६ शिशुपालवधम् This text does not support clickable word meanings. अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ १ ॥ ▼ Permalink Bookmark नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् ।मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ २ ॥ ▼ Permalink Bookmark विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ३ ॥ ▼ Permalink Bookmark तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ ४ ॥ ▼ Permalink Bookmark स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ ५ ॥ ▼ Permalink Bookmark स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ ६ ॥ ▼ Permalink Bookmark रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः ॥ ७ ॥ ▼ Permalink Bookmark प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥ ८ ॥ ▼ Permalink Bookmark मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ ९ ॥ ▼ Permalink Bookmark समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ १० ॥ ▼ Permalink Bookmark इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव ॥ ११ ॥ ▼ Permalink Bookmark सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ १२ ॥ ▼ Permalink Bookmark इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ १३ ॥ ▼ Permalink Bookmark वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया ॥ १४ ॥ ▼ Permalink Bookmark अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ १५ ॥ ▼ Permalink Bookmark कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ १६ ॥ ▼ Permalink Bookmark रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ १७ ॥ ▼ Permalink Bookmark त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः ।प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ १८ ॥ ▼ Permalink Bookmark न खलु दूरगतो ऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ १९ ॥ ▼ Permalink Bookmark मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ २० ॥ ▼ Permalink Bookmark अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः ।विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१ ॥ ▼ Permalink Bookmark रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ २२ ॥ ▼ Permalink Bookmark दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ २३ ॥ ▼ Permalink Bookmark निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ २४ ॥ ▼ Permalink Bookmark स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ २५ ॥ ▼ Permalink Bookmark गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ २६ ॥ ▼ Permalink Bookmark अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ २७ ॥ ▼ Permalink Bookmark द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ २८ ॥ ▼ Permalink Bookmark पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ २९ ॥ ▼ Permalink Bookmark प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ ३० ॥ ▼ Permalink Bookmark जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् ।कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ ३१ ॥ ▼ Permalink Bookmark नवकदम्बजो ऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥ ▼ Permalink Bookmark शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसां ।प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ ३३ ॥ ▼ Permalink Bookmark द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् ।घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ ३४ ॥ ▼ Permalink Bookmark दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ३५ ॥ ▼ Permalink Bookmark नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः ।प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजो ऽलिभिराददे ॥ ३६ ॥ ▼ Permalink Bookmark निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ३७ ॥ ▼ Permalink Bookmark प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ ३८ ॥ ▼ Permalink Bookmark विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति ।अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ३९ ॥ ▼ Permalink Bookmark अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ ४० ॥ ▼ Permalink Bookmark ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ ४१ ॥ ▼ Permalink Bookmark स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङगगतां दयितामिव ।शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ ४२ ॥ ▼ Permalink Bookmark जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ४३ ॥ ▼ Permalink Bookmark समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् ।शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥ ▼ Permalink Bookmark तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः ॥ ४५ ॥ ▼ Permalink Bookmark अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।विकचबाणवलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६ ॥ ▼ Permalink Bookmark कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ४७ ॥ ▼ Permalink Bookmark मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ ४८ ॥ ▼ Permalink Bookmark विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमेषेक्षणमग्रतः ॥ ४९ ॥ ▼ Permalink Bookmark कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः ॥ ५० ॥ ▼ Permalink Bookmark विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ ५१ ॥ ▼ Permalink Bookmark विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ ५२ ॥ ▼ Permalink Bookmark हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ५३ ॥ ▼ Permalink Bookmark स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् ।अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ ५४ ॥ ▼ Permalink Bookmark गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ ५५ ॥ ▼ Permalink Bookmark इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा ।स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ५६ ॥ ▼ Permalink Bookmark प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ ५७ ॥ ▼ Permalink Bookmark भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ ५८ ॥ ▼ Permalink Bookmark व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ ५९ ॥ ▼ Permalink Bookmark धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ ६० ॥ ▼ Permalink Bookmark हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ ।प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६१ ॥ ▼ Permalink Bookmark कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ ६२ ॥ ▼ Permalink Bookmark उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरो ऽभवत् ॥ ६३ ॥ ▼ Permalink Bookmark अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ ६४ ॥ ▼ Permalink Bookmark शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान् प्रियाः ॥ ६५ ॥ ▼ Permalink Bookmark अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः ॥ ६६ ॥ ▼ Permalink Bookmark अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६७ ॥ ▼ Permalink Bookmark नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८ ॥ ▼ Permalink Bookmark जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६९ ॥ ▼ Permalink Bookmark स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् ।प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ ७० ॥ ▼ Permalink Bookmark वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ ७१ ॥ ▼ Permalink Bookmark मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ ७२ ॥ ▼ Permalink Bookmark कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ ७३ ॥ ▼ Permalink Bookmark अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ ७४ ॥ ▼ Permalink Bookmark स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ७५ ॥ ▼ Permalink Bookmark जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन ।तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥ ▼ Permalink Bookmark कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन ।प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥ ७७ ॥ ▼ Permalink Bookmark गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ ७८ ॥ ▼ Permalink Bookmark कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः ।श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha