This text does not support clickable word meanings.

इत्थं व्यलीकाः प्रियतमा इव सो ऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः ।रन्तुं निरन्तरमियेष ततो ऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ १ ॥
तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गम् अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।विस्ताररुद्धवसुधो ऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥ २ ॥
भास्वत्करव्यतिकरोल्लसिताम्बरान्तस् तापत्रपा इव महाजनदर्शनेन ।संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥ ३ ॥
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥ ४ ॥
आरक्षमग्नमवमत्य सृणिं शिताग्रम् एकः पलायत जवेन कृतार्तनादः ।अन्यपुनर्मुहुरुदप्लवतास्तभारम् अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥ ५ ॥
आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् ।नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥ ६ ॥
त्रस्तः समस्तजनहासकरः करेणोस् तावत्खरः प्रखरमुल्ललयाञ्चकार ।यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥ ७ ॥
शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।भूरेणवोनभसि नद्धपयोदचक्राश् चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥ ८ ॥
उद्य्त्कृशानुशकलेषु सुराभिघाताद् भूमीसमायातशिलाफलकाचितैषु ।पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥ ९ ॥
तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।आराट्टजश्चटुलनिष्ठुरपातमुच्चैश् चित्रं चकार पदमर्दपुलायितेन ॥ १० ॥
नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितो ऽद्रेः ॥ ११ ॥
उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रान् इन्द्रानुजाचरभूतपतयो ऽध्यवात्सुः ।वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ १२ ॥
विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ १३ ॥
छायामपास्य महतीमपि वर्तमानाम् आगामिनीं जगृहिरे जनतास्रूणाम् ।सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥
अग्रगतेन वसतिं परिगृह्य रम्याम् आपात्यसैनिकनिराकराणाकुलेन ।यान्तो ऽन्यतः प्लुतकृतस्वरमाशु दूराद् उद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥ १५ ॥
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥
यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म ॥ १७ ॥
कण्ठावसक्तमृदुबाहुलतातुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १८ ॥
दृष्ट्वेव निर्जतकलापभरामधस्ताद् व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात् संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥ १९ ॥
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ २० ॥
छायाविधायिभिरनुज्झितभूतिशोभैर् उच्छ्रायिभिर्बहलपाटलधातुरागैः ।दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ २१ ॥
उत्क्षप्तपटकान्तरलीयमानम् अन्दानिलप्रशमितश्रमघर्मतोयैः ।दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥ २२ ॥
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो ऽभूत् ॥ २३ ॥
यावत्स एव समयः सममेव तावद् अव्याकुलाः पटमयान्यभितो वितत्य ।पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः ॥ २४ ॥
अल्पप्रयोजनकृतोरुतरप्रयातसैर् उद्गूर्णलोष्टगुडैः परितो ऽनुविद्धम् ।उद्यातमुद्रतमनोकहझालमध्याद् अन्याः शशङ्गुणमनल्पमवन्नवाप ॥ २५ ॥
त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।तस्थौ तथापि न मृगः क्वचिदङ्गनानाम् आकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ २६ ॥
आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ २७ ॥
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम् ॥ २८ ॥
नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥
आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते ये ऽपीन्द्रपाणितुलायुधलूनपक्षाः ।तेजग्मुरद्रिपतयः सरसीर्विगाढुम् आक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३१ ॥
आत्मानमेव जलधेः प्रतिबिम्बिताङ्गम् ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य ।क्रोधादधावदपभीरभिहन्तुमन्यनागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ३३ ॥
पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥ ३४ ॥
कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य ॥ ३५ ॥
गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६ ॥
दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर् मङ्क्षूदपाति परितः पटलैरसीनाम् ॥ ३७ ॥
अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ ३८ ॥
संसर्पिभिः पयसि गैरिकरेणुरागैर् अम्भोजगर्भरससाङ्गनिषङ्गिणा च ।क्रीडोपभोगमनुभूय सरिन्महेभाव् अन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ३९ ॥
यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥ ४० ॥
प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी ।रोद्धुं महेभपरिव्रढिमानमागाद् आक्रन्तितो न वशमेति महान्परस्य ॥ ४१ ॥
सेव्यो ऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते ॥ ४२ ॥
अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य ।सेनागजेन मथितस्य निजप्रसूनैर् मम्ले यथागतमगामि कुलैरलीनाम् ॥ ४३ ॥
नोच्चैर्यदा तरुतलेषु ममुस्तदानीम् आधोरणैरभिहिताः पृथुमूलशाखाः ।बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥ ४४ ॥
उष्णोष्णशीकरसृजः प्रबलोष्मणो ऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ।एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥ ४५ ॥
कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥ ४६ ॥
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥ ४७ ॥
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।बद्धपराणि परितो निगडानेयलावीत् स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥ ४८ ॥
जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दो ऽपि नाम न महानवगृह्य साध्यः ॥ ४९ ॥
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं ।सस्मार वारणपतिः परिमीलिताक्षम् इच्छाविहारवनवासमहोत्सवनाम् ॥ ५० ॥
दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥ ५१ ॥
शुक्लांशुकोपरचितानि निरन्तराभिर् वेश्मनि रस्मिविततानि नराधिपानाम् ।चन्द्राकृतानि गजमणडलिकाभिरुच्चैर् नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥ ५२ ॥
गत्यूनमर्गगतयो ऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥ ५३ ॥
आजिघ्रति प्रणतमूर्धनि बाह्लजे ऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥ ५४ ॥
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥ ५५ ॥
दन्तालिकाधरणनिश्चलपाणियुग्मम् अर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥ ५६ ॥
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर् देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।श्रीसंनिधानरमणीयतरो ऽश्व उच्चैर् उच्चैश्रवा जलनिधेरिव जातमात्रः ॥ ५७ ॥
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैर् अश्नुन्पुरो हरितकं मुदमादधानः ।ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५८ ॥
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।आकुल्यकारि कटकस्तुरगेण तूर्णम् अश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥ ५९ ॥
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥ ६० ॥
मुक्तासृणानि परितः कचकं चरन्तस् त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥ ६१ ॥
उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ।रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः ।उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥ ६३ ॥
मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ६५ ॥
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणाम् अभ्रंलिहानि लिलिहे नवपल्लवानि ॥ ६४ ॥
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैर् आस्यान्तरालगतमाम्रदलं म्रदीयः ।दासेरकःसपदि संवलितं निषादैर् विप्रं पुरा पतगराडिव निर्जगार ॥ ६६ ॥
स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश् चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर् भोगावलीः कलगिरो ऽवसरेषु पेठुः ॥ ६७ ॥
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥ ६८ ॥
धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः ।उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥ ६९ ॥