१५ शिशुपालवधम् This text does not support clickable word meanings. अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥ १ ॥ पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥ २ ॥ अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥ ३ ॥ स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥ ४ ॥ स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥ ५ ॥ क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः ।स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥ ६ ॥ कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ ७ ॥ कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ ८ ॥ अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥ ९ ॥ करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥ १० ॥ इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥ ११ ॥ प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥ १२ ॥ ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥ १३ ॥ यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ १४ ॥ यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥ १५ ॥ अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ १६ ॥ तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ १७ ॥ यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥ १८ ॥ अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ १९ ॥ स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥ २० ॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥ २१ ॥ प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।कृष्ण कलय ननु को ऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ २२ ॥ असुरस्त्वया न्यवधि को ऽपि मधुरिति कथं प्रतीयते ।दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ २३ ॥ मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥ २४ ॥ छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ २५ ॥ धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ २६ ॥ जगति श्रिया विरहितो ऽपि यदुदधिसुतामुपायथाः ।ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥ २७ ॥ अभिशत्रु संयति कदाचिदविहितपराक्रमो ऽपि यत् ।व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥ २८ ॥ पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥ २९ ॥ तव धन्यतेयमपि सर्वनृपतितुलितो ऽपि यत्क्षणम् ।क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ ३० ॥ त्वमशक्नुवन्न शुभकर्मनिरतः परिपाकदारुणम् ।जेतुमकुशलमतिर्नरकं यशसे ऽधिलोकमजयः सुतं भुवः ॥ ३१ ॥ सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥ ३२ ॥ त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥ मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवो ऽधिपाः ॥ ३४ ॥ अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ ३५ ॥ यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ ३६ ॥ शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ ३७ ॥ अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥ ३८ ॥ इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।सोढरिपुबलभरो ऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९ ॥ कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥ ४० ॥ न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो ऽनुवर्तते ॥ ४१ ॥ विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः ।तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ ४२ ॥ स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ ४३ ॥ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ ४४ ॥ अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ ४५ ॥ विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ ४६ ॥ इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणात् ।क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ ४७ ॥ शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ ४८ ॥ प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।प्रातरहिमकरताम्रतनुर्विषजद्रुमो ऽपर इवाभवद्द्रुमः ॥ ४९ ॥ अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ ५० ॥ अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥ ५१ ॥ कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ ५२ ॥ प्रतिघः कुतो ऽपि समुपेत्य नरपतिगणं समाश्रयत् ।जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥ ५३ ॥ चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४ ॥ कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥ ५५ ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् ।व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ ५६ ॥ विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥ ५७ ॥ इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥ ५८ ॥ रमसादुदस्थुरथ युद्धमनुचितभियो ऽभिलाषुकाः ।सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ ५९ ॥ स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः ।धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥ ६० ॥ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥ ६१ ॥ गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥ ६२ ॥ किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥ ६३ ॥ अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥ ६४ ॥ विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥ ६५ ॥ अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥ ६६ ॥ अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥ ६७ ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ ६८ ॥ चलितं ततो ऽनभिहतेच्छमवनिपतियज्ञभूमितः ।तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥ ७० ॥ क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः ।प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥ ७१ ॥ त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।शैलकटकतटभिन्नरवः प्रणनाद सांनहनिको ऽस्य वारिजः ॥ ७२ ॥ जगदन्तकालसमवेतविषदविषमेरितारवम् ।धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ ७३ ॥ सहसा ससभ्रमविलोलसकलजनतासमाकुलम् ।स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥ ७४ ॥ दधतो भयानकतरत्वमुपगतवतः समानताम् ।धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ ७५ ॥ परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥ रणसंमदोदयविकासिबलकलकलाकुलीकृते ।शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥ ७७ ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ ७८ ॥ प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ ७९ ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥ ८० ॥ दयिताय सासवमुदस्तमपतदवसादिनः करात् ।कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ ८१ ॥ भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ ८२ ॥ सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ ८३ ॥ विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ ८४ ॥ न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ ८५ ॥ प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ ८६ ॥ व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥ ८७ ॥ शठ नाकलोकललनाभिरविरतरतं रिरंससे ।तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥ ८८ ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ ८९ ॥ सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥ ९० ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥ ९१ ॥ अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ ९२ ॥ समरोन्मुखे नृपगणे ऽपि तदनुमरणोद्यतैकधीः ।दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥ ९३ ॥ विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥ ९४ ॥ सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥ ९५ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥ ९६ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha