कौशिकेन स किल क्षितीश्वरो रामम् अध्वरविघातशान्तये ।काकपक्षधरम् एत्य याचितस् तेजसां हि न वयः समीक्ष्यते ॥
कृच्छ्रलब्धम् अपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम् ।अप्य् असुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिद् अर्थिता ॥
यावद् आदिशति पार्थिवस् तयोर् निर्गमाय पुरमार्गसत्क्रियाम् ।तावद् आशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर् घनैः ॥
तौ निदेशकरणोद्यतौ पितुर् धन्विनौ चरणयोर् निपेततुः ।भूपतेर् अपि तयोः प्रवत्स्यतोर् नम्रयोर् उपरि बाष्पबिन्दवः ॥
तौ पितुर् नयनजेन वारिणा किंचिदुक्षितशिखण्डकाव् उभौ ।धन्विनौ तम् ऋषिम् अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥
लक्ष्मणानुचरम् एव राघवं नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः ।आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥
रेजतुश् च सुतरां महौजसः कौशिकस्य पदवीम् अनुद्रुतौ ।उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाव् इव ॥
मातृवर्गचरणस्पृषौ मुनेस् तौ प्रपद्य पदवीं महौजसः ।रेजतुर् गतिवशात् प्रवर्तिनौ भास्करस्य मधुमाधवाव् इव ॥
वीचिलोलभुजयोस् तयोर् गतं शैशवाच् चपलम् अप्य् अशोभत ।तोयदागम इवोद्ध्यभिद्ययोर् नामधेयसदृशं विचेष्टितम् ॥
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।मम्लतुर् न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाव् इव ॥
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।उह्यमान इव वाहनोचितः पादचारम् अपि न व्यभावयत् ॥
तौ सरांसि रसवद्भिर् अम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।वायवः सुरभिपुष्परेणुभिश् छायया च जलदाः सिषेविरे ॥
नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम् ।दर्शनेन लघुना यथा तयोः प्रीतिम् आपुर् उभयोस् तपस्विनः ॥
स्थाणुदग्धवपुषस् तपोवनं प्राप्य दाशरथिर् आत्तकार्मुकः ।विग्रहेण मदनस्य चारुणा सो ऽभवत् प्रतिनिधिर् न कर्मणा ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद् विदितशापया पथि ।निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥
ज्यानिनिआदम् अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः ।ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।अभ्यभावि भरताग्रजस् तया वात्ययेव पितृकाननोत्थया ॥
उद्यतैकभुजयष्टिम् आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥
यच् चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।अप्रविष्टविषयस्य रक्षसां द्वारताम् अगमद् अन्तकस्य तत् ॥
बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलाम् ।विष्टपत्रयपराजयस्थिरां रावणश्रियम् अपि व्यकम्पयत् ॥
राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी ।गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥
नैरृतघ्नम् अथ मन्त्रवन् मुनेः प्रापद् अस्त्रम् अवदानतोषितात् ।ज्योतिर् इन्धनैपाति भास्करात् सूर्यकान्त इव ताडकान्तकः ॥
वामनाश्रमपदं ततः परं पावनं श्रुअम् ऋषेर् उपेयिवान् ।उन्मनाः प्रथमजन्मचेष्टितान्य् अस्मरन्न् अपि बभूव राघवः ॥
आससाद मुनिर् आत्मनस् ततः शिष्यवर्गपरिकल्पितार्हणम् ।बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनम् ॥
तत्र दीक्षितम् ऋषिं रकषतुर् विघ्नतो दशरथात्मजौ शरैः ।लोकम् अन्धतमसात् क्रमोदितौ रशामिभिः शशिदिवाकराव् इव ॥
वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् बन्धुजीवपृथुभिः प्रदूषिताम् ।संभ्रमो ऽभवद् अपोढकर्मणाम् ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणम् आश्रयमुखात् समुद्धरन् ।रक्षसां बलम् अपश्यद् अम्बरे गृध्रपक्षपवनेरितध्वजम् ॥
तत्र याव् अधिपती मखद्विषां तौ शरव्यम् अकरोत् स नेतरान् ।किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥
सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।तेन शैलगुरुम् अप्य् अपातयत् पाण्डुपत्त्रम् इव ताडकासुतम् ॥
यः सुबाहुर् इति राक्षसो ऽपरस् तत्र तत्र विससर्प मायया ।तं क्षुरप्रशकलीकृताम् कृती पत्त्रिणां व्यभजद् आश्रमाद् बहिः ॥
इत्य् अपास्तमखविघ्नयोस् तयोः सांयुगीनम् अभिनन्द्य विक्रमम् ।ऋत्विजः कुलपतेर् यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ॥
तौ प्रणामचलकाकपक्षकौ भ्रातराव् अभृथाप्लुतो मुनिः ।आशिषाम् अनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥
तं न्यमन्त्रयत संभृतक्रतुर् मैथिलः स मिघिलां व्रजन् वशी ।राघवाव् अपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥
तैः शिवेषु वसतिर् गताध्वभिः सायम् आश्रमतरुष्व् अगृह्यत ।येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥
प्रत्यपद्यत चिराय यत् पुनश् चारु गौतमवधूः शिलामयी ।स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसाम् अनुग्रहः ॥
राघवान्वितम् उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।अर्थकामसहितं सपर्यया देहबद्धम् इव धर्मम् अभ्यगात् ॥
तौ विदेहनगरीनिवासिनां गां गताव् इव दिवः पुनर्वसू ।मन्यते स्म पिबतां विलोचनैः पक्ष्मपातम् अपि वञ्चनां मनः ॥
यूपवत्य् अवसिते किर्याविधौ कालवित् कुशिकवंशवर्धनः ।रामम् इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।स्वं विचिन्त्य च धनुर् दुरानमं पीडितो दुहिट्शुल्कसंस्थया ॥
अब्रवीच् च भगवन् मतङ्गजैर् यद् बृहद्भिर् अपि कर्म दुष्करम् ।तत्र नाहम् अनुमन्तुम् उत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥
ह्रेपिता हि बहवो नरेश्वरास् तेन तात धनुषा धनुर्भृतः ।ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिग् इति प्रतस्थिरे ॥
प्रत्युवाच तम् ऋषिर् निशम्यतां सारतो ऽयम् अथ वा कृतं गिरा ।चाप एव भवतो भविष्यति व्यक्तशक्तिर् अशनिर् गिराव् इव ॥
एवम् आप्तवचनात् स पौरुषं काकपक्षकधरे ऽपि राघवे ।श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिम् इव कृष्णवर्त्मनि ॥
व्यादिदेश गणः सपार्श्वगान् कर्मुकाभरणाय मैथिलः ।तैजसय धनुषः प्रवृत्तये तोयदान् इव सहस्रलोचनः ॥
तत् प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिर् आददे धनुः ।विद्रुतक्रतुमृगानौसारिणं येन बाणम् असृजद् वृषध्वजः ॥
आततज्यम् अकरोत् स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः ।शैलसारम् अपि नातियत्नतः पुष्पचापम् इव पेशलं स्मरः ॥
भज्यमानम् अतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः ।भार्गवाय दृढमन्यवे पुनः क्षत्रम् उद्यतम् इति न्यवेदयत् ॥
दृष्टसारम् अथ रुद्रकार्मुके वीर्यशुल्कम् अभिनन्द्य मैथिलः ।राघवाय तनयाम् अयोनिजां रूपिणीं श्रियम् इव न्यवेदयत् ॥
मैथिलः सपदि सत्यसंगरो राघवाय तनयाम् अयोनिजां ।संनिधौ द्युतिमतस् तपोनिधेर् अग्निसाक्षिक इवातिसृष्टवान् ॥
प्राहिणोच् च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् ।भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलम् इदं निमेर् इति ॥
उत्सुकश् च सुतदारकर्मणा सो ऽभवद् गुरुर् उपागतश् च तम् ।गौतमस्य तनयो ऽनुकूलवाक् प्रार्थितं हि सुकृताम् अकालहृत् ॥
अन्वियेष सदृशीं स च स्नुषां प्राप चैनम् अनुकूलवाग् द्विजः ।सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितम् ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनम् अग्रजन्मनः ।उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥
आससाद मिथिलां स वेष्टयन् पिडितोपवनपादपां बलैः ।प्रीतिरोधम् असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगम् आयतम् ॥
तौ समेत्य समयस्थिताव् उभौ भूपती वरुणवासवोपमौ ।कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥
पार्थिवीम् उदवहद् रघूद्वहो लक्ष्मणस् तदनुजाम् अथोर्मिलाम् ।यौ तयोर् अवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥
ते चतुर्थसहितास् त्रयो बभुः सूनवो नववधूपरिग्रहाः ।सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥
ता नराधिपसुता नृपात्मजैस् ते च ताभिर् अगमन् कृतार्थताम् ।सो ऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥
एवम् आत्तरतिर् आत्मसंभवांस् तान् निवेश्य चतुरो ऽपि तत्र सः ।अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः ।चिक्लिशुर् भृशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम् ॥
लक्ष्यते स्म तदनन्तरं रविर् बद्धभीमपैर्वेषमण्डलः ।वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।अङ्गना इव रजस्वला दिशो नो बभूवुर् अवलोकनक्षमाः ॥
भास्करश् च दिशम् अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ।क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥
तत् प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित् ।अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् ॥
