१५ रघुवंशम् This text does not support clickable word meanings. कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।बुभूजे पृथिवीपालः पृथिवीम् एव केवलाम् ॥ लवणेन विलुप्तेज्यास् तामिस्रेण तम् अभ्ययुः ।मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा ।त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ प्रतिशुश्राव काकुत्स्थस् तेभ्यो विघ्नप्रतिक्रियाम् ।धर्मसंरक्षणायैव प्रवृत्तिर् भुवि शार्ङ्गिणः ॥ ते रामाय वधोपायम् आचख्युर् विबुधविषः ।दुर्जयो लवणः शूली विशूलः प्रार्थ्यताम् इति ॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।करिष्यन्न् इव नामास्य यथार्थम् अरिनिग्रहात् ॥ यः कश्चन रघूणां हि परम् एकः परंतपः ।अपवाद इवोत्सर्गं व्यावर्तयितुम् ईश्वरः ॥ अग्रजेन प्रयुक्ताशीस् तदा दाशरथी रथी ।ययौ वन्स्तह्लिः पश्यन् पुष्पिताः सुरभीर् अभीः ॥ रामादेशाद् अनुपदं सेनाङ्गं तस्य सिद्धये ।पश्चाद् अध्ययनार्थस्य धातोर् अधिर् इवाभवत् ॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस् तपतां वरः ।विरराज रथपृष्ठैर् वालखिल्यैर् इवांशुमान् ॥ तस्य मार्गवशाद् एका बभूव वसतिर् यतः ।रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ तम् ऋषिः पूजयाम् आस कुमारं क्लान्तवाहनम् ।तपःप्रभावसिद्धाभिर् विशेषप्रतिपत्तिभिः ॥ तस्याम् एवास्य यामिन्याम् अन्तर्वत्नी प्रजावती ।सुताव् असूत संपन्नौ कोशदण्डाव् इव क्षितिः ॥ संतानश्रवणाद् भ्रातुः सौमित्रिः सौमनस्यवान् ।प्राञ्जलिर् मुनिम् आमन्त्र्य प्रातर् युक्तरथो ययौ ॥ स च प्राप मधूपघ्नं कुम्भीनस्याश् च कुक्षिजः ।वनात् करम् इवादाय सत्त्वराशिम् उपस्थितः ॥ धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः ।क्रव्याद्गणपरीवारश् चिताग्निर् इव जङ्गमः ॥ अपशुलं तम् आसाद्य लवणं लक्ष्मणानुजः ।रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ नातिपर्याप्तम् आलक्ष्य मत्कुक्षेर् अद्य भोजनम् ।दिष्ट्या त्वम् असि मे धात्रा भीग्तेनेवोपपादितः ॥ इति संतर्ज्य शत्रुघ्नं राक्षसस् तज्जिघांसया ।प्रांशुम् उत्पाटयाम् आस मुस्तास्तम्बम् इव द्रुमम् ॥ सौमित्रेर् निशितैर् बाणैर् अन्तरा शकलीकृतः ।गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः ॥ विनाशात् तस्य वृक्षस्य रक्षस् तस्मै महोपलम् ।प्रजिघाय कृतान्तस्य मुष्टिं पृथग् इव स्थितम् ॥ ऐन्द्रम् अस्त्रम् उपादाय शत्रुघ्नेन स ताडितः ।सिकताभ्यो ऽपि हि परां प्रपेदे परमाणुताम् ॥ दक्षिणं दोषम् उद्यम्य राक्षसस् तम् उपाद्रवत् ।एकताल इवोपातपवनप्रेरितो गिरिः ॥ कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् ।आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ वयसां पङ्क्तयः पेतुर् हतस्योपरि रक्षसः ।तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥ स हत्वा लवणं वीरस् तदा मेने महौजसः ।भ्रातुः सोदर्यम् आत्मानम् इन्द्रजिद्वधशोभिनः ॥ तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥ उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।निर्ममे निर्ममो ऽर्थेषु मथुरां मधुराकृतिः ॥ या सौराज्यप्रकाशाभिर् बभौ पौरविभूतिभिः ।स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ तत्र सौधगतः पश्यन् यमुनां चक्रवाकिनीम् ।हेम भक्तिमतीं भूमेः प्रवेणीम् इव प्रिपिये ॥ सखा दशरथस्याथ जनकस्य च मन्त्रकृत् ।संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।कविः कुशलवाव् एव चकार किल नामतः ॥ साङ्गं च वेदम् अध्याप्य किंचिदुत्क्रान्तशैशवौ ।स्वकृतिं गापयाम् आस कविप्रथमपद्धतिम् ॥ रामस्य मधुरं वृत्तं गायन्तौ मातुर् अग्रतः ।तद्वियोगव्यथां किंचिच् छिथिलीचक्रतुः सुतौ ॥ इतरे ऽपि रघोर् वंश्यास् त्रयस् त्रेताग्नितेजसः ।तद्योगात् पतिवत्नीषु पत्नीष्व् आसन् द्विसूनवः ॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।