अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।वसुधाम् अपि हस्तगामिनीम् अकरोद् इन्दुमतीम् इवापराम् ॥
दुरितैर् अपि कर्तुम् आत्मसात् प्रयतन्ते नृपसूनवो हि यत् ।तद् उपस्थितम् अग्रहीद् अजः पितुर् आज्ञेति न भोगतृष्णया ॥
अनुभूय वसिष्ठसंभृतैः सलिलैस् तेन सहाभिषेचनम् ।विशदोच्छवसितेन मेदिनी कथयाम् आस कृतार्थताम् इव ॥
स बभूव दुरासदः परैर् गुरुणाथर्वविदा कृतक्रियः ।पवनाग्निसमागमो ह्य् अयं सहितं ब्रह्म यद् अस्त्रतेजसा ॥
रघुम् एव निवृत्तयौवनं तम् अमन्यन्त नवेश्वरं प्रजाः ।स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणान् अपि ॥
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयम् एव संगतम् ।पदम् ऋद्धम् अजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥
सदयं बुभुजे महाभुजः सहसोद्वेगम् इयं व्रजेद् इति ।अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूम् इव ॥
अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् ।उदधेर् इव निमगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहान् इव ।स पुरस्कृतमध्यमक्रमो नमयाम् आस नृपान् अनुद्धरन् ॥
अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्व् आत्मजम् आत्मवत् तया ।विषयेषु विनाशधर्मसु त्रिदिवस्तेष्व् अपि निःस्पृहो ऽभवत् ॥
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥
तम् अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।पितरं प्रणिपत्य पादयोर् अपरित्यागम् अयाचतात्मनः ॥
रघुर् अश्रुमुखस्य तस्य तत् कृतवान् ईप्सितम् आत्मजप्रियः ।न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥
स कीलश्रमम् अन्त्यम् आश्रितो निवसन्न् आवसथे पुराद् बहिः ।समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया ॥
प्रशमस्थितपूर्वपार्थिवं कुलम् अभ्युद्यत नूतनेश्वरम् ।नभसा निभृतेन्दुना तुलाम् उदितार्केण समारुरोह तत् ॥
यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः ।अपवर्गमहोदयार्थयोर् भुवम् अंशाव् इव धर्मयोर् गतौ ॥
अजिताधिगमाय मन्त्रिभिर् युयुजे नीतिविशरदैर् अजः ।अनपायिपदोपलब्धये रघुर् आप्तैः समियाय योगिभिः ॥
समयुजय्त भूपतिर् युवा सचिवैः प्रत्यहम् अर्थसिद्धये ।अपुनर्जननोपत्तये प्रययाः संयमिभिर् मनीषिभिः ॥
नृपतिः प्रकृतीर् अवेक्षितुम् व्यवहारासनम् आददे युवा ।परिचेतुम् उपांशु धारणां कुशपूतं प्रवयास् तु विष्टरम् ॥
अनुरण्जयितुं प्रजाः प्रभुर् व्यहारासनम् आददे नवः ।अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः ॥
अनयत् प्रभुशक्तिसंपदा वशम् एको नृपतीन् अनन्तरान् ।अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥
नयचक्षुर् अजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।हृदये समरोपयन् मनः परमं ज्योतिर् अवेक्षितुं रघुः ॥
अकरोद् अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥
पणबन्धमुखान् गुणान् अजः षड् उपायुङ्क्त समीक्ष्य तत्फलम् ।रघुर् अप्य् अजयद् गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥
न नवः प्रभुर् आ फलोदयात् स्थिरकर्मा विरराम कर्मणः ।न च योगविधेर् नवेतरः स्थिरधीर् आ परमात्मदर्शनात् ॥
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।प्रसिताव् उदयापवर्गयोर् उभयीं सिद्धिम् उभाव् अवापतुः ॥