तेजसः सपदि राशिर् उत्थितः प्रादुरास किल वाहिनीमुखे ।यः प्रमृज्य नयनानि सैनिकैर् लक्षणीयपुरुषाकृतिश् चिरात् ॥
पित्र्यम् अंशम् उपवीतलक्षणं मातृकं च धनुर् ऊर्जितं दधत् ।यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥
येन रोषपरुषात्मनः पितुः शासने स्थिभिदो ऽपि तस्थुषा ।वेपमानजननीशिरश्छिदा प्राग् अजीयत घृणा ततो मही ॥
अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः ।क्षत्रियान्तकरणैकविंशतेर् व्याजपूर्वगणनाम् इवोद्वहन् ॥
तं पितुर् वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।बालसूनुर् अवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥
रामनाम इति तुल्यम् आत्मजे वर्तमानम् अहिते च दारुणे ।हृद्यम् अस्य भयदायि चाभवद् रत्नजातम् इव हारसर्पयोः ॥
अर्घ्यम् अर्घ्यम् इति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः ।क्षत्रकोपदहनार्चिषं ततः संदधे दृशम् उदग्रतारकाम् ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥
क्षत्रजातम् अपकारि वैरि मे तन् निहत्य बहुशः शमं गतः ।सुप्तसर्प इव दण्डघट्टनाद् रोषितो ऽस्मि तव विक्रमश्रवात् ॥
मैथिलस्य धनुर् अन्यपार्थिवैस् त्वं किलानमितपूर्वम् अक्षणोः ।तन् निशम्य बहवता समर्थये वीर्यशृङ्गम् इव भग्नम् आत्मनः ॥
अन्यदा जगति राम इत्य् अयं शब्द उच्चरित एव माम् अगात् ।व्रीडम् आवहति मे स संप्रति व्यस्तवृत्तिर् उदयोन्मुखे त्वयि ॥
बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं द्वौ मतौ मम रिपू समागसौ ।होमधेनुहरणाच् च हैहयस् त्वं च इर्तिम् अपहर्तुम् उद्यतः ॥
क्षत्रियान्तकरणो ऽपि विक्रमस् तेन माम् अवति नाजिते त्वयि ।पावकस्य महिमा स गण्यते कक्षवज् ज्वलति सागरे ऽपि यः ॥
विद्धि चात्तबलम् ओजसा हरेर् ऐश्वरं धनुर् अभाजि यत् त्वया ।खातमूलम् अनिलो नदीरयैः पातयत्य् अपि मृदुस् तटद्रुमम् ॥
तन् मदीयम् इदम् आयुधं ज्यया संगमय्य सशरं विकृष्यताम् ।तिष्ठतु प्रधनम् एवम् अप्य् अहं तुल्यबाहुतरसा जितस् त्वया ॥
कातरो ऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम ।ज्यानिघातकठिनाङ्गुलिर् वृथा बध्यताम् अभययाचनाञ्जलिः ॥
एवम् उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।तद्धनुर्ग्रहणम् एव राघवः प्रत्यपद्यत समर्थम् उत्तरम् ॥
पूर्वजन्मधनुषा समागतः सो ऽतिमात्रलघुदर्शनो ऽभवत् ।केवलो ऽपि सुभगो नवाम्बुदः किं पुनस् त्रिदशचापलाञ्छितः ॥
तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाधिरोपितम् ।निष्प्रभश् च रिपुर् आस भूभृतां धूमशेष इव धूमकेतनः ॥
ताव् उभाव् अपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराव् इव ॥
तं कृपामृदुर् अवेक्ष्य भार्गवं राघवः स्खलितवीर्यम् आत्मनि ।स्वं च संहितम् अमोघम् आशुगं व्याजहार हरसूनसंनिभः ॥
न प्रहर्तुम् अलम् अस्मि निदयं विप्र इत्य् अभिभवत्य् अपि त्वयि ।शंष किं गतिम् अनेन पत्त्रिणा हन्मि लोकम् उत ते मखार्जितम् ॥
प्रत्युवाच तम् ऋषिर् न तत्त्वतस् त्वां न वेद्मि पुरुषं पुरातनम् ।गां गतस्य तव धाम वैष्णवं कोपितो ह्य् असि मया दिदृक्षुणा ॥
भस्मसात् कृतवतः पितृद्विषः पात्रसाच् च वसुधां ससागराम् ।आहितो जयविपर्ययो ऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥
तद् गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिर् अभोगलोलुपम् ॥
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश् च विससर्ज सायकम् ।भार्गवस्य सुकृतो ऽपि सो ऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥
राघवो ऽपि चरणौ तपोनिधेः क्षम्यताम् इति वदन् समस्पृषत् ।निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिर् एव कीर्तये ॥
राजसत्वम् अवधूय मातृकं पित्र्यम् अस्मि गमितः शमं यदा ।नन्व् अनिन्दितफलो मम त्वया निग्रहो ऽप्य् अयम् अनुग्रहीकृतः ॥
साधु याम्य् अहम् अविघ्नम् अस्तु ते देवकार्यम् उपपादयिष्यतः ।ऊचिवान् इति वचः सलक्ष्मणं लक्ष्मणाग्रजम् ऋषिस् तिरोदधे ॥
स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि ।स्वस्तिदानम् अधिकृत्य चाक्षयं भार्गवो ऽथ निजम् आश्रमं ययौ ॥
तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहाद् अमन्यत पिता पुनर् एव जातम् ।तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः ॥
अथ पथि गमयित्वा कॢपरम्योपकार्ये कतिचिद् अवनिपालः शर्वरीः शर्वकल्पह् ।पुरम् अविशद् अयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् ॥