मथुराविदिशे सून्वोर् निदधे पूर्वजोत्सुकः ॥ भूयस् तपोव्ययो मा भूद् वाल्मीकेर् इति सो ऽत्यगात् ।मैथिलीतनयोद्गीतनिष्पन्दमृगम् आश्रमम् ॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् ।लवणस्य वधात् पौरैर् अतिगौरवम् ईक्षितः ॥ स ददर्श सभामध्ये सभासद्भिर् उपस्थितम् ।रामं सीतापरित्यागाद् असामण्यपतिं भुवः ॥ तम् अभ्यनन्दत् प्रणतं लवणान्तकम् अग्रजः ।कालनेमिवधात् प्रीतस् तुराषाड् इव शार्ङ्गिणम् ॥ स पृष्टः सर्वतो वार्त्ताम् आख्याद् राज्ञे न संततिम् ।प्रत्यर्पयिष्यतः काले कवेर् आद्यस्य शासनात् ॥ अथ जानपदो विप्रः शिशुम् अप्राप्तयौवनम् ।अवतार्य्ऽ; आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ शोचनीयासि वसुधे या त्वं दशरथाच् च्युता ।रामहस्तम् अनुप्राप्य कष्टात् कष्टतरं गता ॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।न ह्य् अकालभवो मृत्युर् इक्ष्वाकुपदम् अस्पृशत् ॥ स मुहूर्तं सहस्वेति द्विजम् आश्वास्य दुःखितम् ।यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ आत्तशस्त्रस् तद् अध्यास्य प्रतिस्थः स रघूद्वहः ।उच्चचार पुरस् तस्य गूढरूपा सरस्वती ॥ राजन् प्रजासु ते कश्चिद् अपचारः प्रवर्तते ।तम् अन्विष्य प्रशमयेर् भवितासि ततः कृती ॥ इत्य् आप्तवचनाद् रामो विनेष्यन् वर्णविक्रियाम् ।दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना ॥ अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनम् ।ददर्श कंचिद् ऐक्श्वाकस् तपस्यन्तम् अधोमुखम् ॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥ तपस्य् अनधिकारित्वात् प्रजानां तम् अघावहम् ।शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रम् आददे ॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कम् इव पङ्कजम् ।ज्योतिष्कणाहतश्मश्रु कण्ठनालाद् अपाहरत् ॥ कृतण्डः स्वयम् राज्ञा लेभे शूद्रः सतां गतिम् ।तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ रघुनाथो ऽप्य् अगस्त्येन मार्गसंदर्शितात्मना ।महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ कुम्भयोनिर् अलंकारं तस्मै दिव्यपरिग्रहम् ।ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ तं दधन् मैथिलीकण्ठनिर्व्यापारेण बाहुना ।पश्चान् निववृते रामः प्राक् परासुर् द्विजात्मजः ॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।स्तुत्या निवर्तयाम् आस त्रातुर् वैवस्वताद् अपि ॥ तम् अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।मेघाः सस्यम् इवाम्भोभिर् अभ्यवर्षन्न् उपायनैः ॥ दिग्भ्यो निमन्त्रिताश् चैनम् अभिजग्मुर् महर्षयः ।न भौमान्य् एव धिष्ण्यानि हित्वा ज्योतिर्मयान्य् अपि ॥ उपशल्यनिविष्टैस् तैश् चतुर्द्वारमुखी बभौ ।अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ श्लाघ्यस् त्यागो ऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।अनन्यहानेः तस्यासीत् सैव जाया हिरण्मयी ॥ विधेर् अधिकसंभारस् ततः प्रववृते मखः ।आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ अथ प्राचेतसोपज्ञं रामायणम् इतस् ततः ।मैथिलेयौ कुशलवौ जगतुर् गुरुचोदितौ ॥ वृत्तं रामस्य वाल्मीकेः कृतिस् तौ किंनरस्वनौ ।किं तद् येन मनो हर्तुम् अलं स्यातां न शृण्वताम् ॥ रूपे गीते च माधुर्यम् तयोस् तज्ज्ञैर् निवेदितम् ।ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ तद्गीतश्रवणैकाग्रा संसद् अश्रुमुखी बभौ ।हिमनिस्यन्दिनी प्रातर् निवाग्तेव वनस्थली ॥ वयोवेषविसंवादि रामस्य च तयोश् च सा ।जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत ॥ उभयोर् न तथा लोकः प्रावीण्येन विसिष्मिये ।नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः ।इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिम् अशंसताम् ॥ अथ सावरजो रामः प्राचेतसम् उपेयिवान् ।उरिक्र्त्यात्मनो देहं राज्यम् अस्मै न्यवेदयत् ॥ स ताव् आख्याय रामाय मैथिलेयौ तद् आत्मजौ ।कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।दौरात्म्याद् रक्षसस् तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ ताः स्वचारित्रम् उद्दिश्य प्रत्याययतु मैथिली ।ततः पुत्रवतीम् एनां प्रतिपत्स्ये तदाज्ञया ॥ इति प्रतिश्रुते राज्ञा जानकीम् आस्रमान् मुनिः ।शिष्यैर् आनाययाम् आस स्वसिद्धिं नियमैर् इव ॥ अन्येद्युर् अथ काकुत्स्थः संनिपात्य पुरौकसः ।कविम् आह्वाययाम् आस प्रस्तुतप्रतिपत्तये ॥ स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया ।ऋचेवोदर्चिषं सूर्यं रामं मुनिर् उपस्थितः ॥ काषायपरिवीतेन स्वपदार्पितचक्षुषा ।कविम् आह्वाययाम् आस शान्तेन वपुषैव सा ॥ जनास् तदालोकपथात् प्रतिसंहृतचक्षुषः ।तस्थुस् ते ऽवाङ्मुखाः सर्वे फलिता इव सालयः ॥ तां दृष्टिविषये भर्तुर् मुनिर् आस्थितविष्टरः ।कुरु निःसंशयं वत्से स्ववृत्ते लोकम् इत्य् अशात् ॥ अथ वाल्मीक्शिष्येण पुण्यम् आवर्जितं पयः ।आचम्योदीरयाम् आस सीता सत्यां सरस्वतीम् ॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।तथा विश्वंभरे देवि माम् अन्तर्धातुम् अर्हसि ॥ एवम् उक्ते तया साध्व्या रन्ध्रात् सद्योभवाद् भुवः ।शातह्रदम् इव ज्योतिः प्रभामण्डलम् उद्ययौ ॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।समुद्ररशना साक्षात् प्रादुरासीद् वसुंधरा ॥ सा सीताम् अङ्कम् आरोप्य भर्तरि प्रहितेक्षणाम् ।मा मेति व्याहरत्य् एव तस्मिन् पातालम् अभ्यगात् ॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः ।गुरुर् विधिबलापेक्षी शमयां आस धन्विनः ॥ ऋषीन् विसृज्य यज्ञान्ते सुहृदश् च पुरस्कृतान् ।रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ युधाजितस् तु संदेशात् स देश सिन्धुनामकम् ।ददौ दत्तप्रभावाय भरताय धृतप्रजः ॥ भरतस् तत्र गन्धर्वान् युधि निजित्य केवलम् ।आतोद्यं ग्राहयाम् आस समत्याजयद् आयुधम् ॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस् तदाख्ययोः ।अभिषिच्याभिषेकार्हौ रामान्तिकम् अगात् पुनः ॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणो ऽप्य् आत्मसंभवौ ।शासनाद् रघुनाथस्य चक्रे कारापथेशावरौ ॥ इत्य् आरोपितपुत्रास् ते जननीनां जनेश्वराः ।भर्तृलोकप्रपन्नानां निवापान् विदधुः क्रमात् ॥ उपेत्य मुनिवेषो ऽथ कालः प्रोवाच राघवम् ।रहःसंवादिनौ पास्येद् आवां यस् तं त्यजेर् इति ॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।आचख्यौ दिवम् अध्यास्व शासनात् परमेष्ठिनः ॥ विद्वान् अपि तयोर् द्वाःस्तहः समयं लक्ष्मणो ऽभिनत् ।भीतो दुर्वाससः शापाद् रामसंदर्शनार्थिनः ॥ स गत्वा सरयूतीरं देहत्यागेन योगवित् ।चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ तस्मिन्न् आत्मचतुर्भागे प्राङ् नाकम् अधितस्थुषि ।राघवः शिथिलं तस्थौ भुवि धर्मस् त्रिपाद् इव ॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशम् ।शरावत्यां सतां सूक्तैर् जनिताश्रुलवं लवम् ॥ उदक् प्रतस्थे स्थिरधीः सानुजो ऽग्निपुरःसरः ।अन्वितः पतिवात्सल्याद् गृहवर्जम् अयोध्यया ॥ जगृहुस् तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।कदम्बमुकुलस्थूलैर् अभिवृष्टं प्रजाश्रुभिः ॥ उपस्थितविमानेन तेन भक्तानुकम्पिना ।चक्रे त्रिदिवनिःष्रेणिः सरयूर् अनुयायिनाम् ॥ यद् गोप्रतरकल्पो ऽभुत् संमर्दस् तत्र मज्जताम् ।अतस् तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ स विभुर् विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ॥ निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् ।लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयम् इव गिरौ दक्षिणे चोत्तरे च ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha