This text does not support clickable word meanings.

सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ १ ॥
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥ २ ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तो ऽभूदीशितेव प्रणादः ॥ ३ ॥
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥ ४ ॥
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥ ५ ॥
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥ ६ ॥
संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥ ७ ॥
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥ ८ ॥
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ ९ ॥
घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥ १० ॥
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ ११ ॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥ १२ ॥
शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः ।अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥ १३ ॥
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ १४ ॥
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि ।केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥ १५ ॥
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ १६ ॥
आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥ १७ ॥
मिश्रीभूते तत्र सैन्यद्वये ऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परो ऽसौ ॥ १८ ॥
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा ।नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥ १९ ॥
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ २० ॥
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ २१ ॥
भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखो ऽपि ॥ २२ ॥
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥ २३ ॥
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तो ऽधो लोकमस्तेषुजालाः ।नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ २४ ॥
विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥ २५ ॥
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥ २६ ॥
क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥ २७ ॥
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदो ऽपि ।क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥ २८ ॥
तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ २९ ॥
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥ ३० ॥
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन ।अन्त्यावस्थाकालयोग्योपयोगं दध्रे ऽभीष्टं रागमापद्धनं वा ॥ ३१ ॥
अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः ।उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ ३२ ॥
द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥ ३३ ॥
मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।लग्नो ऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥ ३४ ॥
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥
सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ ३६ ॥
आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥ ३७ ॥
उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥
भग्ने ऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।साकं यन्तुः संमदेनानुबन्धी दूनो ऽभीक्ष्णं वारणः प्रत्यरोधि ॥ ३९ ॥
व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः ।सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥ ४० ॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥ ४१ ॥
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ ४२ ॥
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥ ४३ ॥
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ४४ ॥
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य ।लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ४६ ॥
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले ।ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥ ४७ ॥
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥ ४८ ॥
कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।हस्ताग्रेण प्राप्तमप्यग्रतो ऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥
तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन ।दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ ५० ॥
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥ ५१ ॥
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥ ५२ ॥
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रे ऽन्यस्य क्रोधदष्टोष्ठदन्ते ।सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ ५३ ॥
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥ ५४ ॥
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् ।एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वये ऽपि ॥ ५५ ॥
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ ५६ ॥
पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां ।पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ ५७ ॥
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ ५८ ॥
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ ५९ ॥
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ ६० ॥
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु ।प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥ ६१ ॥
स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ ६२ ॥
गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा ।भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ ६३ ॥
कश्चिच्छ्स्त्रापातमूढो ऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ ६४ ॥
भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव ।अन्यो ऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥ ६५ ॥
भिन्नानस्त्रैर्मोहभाजो ऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥ ६६ ॥
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥ ६७ ॥
रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥ ६८ ॥
निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार ।रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥ ६९ ॥
रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्ये ऽसंख्याः प्रवहन्द्वीपवत्यः ॥ ७० ॥
संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः ।कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयो ऽसृङ्मयीनाम् ॥ ७१ ॥
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥ ७२ ॥
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः ।मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥ ७३ ॥
आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ ७४ ॥
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ ७५ ॥
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ ७६ ॥
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥ ७७ ॥
क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि ।आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥ ७८ ॥
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥
आयन्तीनामविरतरयंराजकानीकिनीनाम् इत्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः ।आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ॥