अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् ।शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥
तत्र तीर्थसलिलेन दीर्घिकास् तल्पम् अन्तरितभूमिभिः कुशैः ।सौधवासम् उटजेन विस्मृतः संचिकाय फलनिःस्पृहस् तपः ॥
लब्धपालनविधौ न तत्सुतः खेदम् आप गुरुणा हि मेदिनी ।भोक्तुम् एव भुजनिर्जितद्विषा न प्रसाधयितुम् अस्य कल्पिता ॥
सो ऽधिकारम् अभिकः कुलोचितं काश्चन स्वयम् अवर्तयत् समाः ।तं निवेश्य सचिवेष्व् अतः परं स्त्रीविधेयनवयौवनो ऽभवत् ॥
कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु ।ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः पूर्वम् उत्सवम् अपोहद् उत्सवः ॥
इन्द्रियार्थपरिशून्यम् अक्षर्मः सोढुम् एकम् अपि स क्षणातरम् ।अन्तरे च विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥
गौरवाद् यद् अपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥
तं कृतप्रणतयो ऽनुजीविनः कोमलात्मनखरागरूषितम् ।भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥
युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश् च दीर्घिकाः ।गूढमोहनगृहास् तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥
तत्र सेकहृतलोचनाञ्जनैर् धौतरागपरिपाटलाधरैः ।अङ्गनास् तम् अधिकं व्यलोभयन्न् अर्पितप्रकृतिकान्तिभिर् मुखैः ॥
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ।अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीर् इव द्विपः ॥
सातिरेकमदकारणं रहस् तेन दत्तम् अभिलेषुर् अङ्गनाः ।ताभिर् अप्य् उपहृतं मुखासवं सो ऽपिबद् बकुलतुल्यदोहदः ॥
अङ्कम् अङ्कपरिवर्तनोचिते तस्य निन्यतुर् अशून्यताम् उभे ।वल्लकी च हृदयंगमस्वना वल्गुवाग् अपि च वामलोचना ॥
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन् मनः ।नर्तकीर् अभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व् अलज्जवत् ॥
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।प्रेमदत्तवदनानिअः मनः सो ऽन्वजीवद् अमरालकेश्वरौ ॥
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः ।वल्लभाभिर् उपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।मेखलाभिर् असकृच् च बन्धनं वञ्चयन् प्रणयिनीर् अवाप सः ॥
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥
लौल्यम् एत्य गृहिणीपरिग्रहान् नर्तकीष्व् असुलभासु तद्वपुः ।वर्तते स्म स कथंचिद् आलिखन्न् अङ्गुलीक्षरणसन्नवर्तिकः ॥
प्रेमगर्वितविपक्षमत्सराद् आयताच् च मदनान् महीक्षितम् ।निन्युर् उत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम् ॥
प्रातर् एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।प्राञ्जलिः प्रणयिनीः प्रसादयन् सो ऽदुनोत् प्रणयमन्थरः पुनः ॥
स्वप्नकीर्तितविपक्षम् अङ्गनाः दर्शनेन कृतखण्डनव्यथाः ।प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर् विवर्तनैः ॥
कॢप्तपुष्पशयनांल् लतागृहान् एत्य दूतिकृतमार्गदर्शनः ।अन्वभूत् परिजनाङ्गनारतं सो ऽवरोधभयवेपथूत्तरम् ॥
नाम वल्लभजनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते ।लोलुपं बत मनो ममेति तं गोत्रविस्खलितम् ऊचुर् अङ्गनाः ॥
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् अलक्तकाङ्कितम् ।उत्थितस्य शयनं विलासिनस् तस्य विभ्रमर्ततान्य् अपावृणोत् ॥
स स्वयं चरणरागम् आदधे योषितं न च तथा समाहितः ।लोभ्यमाननयनः श्लथांशुकैर् मेखलागुणपदैर् नितम्बिभिः ॥
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।विघ्नितेच्छम् अपि तस्य सर्वतो मन्मथेन्धनम् अभूद् वधूरतम् ॥
दर्पणेषु परिभोगदर्शिनीर् नर्मपूर्वम् अनुपृष्ठसंस्थितः ।छायया स्मितमनोज्ञया वधूर् ह्रीनिमीलितमुखीश् चकार सः ॥
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलम् अग्रपादयोः ।प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥
प्रेक्ष्य दर्पणतल्स्थम् आत्मनो राजवेषम् अतिशक्रशोभिनम् ।पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥
मित्रकृत्यम् अपदिश्य पार्श्वतः प्रस्थितं तम् अनवस्थितं प्रियाः ।विद्म हे शठ पलायनच्छलान्य् अञ्जसेति रुरुधुः कचग्रहैः ॥
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रम् अपदिश्ययोषितः ।अध्यशेरत बृहद् (?) भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः ।वञ्चयिष्यसि कुतस् तमोवृतः कामुकेति चकृषुस् तम् अङ्गनाः ॥
योषिताम् उडुपतेर् इवाचिषां स्पर्शनिर्वृतिम् असाव् अनाप्नुवन् ।आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।शिलपकार्य उभयेन वेजितास् तं विजिह्मनयना व्यलोभयन् ॥
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यम् उपधाय दर्शयन् ।स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥
अंसलम्बिकुटजार्जुनस्रजस् तस्य नीपरजसाङ्गरागिणः ।प्रावृषि प्रमदबर्हिणेष्व् अभूत् कृतिमाद्रिषु विहारविभ्रमः ॥
विग्रहाच् च शयने पराङ्मुखीर् नानुनेतुम् अबलाः स तत्वरे ।आचकाङ्क्ष घनशब्दविक्लवास् ता विवृत्य विशतीर् भुजान्तरम् ॥
कार्त्तिकीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः ।अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बम् इव हंसमेखलम् ।स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर् व्यलोकयत् ॥
मर्मरैर् अगुरुधूपगन्धिभिर् व्यक्तहेमर्शनैस् तम् एकतः ।जह्रुर् आग्रथनमोक्षलोलुपं हैमनैर् निव्सनैः सुमध्यमाः ॥
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।अन्वनैषुर् अवधूतविग्रहास् तं दुरुत्सहवियोगम् अङ्गनाः ॥
ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन् परिजनापविद्धया ।मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनम् अवाप बाहुभिः ॥
तं पयोधरनिषक्तचन्दनैर् मौक्तिकग्रथितचारुभूषणैः ।ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः ॥
यत् स भग्नसहकारम् आसवं रक्तपाटलसमागमं पपौ ।तेन तस्य मधुनिर्गमात् कृशश् चित्तयोनिर् अभवत् पुनर्नवः ॥
एवम् इन्द्रियसुखानि निर्विशन्न् अन्यकार्यविमुखः स पार्थिवः ।आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयद् अनङ्गवाहितः ॥
तं प्रमत्तम् अपि न प्रभावतः शेकुर् आक्रमितुम् अन्यपार्थिवाः ।आमयस् तु रतिरागसंभवो दक्षशाप इव चन्द्रम् अक्षिणोत् ॥
दृष्टदोषम् अपि तन् न सो ऽत्यजत् सङ्गवस्तु भिषजाम् अनाश्रवः ।स्वादुभिस् तु विषयैर् हृतस् ततो दुःखम् इन्द्रियगणो निवार्यते ॥
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।यक्ष्मणापि परिहानिर् आययौ कामयानसमवस्थया तुलाम् ॥
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषम् इव घर्मपल्वलम् ।राज्ञि तत्कुलम् अभूत् क्षयातुरे वामनार्चिर् इव दीपभाजनम् ॥
बाढम् एषु दिवसेषु कर्म साधयति पुत्रजन्मने ।इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः शश्वद् ऊचुर् अघशङ्किनीः प्रजाः ॥
स त्व् अनेकवनितासखो ऽपि सन् पावनीम् अनवलोक्य संततिम् ।वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुम् अत्यगात् ॥
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा ।रोगशान्तिम् अपदिश्य मन्त्रिणः संभृते शिखिनि गूढम् आदधुः ॥
तैः कृतप्रकृतिमुख्यसंग्रहैर् आशु तस्य सहधर्मचारिणी ।साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥
तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् उष्णैर् विलोचनजलैः प्रथमाभितप्तः ।निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥
तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् अन्तर्गूढं क्षितिर् इव बभौ बीजमुष्टिं दधाना ।मौलैः सार्धं स्थविरसचिवैर् हेमसिंहासनस्था राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा ॥