स नैषधस्यार्थपतेः सुतायाम् उत्पादयाम् आस निषिद्धशत्रुः ।अनूनसारं निषधान् नगेन्द्रात् पुत्रं यम् आहुर् निषधाख्यम् एव ॥
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।सुवृष्तियोगाद् इव जीवलोकः सस्येन संपत्तिफलात्मकेन ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन् प्रतिष्ठापितराजशब्दः ।कौमुद्वतेयः कुमुदावदातैर् द्याम् अर्जितां कर्मभिर् आरुरोह ॥
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।एकातपोअत्रां भुवम् एकवीरः पुरार्गलादीर्घभुजो बुभोज ॥
तस्यानलौजास् तनयस् तदन्ते वंशश्रियं प्राप नलाभिधानः ।यो नड्वलानीव गजः परेषां बलान्य् अमृद्नान् नलिनाभवक्त्रः ॥
नभश्चरैर् गीतयश्यामतनुं तनूजम् नभस्तलश्यामतनुं तनूजम् ।ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासम् इव प्रजानाम् ॥
तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस् तत् प्रभवे प्रभुत्वम् ।मृगैर् अजर्यं जरस्पोदैष्टम् अदेहबन्धाय पुनर् बबन्ध ॥
तेन द्विपानाम् इव पुण्डरीको राज्ञाम् अजय्यो ऽजनि पुण्डरीकः ।शान्ते पितर्य् आहृतपुण्डरीका यं पुण्डरीकाक्षम् इवाश्रिता श्रीः ॥
स क्षेमधन्वानम् अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ।क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश् चचार ॥
अनीकिनीनां समरे ऽग्रयायी तस्यापि देवप्रतिमः सुतो ऽभूत् ।व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवे ऽपि यस्य ॥
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।पुत्रस् तथैवाधिकवत्सलेन स तेन पित्रा पितृमान् बभूव ॥
पूर्वस् तयोर् आत्मसमे चिरोढाम् आत्मोद्भवे वर्णचतुष्टयस्य ।धुरं निधायैकनिधिर् गुणानाम् जगाम यज्वा यजमानलोकम् ॥
वशी सुतस् तस्य वशंवदत्वात् स्वेषाम् इवासीद् द्विषताम् अपीष्टः ।सकृद् (?) विविग्नान् अपि हि प्रयुक्तं माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥
अहीनगुर् नाम स गां समग्राम् अहीनबाहुद्रविणः शशास ।यो हीन संसर्गपराङ्मुखत्वाद् माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥
गुरोः स चानन्तरम् अन्तर्ज्ञः पुंसां पुमान् आद्य इवावतीर्णः ।उपक्रमैर् अस्खलितैश् चतुर्भिश् चतुर्दिगीशश् चतुरो बभूव ॥
तस्मिन् प्रयाते परलोकयात्रां जेतर्य् अरीणां तनयं तदीयम् ।उच्चैःशिरस्त्वाज् जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥
तस्याभवत् सूनुर् उदारशीलः शिलः शिलापट्टविशालवक्षाः ।जितारिपक्षो ऽपि शिलीमुखैर् यः शालीनताम् अव्रजद् ईड्यमानः ॥
तम् आत्मसंपन्नम् अनिन्दितात्मा कृत्वा युवानं युवराजम् एव ।सुखानि सो ऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् ॥
तं रागबन्धिष्व् अवितृप्तम् एव भोगेषु सौभाग्यविशेषभोग्यम् ।विलासिनीनाम् अरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥
उन्नाभ इत्य् उदग्तस्नामधेयस् तस्यायथार्थोन्नतनाभ्हिरन्ध्रः ।सुतो ऽभवत् पङ्कजनाभकल्पः कृत्स्नस्य नाभिर् नृपमण्डलस्य ॥
ततः परं वज्रधरप्रभावस् तदात्मजः संयति वज्रघोषः ।बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥
तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणम् अर्णवान्ता ।उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैर् उदितैः खनिभ्यः ॥
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदम् अश्विरूपः ।वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वम् आहुः ॥
आराध्य विश्वेश्वरम् ईश्वरेण तेन क्षितेर् विश्वसहो ऽधिजज्ञे ।पातुं सहो विश्वसखः समग्रां विश्वंभराम् आत्मजमूर्तिर् आत्मा ॥
अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः ।द्विषाम् असह्यः सुतरां तरूणां हिरण्यरेता सानिलो ऽभूत् ॥
पिता पित्ःणाम् अनृणस् तम् अन्ते वयस्य् अनन्तानि सुखानि लिप्सुः ।राजानम् आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ॥
कौसल्य इत्य् उत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य ।तस्यौरसः सोमसुतः सुतो ऽभून् नेत्रोत्सवः सोम इव द्वितीयः ॥
कौसल्य इत्य् उत्तरकोसलानां स ब्रह्मभूयं गतिम् आजगाम ।ब्रह्मिष्ठम् आधाय निजे ऽधिकारे ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् ॥
यशोभिर् आब्रह्मसभं प्रकाशः सम्यग् महीं शासति शासनाङ्काम् ।प्रजाश् चिरं सुप्रजसि प्रजेशे ननन्दुर् आनन्दजलाविलाक्ष्यः ॥
पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः ।तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयद् अग्रसंख्याम् ॥
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।उपस्पृषन् स्पर्शनिवृत्तलौल्यस् त्रिपुष्करेषु त्रिदशत्वम् आप ॥
तस्य प्रभानिर्जितपुष्परागं पौष्यं तिथौ पुष्यम् असूत पत्नी ।यस्मिन्न् अपुष्यन्न् उदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनये ऽर्पितात्मा ।तस्मात् सयोगाद् अधिगम्य योगम् अजन्मने ऽकल्पत जन्मभीरुः ॥
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिर् उर्वीम् ।यस्मिन्न् अभूज् ज्यायसि सत्यसंधे संधिर् ध्रुवः संनमताम् अरीणाम् ॥
सुते शिशाव् एव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।मृगायताक्षो मृगयाविहारी सिंहाद् अवापद् विपदं नृसिंहः ॥
स्वर्गामिनस् तस्य तम् ऐकमत्याद् अमात्यवर्गः कुलतन्तुम् एकम् ।अनाथदीनाः प्रकृतीर् अवेक्ष्य साकेतनाथं विधिवच् चकार ॥
ववेन्दुना तन् नभसोपमेयं शावैकसिंहेन च काननेन ।रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रम् आसीत् ॥
लोकेन भावी पितुर् एव तुल्यः संभावितो मौलिपरिग्रहात् सः ।दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् आशाः पुरोवातम् अवाप्य मेघः ॥
तं राजवीथ्याम् अधिहस्ति यान्तम् आधोरणालम्बितम् अग्र्यवेषम् ।षड्वर्षदेशियम् अपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण ॥
कामं न सो ऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।तेजोमहिम्ना पुनर् आवृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥
तस्माद् अधः किंचिद् इवावतीर्णाव् असंस्पृशन्तौ तपनीयपीठम् ।सालक्तकौ भूपतयः प्रसिद्धैर् ववन्दिरे मौलिभिर् अस्य पादौ ॥
मणौ महानील इति प्रभावाद् अल्पप्रमाणे ऽपि यथा न मिथ्या ।शब्दो महाराज इति प्रतीतस् तथैव तस्मिन् युयुजे ऽर्भके ऽपि ॥
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षत् ।तस्याननाद् उच्चरितो विवादश् चक्स्हाल वेलास्व् अपि नार्णवानाम् ॥
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।तेनैव शून्यान्य् अरिसुन्दरीणां मुखानि स स्मेरमुखश् चकार ॥
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायाद् अपि श्रुतवृद्धयोगात् ।नितान्तगुर्वीम् अपि चानुभावाद् धुरं धरित्र्या बिभरां बभूव ॥
न्यस्ताक्षराम् अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् ।सर्वाणि तावच् छ्रुतवृद्धयोगात् फलान्य् उपायुङ्क्त स दण्डनीतेः ॥
उरस्य् अपर्याप्तभागा प्रौढीभविष्यन्तम् उदीक्षमाणा ।संजातलज्जेव तम् आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः ॥
अनश्नुवानेन युगोपमानम् अबद्धमौर्वीकिणलाञ्छनेन ।अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः ॥
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।वंश्या गुणाः खल्व् अपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानम् आपुः ॥
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्न् इवाक्लेशकरो गुरूणाम् ।तिस्रस् त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश् च पित्र्याः ॥
व्यूह्य स्थितः किंचिद् इवोत्तरार्धम् उन्नद्धचूडो ऽञ्चितस्व्यजानुः ।आकर्णम् आकृष्टसबानधन्वा व्यरोचत्ऽ; आस्ते स विनीयमानः ॥
अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पम् रागबन्धप्रवालम् ।अकृतकविधि सर्वाङ्गीणम् आकल्पजातं विलसितपदम् आद्यं यौवनं स प्रपेदे ॥
प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः ।अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