलितलोचनो नृपश् चिरात् सुतस्पर्शरस्ज्ञतां ययौ ॥
तम् अङ्कम् आरोप्य शरीरयोगजैः स्थितेर् अभेत्ता स्थितिमन्तम् अन्वयम् ।स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानाम् इव सर्गम् आत्मनः ॥
स वृत्तचौलश् चलकाकपक्षकैर् अमात्यपुत्रैः सवयोभिर् अन्वितः ।लिपेर् यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रम् आविशत् ॥
अथोपनीतं विधिवद् विपश्चितो विनिन्युर् एनं गुरवो गुरुप्रियम् ।अवन्ध्ययत्नाश् च बभूवुर् अर्भके ततार विद्याः पवनातिपातिभिर् ॥
धियः समग्रैः स गुणैर् उदारधीः क्रमाच् चतस्रश् चतुरर्णवोपमाः ।ततार विद्याः पवनातिपातिभिर् दिशो हरिद्भिर् हरिताम् इवेश्वरः ॥
त्वचं स मेध्यां परिधाय रौरवीम् अशिक्षतास्त्रं पितुर् एव मन्त्रवत् ।न केवलं तद्गुरुर् एकपार्थिवः क्षिताव् अभूद् एकधनुर्धरो ऽपि सः ॥
महोक्षतां वत्सतरः स्पृशन्न् इव द्विपेन्द्रभावं कलभः श्रयन्न् इव ।रघुः क्रमाद् यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥
अथास्य गोदानविधेर् अनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः ।नरेन्द्रकन्यास् तम् अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥
युवा युगव्यायतबाहुर् अंसलः कपाटवक्षाः परिणद्धकंधरः ।वपुःप्रकर्षाद् अजयद् गुरुं रघुस् तथापि नीचैर् विनयाद् अदृश्यत ॥
ततः प्रजानां चिरम् आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् ।निसर्गसंस्कारविनीत इत्य् असौ नृपेण चक्रे युवराजशब्दभाक् ॥
नरेन्द्रमूलायतनाद् अनन्तरं घनव्यपायेन गभस्तिमान् इव ।अगच्छद् अंशेन गुणाभिलाषिणी नवावतारं कमलाद् इवोत्पलम् ॥
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमान् इव ।बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैर् अनुद्रुतम् ।अपूर्णम् एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नम् आप सः ॥
ततः परं तेन मखाय वज्वना तुरंगम् उत्सृष्टम् अनर्गलं पुनः ।धनुर्भृताम् अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥
विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगम् ईक्षसे ।धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥
स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगम् ईक्षसे ।धेन्वा निशम्येति वचः समीरितं मुदं पराम् आप दिलीपनन्दनः ॥
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।अतीन्द्रियेष्व् अप्य् उपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।पुनः पुनः सूतनिषिद्धचापलं हरन्तम् अश्वं रथरश्मिसंयतम् ॥
स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश् च वाजिभिः ।अवोचद् एनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्न् इव ॥
मखांशभाजां प्रथमो मनीषिभिस् त्वम् एव देवेन्द्र सदा निगद्यसे ।अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥
त्रिलोकनाथेन सदा मखद्विषस् त्वया नियम्या ननु दिव्यचक्षुषा ।स चेत् स्वयं करमसु धर्मचारिणां त्वम् अन्तरायो भवसि च्युतो विधिः ॥
तद् अङ्गम् अग्र्यं मघवन् महाक्रतोर् अमुं तुरंगं प्रतिमोक्तुम् अर्हसि ।पतःश्रुतेर् दर्शयितार ईश्वरा मलीमसाम् आददते न पद्धतिम् ॥
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर् दिवौकसाम् ।निवर्तयाम् आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ॥
यद् आत्थ राजन्यकुमार तत् तथा यशस् तु रक्ष्यं परतो यशोधनैः ।जगत्प्रकाशं तद् अशेषम् इज्यया भवद्गुरुर् लङ्घयितुं ममोद्यतः ॥
हरिर् यथैकः पुरुशोत्तमः स्मृतो महेश्वरस् त्र्यम्बक एव नापरः ।तथा विदुर् मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥
अतो ऽयम् अश्वः कपिलानुकारिणा पितुस् त्वदीयस्य मयापहारितः ।अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥
ततः प्रहस्यापभयः पुरंदरं पुनर् बभाषे तुरगस्य रक्षिता ।गृहाण शस्त्रं यदि सर्ग एष ते न खल्व् अनिर्जित्य रघुं कृती भवान् ॥
स एवम् उक्त्वा मघवन्तम् उन्मुखः करिष्यमाणः सशरम् शरासनम् ।अतिष्ठद् आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥
रघोर् अवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिद् अप्य् अमर्षणः ।नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्य् अमोघं समधत्त सायकम् ॥
दिलीपसूनोः स बृहद् (?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।पपाव् अनास्वादितपूर्वम् आशुगः कुतूहलेनेव मनुष्यशोणितम् ॥
हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥
जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम् ।चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणाद् इव ॥
तयोर् उपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः ।बभूव युद्धं तुमुउलं जयैषिणोर् अधोमुखैर् ऊर्ध्वमुखैश् च पत्त्रिभिः ॥
अतिप्रबन्धप्रहितास्त्रवृष्टिभिस् तम् आश्रयं दुष्प्रहस्य तेजसः ।शशाक निर्वापयितुं न वासवः स्वतश् च्युतं वह्निम् इवाद्भिर् अम्बुदः ॥
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर ।रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्याम् अलुनाद् विडौजसः ॥
स चापम् उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ॥
रघुर् भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।निमेषमात्राद् अवधूय तद् व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥
तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरम् अस्य तस्थुषः ।तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर् निधीयते ॥
असङ्गम् अद्रिष्व् अपि सारवत्तया न मे त्वदन्येन विसोढम् आयुधम् ।अवेहि मां प्रीतम् ऋते तुरंगमात् किम् इच्छसीति स्फुटम् आह वासवः ॥
ततो निषङ्गाद् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।नरेन्द्रसूनुः प्रतिसंहरन्न् इषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥
अमोच्यम् अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोर् अशेषेण फलेन युज्यताम् ॥
यथा च वृत्तान्तम् इमं सदोगतस् त्रिलोचनैकांशतया दुरासदः ।तवैव संदेषहराद् विशंपतिः शृणोति लोकेश तथा विधीयताम् ॥
तथेति कामं प्रतिशुश्रुवान् रघोर् यथागतं मातलिसारथिर् ययौ ।नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुर् अपि न्यवर्तत ॥
तम् अभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।परामृशन् हर्षजडेन पाणिना तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।समारौरुक्षुर् दिवम् आयुषः क्षये ततान सोपानपरंपराम् इव ॥
अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसाम् इक्ष्वाकूणा इदं हि कुलव्र्तम् ॥
« »