This text does not support clickable word meanings.

अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥ १ ॥
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥ २ ॥
अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदो ऽङगनासु ॥ ३ ॥
नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥ ४ ॥
अतियपरिणाह्ववान् वितेने बहुतरमर्पितकिङ्किणीकः ।अलघुनि जघनस्थले ऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥ ५ ॥
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ ६ ॥
तव सपदि समीपमानये तामहमिति तस्य मयाग्रतो ऽभ्यधायि ।अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥ ७ ॥
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।वितथयति न जानातु मद्वचो ऽसाविति च तथापि सखीषु मे ऽभिमानः ॥ ८ ॥
सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥ ९ ॥
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥ १० ॥
प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।चरणगतसखीवचो ऽनुरोधात् किल कथमप्यनुकूलयाञ्चकार ॥ ११ ॥
द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् ।नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥ १२ ॥
इति वदति सखीजने ऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥ १३ ॥
यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् ।द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥ १४ ॥
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ १५ ॥
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥ १६ ॥
मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥ १७ ॥
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ १८ ॥
लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥ १९ ॥
जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ २० ॥
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥ २१ ॥
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥ २२ ॥
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ २३ ॥
श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ २४ ॥
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥ २५ ॥
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।मरुदवनिरुहां रजो वधूभ्यः मुपहरन् विचकार कोरकाणि ॥ २६ ॥
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदो ऽग्रतःस्थाः ॥ २७ ॥
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतो ऽभिधानम् ॥ २८ ॥
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥ २९ ॥
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ ३० ॥
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ ३१ ॥
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधे ऽंशुकेन ॥ ३२ ॥
विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः ।कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥ ३३ ॥
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥ ३४ ॥
व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् ।अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥ ३५ ॥
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ ३६ ॥
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥ ३७ ॥
अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।अहरत सुतरामतो ऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ३८ ॥
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।नखपदलिपयो ऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥ ३९ ॥
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥ ४० ॥
अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥ ४१ ॥
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ४२ ॥
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणो ऽङ्गनानाम् ॥ ४३ ॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥ ४४ ॥
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥ ४५ ॥
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥ ४६ ॥
सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥ ४७ ॥
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ ४८ ॥
उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपो ऽन्यः ।प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ ४९ ॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरो ऽन्या ।अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ५० ॥
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिको ऽन्या ।अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभे ऽतिगुर्वी ॥ ५१ ॥
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥ ५२ ॥
न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ५३ ॥
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४ ॥
मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् ।वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥ ५५ ॥
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ५६ ॥
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥ ५७ ॥
स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ ५८ ॥
समदनमवतंसिते ऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ ५९ ॥
अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥
अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु ।पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥ ६१ ॥
श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥ ६२ ॥
अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥ ६३ ॥
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥ ६४ ॥
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥ ६५ ॥
अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥ ६६ ॥
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥ ६७ ॥
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।मृदुतरतनवो ऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥ ६८ ॥
प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥ ६९ ॥
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥ ७० ॥
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७२ ॥
हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ ७३ ॥
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोकूपान् स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७४ ॥
प्रियकरपरिमार्गदङ्गनानां यदाभूत् पुनरधिकतरैव स्वेदतोयोदयश्रीः ।अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७५ ॥