अथ काश्चिद् अजव्यपेक्षया गमयित्वा सम्दर्शनः समाः ।तमसः परम् आपद् अव्ययं पुरुषं योगसमाधिना रघुः ॥
शुतदेहविसर्जनः पितुश् चिरम् अश्रूणि विमुच्य राघवः ।विदधे विधिम् अस्य नैष्ठिकं यतिभिः सार्धम् अनग्निम् अग्निचित् ॥
अकरोत् स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।न हि तेन पथा तनुत्यजस् तनयावर्जितपिण्डकाङ्क्षिणः ॥
स परार्ध्यगतेर् अशोच्यतां पितुर् उद्दिश्य सदर्थवेदिभिः ।शमिताधिर् अधिज्यकार्मुकः कृतवान् अप्रतिशासनं जगत् ॥
क्षितिर् इन्दुमती च भामिनी पतिम् आसाद्य तम् अग्र्यपौरुषम् ।प्रथमा बहुरत्नसूर् अभूद् अपरा वीरम् अजीजनत् सुतम् ॥
दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशव् अपि श्रुतम् ।दशपूर्वरथं यम् आख्यया दशकण्ठारिगुरुं विदुर् बुधाः ॥
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः ।अनृणत्वम् उपेयिवान् बभौ परिधेर् मुक्त इवोष्णदीधितिः ॥
बलम् आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतम् ।वसु तस्य न केवलं गुणवत्तापि परप्रयोजना ॥
स कदाचिद् अवेषितप्रजः सह देव्या विजहार सुप्रजाः ।नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥
अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतम् ईश्वरम् ।उपवीणयितुं ययौ रवेर् उदगावृत्तिपथेन नारदः ॥
कुसुमैर् ग्रथिताम् अपार्थिवैः स्रजम् आतोद्यशिरोनिवेशिताम् ।अहरत् किल तस्य वेगवान् अधिवासस्पृहयेव मारुतः ॥
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।ददृशे पवनावलेपजं सृजती बाष्पम् इवाञ्जनाविलम् ॥
अभिभूय विभूतिम् आर्तवीं मधुगन्धातिशयेन वीरुधाम् ।नृपतेर् अमरस्रग् आप सा दयितोरुस्तनकोटिसुस्थितिम् ॥
क्षणमात्रसखीं सुजातयोः स्तनयोस् ताम् अवलोक्य विहला ।निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥
वपुषा करणोज्झितेन सा निपतन्ती पतिम् अप्य् अपातयत् ।ननु तैलनिषेकबिन्दुना सह दीपार्चिर् उपैति मेदिनीम् ॥
समम् एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।गुरुसंमोहविलुप्तचेतना नवदीपार्चिर् इव क्षितेस् तलम् ॥
उभयोर् अपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः ।विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥
नृपतेर् व्यजनादिभिस् तमो नुनुदे सा तु तथैव संस्थिता ।प्रतिकारविधानम् आयुषः सति शेषे हि फलाय कल्पते ॥
प्रतियोजयितव्यवल्लकीसमवस्थाम् अथ सत्त्वविप्लवात् ।स निनाय नितान्तवत्सलः परिगृह्योचितम् अङ्कम् अङ्गनाम् ॥
स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणात् ।सलिलोद्धृतपद्मिनीनिभां दयिताम् अङ्कम् उदशुलोचनः ॥
स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया ।समलक्ष्यत बिभ्रद् आविलां मृगलेखाम् उषसीव चन्द्रमाः ॥
विललाप स बाष्पगद्गदं सहजाम् अप्य् अपहाय धीरताम् ।अभितप्तम् अयो ऽपि मार्दवं भजते कैव कथा शरीरिषु ॥
कुसुमान्य् अपि गात्रसंगमात् प्रभवन्त्य् आयुर् अपोहितुं यदि ।न भविष्यति हन्त साधनं किम् इवानयत् प्रहरिष्यतो विधेः ॥
अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।हिमसेकविपत्तिर् अत्र मे नलिनी पूर्वनिदर्शनं मता ॥
स्रग् इयं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।विषम् अप्य् अमृतं क्वचिद् भवेद् अमृतं वा विषम् ईश्वरेच्छया ॥
अथ वा मम भाग्यविप्लवाद् अशनिः कल्पित एष वेधसा ।यद् अनेन तरुर् न पातितस् क्षपिता तद्विटपाश्रितलता ॥
कृतवत्य् असि नावधीरणाम् अपराध्हे ऽपि यदा चिरं मयि ।कथम् एकपदे निरागसं जनम् आभाष्यम् इमं न मन्यसे ॥
ध्रुवम् अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस् तव ।परलोकम् असंनिवृत्तये यद् अनापृच्छ्य गतासि माम् इतः ॥
दयितां यदि तावद् अन्वगाद् विनिवृत्तं किम् इदं तया विना ।सहतां हतजीवितं मम प्रबलाम् आत्मकृतेन वेदनाम् ॥
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमो ऽपि ते ।अथ चास्तमिता ऽस्य् अहो बत धिग् इमां देहभृताम् असारताम् ॥
सुरतश्रमवारिबिन्दवो न हि तावद् विरमन्ति ते मुखे ।कथम् अस्तमिता ऽस्य् अहो बत धिग् इमाम् देहवताम् असारताम् ॥
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।ननु शब्दपतिः क्षितेर् अहं त्वयि मे भावनिबन्धना रतिः ॥
कुसुमोत्कचितान् वलीमतश् चलयन् भृङ्गरुचस् तवालकान् ।करभोरु करोति मारुतस् त्वदुपावर्तन्शङ्कि मे मनः ॥
तद् अपोहितुम् अर्हसि प्रिये प्रतिबोधेन विषादम् आषु मे ।ज्वलितेन गुहागतं तमस् तुहिनाद्रेर् इव नतम् ओषधिः ॥
इदम् उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति माम् ।निशि सुप्तम् इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥
शशिनं पुनर् एति शार्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।इति तौ विर्हान्तरक्षमौ कथम् अत्यन्तगता न मां दहेः ॥
नवपल्लवसंस्तरे ऽपि ते मृदु दूयेत यद् अङ्गम् अर्पितम् ।तद् इदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥
इयम् अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते ॥
कलम् अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं ।पृटतीषु विलोलम् ईक्षितं पवनाधूतलतासु विभ्रमः ॥
त्रिदिवोत्सुकयाप्य् अवेक्ष्य मां निहिताः सत्यम् अमी गुणास् त्वया ।विरहे तव मे गुरुव्यथं हृदयं न त्व् अवलम्बितुं क्षमाः ॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्व् इमौ ।अविधाय विवाहसत्क्रियाम् अनयोर् गम्यत इव्य् असांप्रतम् ॥
कुसुमं कृतदोहदस् त्वया यद् अशोको ऽयम् उदीरयिष्यति ।अलकाभरणं कथं नु तत् तव नेष्यामि निवापलाल्यताम् ॥
स्मरतेव सशब्दनूपुरं चरणानुग्रहम् अन्यदुर्लभम् ।अमुना कुसुमाश्रुवर्षिणा त्वम् अशोकेन सुगात्रि शोच्यसे ॥
तव निःश्वसितानुकारिभिर् बकुलैर् अर्धचितां समं मया ।असमाप्य विलासमेखलां किम् इदं किंनरकण्ठि सुप्यते ॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभो ऽयम् आत्मजः ।अहम् एकरसस् तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥
धृतिर् अस्तमिता रतिश् च्युता विरतं गेयम् ऋतुर् निरुत्सवः ।गतम् आभरणप्रयोजनं परिशून्यं शयनीयम् अद्य मे ॥
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत् कथं नु मे ।अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥
विभवे ऽपि सति त्वया विना सुखम् एतावद् अजस्य गण्यताम् ।अहृतस्य विलोभनान्तरैर् मम सर्वे विषयास् तदाश्रयाः ॥
विलपन्न् इति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।अकरोत् पृथिवीरुहान् अपि स्रुतशाखारसभाष्पदुर्दिनान् ॥
अथ तस्य कथंचिद् अङ्कतः स्वजनस् ताम् अपनीय सुन्दरीं ।विससर्ज कृतान्त्यमण्डनाम् अनलाय्ऽ; आगुरुचन्दनदिहसे ॥
प्रमदाम् अनु संस्थितः शुचा नृपतिः सन्न् इति वाच्यदर्शनात् ।न चकार शरीरम् अग्निसात् सह देव्या न तु जीविताशया ॥
अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीम् ।विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।परिवाहम् इवावलोकयन् स्वशुचः पौरवधूमुखाश्रुषु ॥
अथ तं सवनाय दिषितः प्रणिधानाद् गुरुर् आश्रमस्थितः ।अभिषङ्गजडं विजज्ञिवान् इति शिष्येण किलान्वबोधयत् ॥
असमाप्तविधिर् यतो मुनिस् तव विद्वान् अपि तापकारणम् ।न भवन्तम् उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः ॥
मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।शृणु विश्रुतसत्त्वसार तां हृदि चैनाम् उपधातुम् अर्हसि ॥
पुरुषस्य पदेष्व् अजन्मनः समतीतं च भवच् च भावि च ।स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥
चरतः किल दुश्चरं तपस् तृणबिन्दोः परिशङ्कितः पुरा ।प्रजिघाय समाधिबेदिनीं हरिर् अस्मै हरिणीं सुराङ्गनाम् ॥
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् ।अशपद् भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः ॥
भगवन् परवान् अयं जनः प्रतिकूलाचरितं क्षमस्व मे ।इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणम् ॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।उपलब्धवती दिवश् च्युतं विवशा शापनिवृत्तिकारणम् ॥
तद् अलं तदपायचिन्तया विपद् उत्पत्तिमताम् उपस्थिता ।वसुधेयम् अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥
उदये मदवाच्यम् उज्झता श्रुतम् आविष्कृतम् आत्मवत्तया ।मनसस् तद् उपस्थिते ज्वरे पुनर् अक्लीबतया प्रकाश्यतां ॥
रुदता कुत एव सा पुनर् भवता नानुमृतापि लभ्यते ।परलोकजुषां स्वकर्मभिर् गतयो भिन्नपथा हि देहिनाम् ॥
रुदितेन न सा निवर्तते नृप तत् तावद् अन्र्थकं तव ।न भवान् अनुसंस्थितो ऽपि तां लभते कर्मवशा हि देहिनः ॥
अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः ।स्वजनाश्रु किलात्रिसंततं दहति प्रेतम् इति प्रचक्षते ॥
मरणं प्रकृतिः शरीरिणां विकृतिर् जीवितम् उच्यते बुधैः ।क्षणम् अप्य् अवतिष्ठते श्वसन् यदि जन्तुर् ननु लाभवान् असौ ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यम् अर्पितम् ।स्थिरधीस् तु तद् एव मन्यते कुशलद्वारतया समुद्धृतम् ॥
अवगच्छति मूढचेतनः श्रुत धृतसंयोगविपर्ययौ यदा ।विरहः किम् इवानुतापयेद् वद बाह्यैर् विषयैर् विपश्चितम् ॥
न पृथग्जनवच् छुचो वशं वशिनाम् उत्तम गन्तुम् अर्हसि ।द्रुमसानुमतां किम् अन्तरं यदि वायौ द्वितये ऽपि ते चलाः ॥
स तथेति विनेतुर् उदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।तद् अलब्धपदं हृदि शोकघने प्रतियातम् इवान्तिकम् अस्य गुरोः ॥
तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वाद् अवितथसूनृतेन सूनोः ।सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश् च ॥
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद ।प्राणान्तहेतुम् अपि तं भिषजाम् असाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥
सम्यग्विनीतम् अथ वर्महरं कुमारम् आदिश्य रक्षणविधौ विधिवत् प्रजानाम् ।रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर् नृपतिर् बभूव ॥
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर् देहत्यागाद् अमरगणनालेख्यम् आसाद्य सद्यः ।पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्व् अरमत पुनर् नन्दनाभ्यन्तरेषु ॥