अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश् च ।चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रम् एषां हि कुलानुसारि ॥
ते सेतुवार्त्तागजबन्धमुख्यैर् अभ्युच्छ्रिताः कर्मभिर् अप्य् अवन्ध्यैः ।अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेर् अनुपारतानाम् ।सुरद्विपानाम् इव सामयोनिर् भिन्नो ऽष्ठदा विप्रससार वंशः ॥
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।कुशः प्रवासस्थकलत्रवेषाम् अदृष्टपूर्वां वनिताम् अपश्यत् ॥
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात् पुरुहूतभासः ।जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥
अथानुपोढार्गलम् अप्य् अगारं छायाम् इवादर्शतलं प्रविष्टाम् ।सविस्मयो दाशरथेस् तनूजः प्रोवाच पूर्वार्धविषृटतल्पः ॥
लभ्दान्तरा सावरणे ऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।बिभर्षि चाकारम् अनिर्वृतानां मृणालिनी हैमम् इवोपरागम् ॥
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥
तम् अब्रवीत् सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन ।तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्न् अधिदेवतां माम् ॥
वसौकसाराम् अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणाम् अवस्थाम् ॥
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे ।विडम्बयत्य् अस्तनिमग्नसूर्यं दिनान्तम् उग्रानिलभिन्नमेघम् ॥
निशासु भास्वत्कलनूपुराणां यः संचरो ऽभूद् अभिसारिकाणाम् ।नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥
आस्फालितं यत् प्रमदाकराग्रैर् मृदङ्गधीरध्वनिम् अन्वगच्छत् ।वन्यैर् इदानीं महिषैस् तद् अम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर् दत्तमृणालभङ्गाः ।नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥
स्तम्भेषु योषित्प्रतियातनानाम् उत्क्रान्तवर्णक्रमधूसराणाम् ।स्तनोत्तरीयाणि भवन्ति सङ्गान् निर्मोकपट्टाः फणिभिर् विमुक्ताः ॥
कालान्तरश्यामसुधेषु नक्तम् इतस् ततो रूढतृणाङ्कुरेषु ।त एव मुक्तागुणशुद्धयो ऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्य् उपात्तानि विलासिनीभिः ।वन्यैः पुलिन्दैर् इव वानरैस् ताः क्लिश्यन्त उद्यानलता मदीयाः ॥
रात्राव् अनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।तिरस्क्रियन्ते कृमितन्तुजालैर् विच्छिन्नधूमप्रसरा गवाक्षाः ॥
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अनापनुवन्ति ।उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥
तद् अर्हसीमां वसतिं विसृज्य माम् अभ्युपैतुं कुलराजधानीम् ।हित्वा तनुं कारणमानुषीं तां यथा गुरुस् ते परमात्ममूर्तिम् ॥
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत् प्राग्रहरो रघूणाम् ।पूर् अप्य् अभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥
तद् अद्भुतं संसदि रार्त्रिवृत्तं प्रातर् द्विजेभ्यो नृपतिः शशंस ।श्रुत्वा त एनं कुलराजधान्या साक्षात् पतित्वे वृतम् अभयनन्दन् ॥
कुशावतीं श्रोत्रियसात् स कृत्वा यात्रानुकूले ऽहनि सावरोधः ।अनुद्रुतो वायुर् इवाभ्रवृन्दैः सैन्यैर् अयोध्याभिमुखः प्रतस्थे ॥
सा केतुमालोपवना बृहद्भिर् विहारशैलानुगतेव नागैः ।सेना रथोदारगृहा प्रयाणे तस्याभवज् जङ्गमराजधानी ॥
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।बभौ बलौघः शशिनोदितेन वेलाम् उदन्वान् इव नीयमानः ॥
तस्य प्रयातस्य वरूथिनीनां पीडाम् अपर्याप्तवतीव सोढुम् ।वसुंधरा विष्णुपदं द्वितीयम् अध्यारुरोहेव रजश्छलेन ॥
उद्यच्छमाना गमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ती ।सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥
तस्य द्विपानां मदवारिसेकात् खुराभिघाताच् च तुरंगमाणाम् ।रेणुः प्रपेदे पथि पङ्कभावं पङ्को ऽपि रेणुत्वम् इयाय नेतुः ॥
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।व्यलङ्घयद् विन्ध्यम् उपायनानि पश्यन् पुलिन्दैर् उपपादितानि ॥
तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् ।अयत्नवालग्व्यजनीबभूवुर् हंसा नभोलङ्घनलोलक्पक्षाः ॥
स पूर्वजानां कपिलेन रोषाद् भस्मावशेषीकृतविग्रहाणाम् ।सुरालयप्राप्तिनिमित्तम् अम्भस् त्रैस्रोतसं नौलुलितं ववन्दे ॥
इत्य् अध्वनः कैश्चिद् अहोभिर् अन्ते कूलं समासाद्य कुशः सरय्वाः ।वेदिप्रतिष्ठान् वितताध्वराणां यूपान् अपश्यच् छतशो रघूणाम् ॥
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान् सरयूतरङ्गान् ।तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥
अथोपशल्ये रिपुमग्नशल्यस् तस्याः पुरः पौर्सखः स राजा ।कुलध्वजस् तानि चलध्वजानि निवेशयाम् आस बली बलानि ॥
तां शिल्पिसंघाः प्रभुणा नियुक्तास् तथागतां संभृतसाधनत्वात् ।पुरं नवीचक्रुर् अपां विसर्गान् मेघा निदाघग्लपिताम् इवोर्वीम् ॥
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।उपोषितैर् वास्तुविधानविद्भिर् निर्वर्तयाम् आस रघुपवीरः ॥
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।यथार्हम् अन्यैर् अनुजीविलोकं संभावयाम् आस गृहैस् तदीयैः ॥
सा मन्दुरासंश्रयिभिस् तुरंगैः शालाविधिस्तम्भगतैश् च नागैः ।पूर् आबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥
वसन् स तस्यां वसतौ रघूणां पुराणशोभाम् अधिरोपितायाम् ।न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्य् अलकेश्वराय ॥
अथास्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारम् ।निःश्वासहार्यांशुकम् आजगाम घर्मः प्रिया वेषम् इवोपदेष्टुम् ॥
अगस्त्यचिह्नाद् अयनात् समीपं दिग् उत्तरा भास्वति संनिवृत्ते ।आनन्दशीतम् इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥
प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी ।उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इवास्ताम् ॥
दिने दिने शैवलवन्त्य् अधस्तात् सोपानपर्वाणि विमुञ्चद् अम्भः ।उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥
वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड् मलेषु ।प्रत्येकनिक्षिप्तपदः सशब्दं संख्याम् इवैषां भ्रमरश् चकार ॥
स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले ।च्युतं न कर्णाद् अपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥
यन्त्रप्रवाहैः शिशिरैः परीतान् रसेन धौतान् मलयोद्भवस्य ।शिलाविशेषान् अधिशय्य निन्युर् धारागृहेष्व् आतपम् ऋद्धिमन्तः ॥
स्नानार्द्रमुक्तेष्व् अनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलम् अङ्गनानाम् ॥
आपिञ्जरा बद्धरजःकणत्वान् मञ्जर्य् उदाराशुशुभे ऽर्जुनस्य ।दग्ध्वापि देहं गिरिशेन रोषात् खण्डीकृता ज्येव मनोभ्वस्य ॥
मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च ।संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥
जनस्य तस्मिन् समये विगाढे बभूवतुर् द्वौ सविशेषकान्तौ ।तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च ॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।विहर्तुम् इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥
स तीरभूमौ विहितोपकार्याम् आनायिभिस् ताम् अपकृष्टनक्राम् ।विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥
सा तीरसोपानपथावताराद् अन्योन्यकेयूरविघट्टिनीभिः ।सनूपुरक्षोभपदाभिर् आसीद् उद्विग्नहंसा सरिद् अङ्गनाभिः ॥
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।नौसंश्रयः पार्श्वगतां किरातीम् उपात्तवालव्यजनां बभाषे ॥
पश्यावरोधैः शतशो मदीयैर् विगाह्यमानो गलिताङ्गरागैः ।संध्योदयः साभ्र इवैष वर्णं पुष्यत्य् अनेकं सरयूप्रवाहः ॥
विलुप्तम् अन्तःपुरसुन्दरीणां यद् अञ्जनं नौलुलिताभिर् अद्भिः ।तद् बध्नतीभिर् मदरागशोभां विलोचनेषु प्रतिमुक्तम् आसाम् ॥
एता गुरुश्रोणिपयोधरत्वाद् आत्मानम् उद्वोहुढुम् अशक्नुवन्त्यः ।गाढाङ्गदैर् बाहुभिर् अस्पु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश् छलयन्ति मीनान् ॥
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरो ऽपि हारः ॥
आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानाम् ।जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनाम् ॥
तीरस्थलीबर्हिभिर् उत्कलापैः प्रस्निग्धकेकैर् अभिनन्द्यमानम् ।श्रोत्रेषु संमूर्छति रक्तम् आसां गीतानुगं वारिमृदङ्गवाद्यम् ॥
संदष्टवस्त्रेष्व् अबलानितम्बेष्व् इन्दुप्रकाशान्तरितोडुकल्पाः ।अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥
एताः करोत्पीडितवारिधारा दर्पात् सखीभिर् वदनेषु सिक्ताः ।वक्रेतराग्रैर् अलकैस् तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥
उद्बद्धकेशश् च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः ।मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितो ऽपि वेषः ॥
स नौविमानाद् अवतीर्य रेमे विलोलहारः सह ताभिर् अप्सु ।स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर् वन्य इव द्विपेन्द्रः ॥
ततो नृपेनानुगताः स्त्रियस् ता भ्राजिष्णुना सातिशयं विरेजुः ।प्राग् एव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किम् उतोन्मयूखम् ॥
वर्णोदकैः काञ्चनशृङ्गमुक्तैस् तम् आयताक्ष्यः प्रणयाद् असिञ्चन् ।तथागतः सो ऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः ॥
तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां ताम् ।आकाशगङ्गारतिर् अप्सरोभिर् वृतो मरुत्वान् अनुयातलीलः ॥
यत् कुम्भयोनेर् अदिगम्य रामः कुशाय राज्येन समं दिदेश ।तद् अस्य जैत्राभरणं विहर्तुर् अज्ञातपातं सलिले ममज्ज ॥
स्नात्वा यथाकामम् असौ सदारस् तीरोपकार्यां गतमात्र एव ।दिव्येन शून्यं वलयेन बाहुम् उपोढनेपथ्यविधिर् ददर्श ॥
जयश्रियः संवननं यतस् तद् आमुक्तपूर्वं गुरुणा च यस्मात् ।सेहे ऽस्य न भ्रंशम् अतो न लोभात् स तुल्यपुष्पाभरणो हि धीरः ॥
ततः समाज्ञापयद् आशु सर्वान् आनायिनस् तद्विचये नदीष्णान् ।वन्ध्यश्रमास् ते सरयूं विगाह्य तम् ऊचुर् आम्लानमुखप्रसादाः ॥
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्य् आभरणोत्तमं ते ।नागेन लौल्यात् कुमुदेन नूनम् उपात्तम् अन्तर्ह्रदवासिना तत् ॥
ततः स कृत्वा धनुर् आततज्यं धनुर्धरः कोपविलोहिताक्षः ।गारुत्मतं तीरगतस् तरस्वी भुजंगनाशाय समाददे ऽस्त्रम् ॥
तस्मिन् ह्रदः संहितमात्र एव क्षोभात् समाविद्धतरङ्गहस्तः ।रोधांस्य् अभिघ्नन्न् अवपातमग्नः करीव वन्यः परुषं ररास ॥
तस्मात् समुद्राद् इव मथ्यमानाद् उद्वृत्तनक्रात् सहसोन्ममज्ज ।लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥
विभूषणप्रत्युपहारहस्तम् उपस्थितं वीक्ष्य विशांपतिस् तम् ।सौपर्णम् अस्त्रं प्रतिसंजहार प्रहेष्व् अनिर्बन्धरुषो हि सन्तः ॥
त्रैलोक्यनाथप्रभवं प्रभावात् कुशं द्विषाम् अङ्कुशम् अस्त्रविद्वान् ।मानोनन्तेनाप्य् अभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्याम् अपरां तनुं त्वाम् ।सो ऽहं कथं नाम तवाचरेयम् आराधनीयस्य धृतेर् विभातम् ॥
कराभिघातोत्थितकन्दुकेयम् आलोक्य बालातिकुतूहलेन ।जवात् पतज् ज्योतिर् इवान्तरिक्षाद् आदत्त जत्राभरणं त्वदीयम् ॥
तद् एतद् आजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन ।भुजेन रक्षापरिघेण भूमेर् उपैतु योगं पुनर् अंसलेन ॥
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस् ते ॥
इत्य् ऊचिवान् उपहृताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्य् अनुभाषितारम् ।संयोजयां विधिवद् आस समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।दिव्यस् तूर्यध्वनिर् उदचरद् व्यश्नुवानो दिगन्तान् गन्धोदग्रं तदनौ ववृषुः पुष्पम् आश्चर्यमेघाः ॥
इत्थं नागस् त्रिभुवनगुरोर् औरसं मैथिलेयं लब्ध्वा बन्धुं तम् अपि च कुशः पञ्चमं तक्षकस्य ।एकः शङ्कां पितृवधरिपोर् अत्यजद् वैनतेयाच् छान्तव्यालाम् अवनिम् अपरः पौरकान्तः शशास ॥