This text does not support clickable word meanings.

इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ १ ॥
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ २ ॥
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥ ३ ॥
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥ ४ ॥
यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।बृहच्छिलातलकठिनांसघट्टितं ततो ऽभवद्भ्रमितामिवाखिलं सदः ॥ ५ ॥
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ ६ ॥
प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥ ७ ॥
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥ ८ ॥
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं ।अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥ ९ ॥
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया ।ध्रुवं पुरः सशरममुं तृतीयया हरो ऽपि न व्यसहत वीक्षितुं दृशा ॥ १० ॥
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ ११ ॥
विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् ।जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः ।क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १३ ॥
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥ १४ ॥
ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥ १५ ॥
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥ १६ ॥
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥ १७ ॥
समाकुले सदसि तथापि विक्रियां मनो ऽगमन्न मुरभिदः परोदितैः ।घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥ १८ ॥
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥ १९ ॥
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥ २० ॥
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ २१ ॥
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति ।महीभुजां महिमभृतां न संममुर्मुदो ऽन्तरावपुषि बहिश्च कञ्चुकाः ॥ २२ ॥
संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥ २३ ॥
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥ २४ ॥
सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः ।रणैषिणां पुलकभृतो ऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥ २५ ॥
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥ २६ ॥
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ २७ ॥
उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ २८ ॥
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ २९ ॥
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।विकौतुकः प्रकृतमहाप्लवे ऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥ ३० ॥
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥ ३१ ॥
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥ ३२ ॥
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥ ३३ ॥
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ ३४ ॥
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥ ३५ ॥
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥ ३६ ॥
चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥ ३७ ॥
असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥ ३८ ॥
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥ ३९ ॥
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि ।पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥ ४० ॥
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥ ४१ ॥
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥ ४२ ॥
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः ।तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥ ४३ ॥
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥ ४४ ॥
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥ ४५ ॥
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥ ४६ ॥
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥ ४७ ॥
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥ ४८ ॥
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ ४९ ॥
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥ ५० ॥
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥ ५१ ॥
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ ५२ ॥
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥ ५३ ॥
गरीयसः प्रचुरमुखस्य रागिणो रजो ऽभवद्व्यवहितसत्वमुत्कटम् ।सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥ ५४ ॥
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥ ५५ ॥
क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ ५६ ॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ ५७ ॥
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥ ५८ ॥
सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।यतः क्षितेरवयवसंपदो ऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ ५९ ॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजो ऽवगुण्ठितम् ।युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ६० ॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ ६१ ॥
निरीक्षितुं वियति समेत्यकौतुकात्पराक्रमं समरमुखे महीभृताम् ।रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥ ६२ ॥
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ ६३ ॥
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥ ६४ ॥
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।नभस्तलं भहुलतरेण रेणुना ततो ऽगमत्त्रिजगदिवैकतां स्फुटम् ॥ ६५ ॥
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ ६६ ॥
गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि ।मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ ६७ ॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८ ॥
अन्यूनोन्नतयो ऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ ६९ ॥